अक्षर आकार:

श्रीतुलस्यष्टोत्तरशतनामावलिः २

shrItulasyaShTottarashatanAmAvaliH 2

श्रीतुलस्यष्टोत्तरशतनामावलिः २

अथ श्रीतुलस्यष्टोत्तरशतनामावलिः । ॐ तुलस्यै नमः । पावन्यै नमः । पूज्यायै नमः । वृन्दावननिवासिन्यै नमः । ज्ञानदात्र्यै नमः । ज्ञानमय्यै नमः । निर्मलायै नमः । सर्वपूजितायै नमः । सत्यै नमः । पतिव्रतायै नमः । वृन्दायै नमः । क्षीराब्धिमथनोद्भवायै नमः । कृष्णवर्णायै नमः । रोगहन्त्र्यै नमः । त्रिवर्णायै नमः । सर्वकामदायै नमः । लक्ष्मीसख्यै नमः । नित्यशुद्धायै नमः । सुदत्यै नमः । भूमिपावन्यै नमः । (२०) हरिद्रान्नैकनिरतायै नमः । हरिपादकृतालयायै नमः । पवित्ररूपिण्यै नमः । धन्यायै नमः । सुगन्धिन्यै नमः । अमृतोद्भवायै नमः । सुरूपायै आरोग्यदायै नमः । तुष्टायै नमः । शक्तित्रितयरूपिण्यै नमः । देव्यै नमः । देवर्षिसंस्तुत्यायै नमः । कान्तायै नमः । विष्णुमनःप्रियायै नमः । भूतवेतालभीतिघ्न्यै नमः । महापातकनाशिन्यै नमः । मनोरथप्रदायै नमः । मेधायै नमः । कान्त्यै नमः । विजयदायिन्यै नमः । शङ्खचक्रगदापद्मधारिण्यै नमः । (४०) ॐ कामरूपिण्यै नमः । अपवर्गप्रदायै नमः । श्यामायै नमः । कृशमध्यायै नमः । सुकेशिन्यै नमः । वैकुण्ठवासिन्यै नमः । नन्दायै नमः । बिम्बोष्ठ्यै नमः । कोकिलस्वरायै नमः । कपिलायै नमः । निम्नगाजन्मभूम्यै नमः । आयुष्यदायिन्यै नमः । वनरूपायै नमः । दुःखनाशिन्यै नमः । अविकारायै नमः । चतुर्भुजायै नमः । गरुत्मद्वाहनायै नमः । शान्तायै नमः । दान्तायै नमः । विघ्ननिवारिण्यै नमः । (६०) ॐ श्रीविष्णुमूलिकायै नमः । पुष्ट्यै नमः । त्रिवर्गफलदायिन्यै नमः । महाशक्त्यै नमः । महामायायै नमः । लक्ष्मीवाणीसुपूजितायै नमः । सुमङ्गल्यर्चनप्रीतायै नमः । सौमङ्गल्यविवर्धिन्यै नमः । चातुर्मास्योत्सवाराध्यायै नमः । विष्णुसान्निध्यदायिन्यै नमः । उत्थानद्वादशीपूज्यायै नमः । सर्वदेवप्रपूजितायै नमः । गोपीरतिप्रदायै नमः । नित्यायै नमः । निर्गुणायै नमः । पार्वतीप्रियायै नमः । अपमृत्युहरायै नमः । राधाप्रियायै नमः । मृगविलोचनायै नमः । अम्लानायै नमः । (८०) ॐ हंसगमनायै नमः । कमलासनवन्दितायै नमः । भूलोकवासिन्यै नमः । शुद्धायै नमः । रामकृष्णादिपूजितायै नमः । सीतापूज्यायै नमः । राममनःप्रियायै नमः । नन्दनसंस्थितायै नमः । सर्वतीर्थमय्यै नमः । मुक्तायै नमः । लोकसृष्टिविधायिन्यै नमः । प्रातर्दृश्यायै नमः । ग्लानिहन्त्र्यै नमः । वैष्णव्यै नमः । सर्वसिद्धिदायै नमः । नारायण्यै नमः । सन्ततिदायै नमः । मूलमृद्धारिपावन्यै नमः । अशोकवनिकासंस्थायै नमः । सीताध्यातायै नमः । (१००) ॐ निराश्रयायै नमः । गोमतीसरयूतीररोपितायै नमः । कुटिलालकायै नमः । अपात्रभक्ष्यपापघ्न्यै नमः । दानतोयविशुद्धिदायै नमः । श्रुतिधारणसुप्रीतायै नमः । शुभायै नमः । सर्वेष्टदायिन्यै नमः । १०८ इति श्रीतुलस्यष्टोत्तरशतनामावलिः सम्पूर्णा ।