अक्षर आकार:

तुलसीविवाहविधिः

tulasIvivAhavidhiH

तुलसीविवाहविधिः

(इक्षुदण्डनिर्मिते पुष्पाद्यलङ्कृते मण्टपे विवाहः । तुलसी हरिद्राचन्दनकुङ्कुमपुष्पाद्यालङ्कृता स्वीयवेद्यां प्रथमं पूज्यते । शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ परमेश्वरप्रीत्यर्थं शुभे शोभने मुहूर्ते ... शुभतिथौ तुलस्याः विष्णुना सह विवाहोत्सवमाचरिष्ये । (अप उपस्पृश्य) विघ्नेश्वरपूजां कलशपूजां तुलसी पूजां च यथाविधि निर्वर्त्य ... विष्णुं विवाहार्थे वरार्ह वस्रालङ्करण पुष्पमालादिभिः अलङ्कृत्य वाद्यधोषगीतपुरस्सरं विवाहमण्टपमानीय कर्ता नारिकेल-कदलीफल - ताम्बूलादिभिः उपसृत्य मण्डपे आसने प्रतिष्ठाप्य प्रार्थयेत्- आगच्छ भगवन् देव अर्हयिष्यामि केशव । तुभ्यं ददामि तुलसीं प्रतीच्छन् कामदो भव ॥ आसनमिदं, अलङ्क्रियताम् । पाद्यं समर्पयामि । अर्घ्यं समर्पयामि, आचमनीयं समर्पयामि । मधुपर्कं समर्पयामि । हरिद्रालेप-मङ्गलविधिं समर्पयामि । तैलाभ्यङ्गपूर्वकं मङ्गलस्नानं समर्पयामि । वस्रालङ्करणपुष्पमालाः समर्पयामि । गन्धान्धारयामि । गन्धोपरि हरिद्राकुङ्कमं समर्पयामि । पुष्पै: पूजयामि । १२-२४-१०८ नामभिरर्चयेत् । (वधूवरौ परस्परमभिमुखौ स्थापयित्वा) ... गोत्रोद्भवां ... शर्मणः प्रपौत्रीं, ... शर्मणः पौत्रीं, शर्मणः पुत्रीं तुलसीनाम्नीं इमां कन्यकां अजाय अनादये श्री विष्णवे वराय ददामि । (त्रिरुक्त्वा) अनादिमध्यनिधन त्रैलोक्य प्रतिपालक । इमां गृहाण तुलसीं विवाह विधिनेश्वर ।तुलसीविवाहविधि।इन्फ़् पार्वती बीजसंभूतां बृन्दाभस्मनि संस्थिताम् । अनादिमध्यनिधनां वल्लभां ते ददाम्यहम् ॥ पयोघृतैश्च सेवाभिः कन्यावद्वर्धितां मया । त्वत्प्रियां तुलसीं तुभ्यं ददामि त्वं गृहाण भोः ॥ वाद्यघोष - वेदस्वस्तिवाचन - मङ्गलाशीर्भिः उभौ मेलयित्वा गीतादिभिः सन्तोषयेत् । सायमपि पुनः पूजां कृत्वा स्रीधनं यथाशक्ति दद्यात् । विवाहोत्सवपूर्तौ वैकुण्ठं गच्छ भगवन् तुलस्या सहितः प्रभो । मत्कृतं पूजनं गृह्य सन्तुष्टो भव सर्वदा । गच्छ गच्छ सुरश्रेष्ठ स्वस्थानं परमेश्वर । यत्र ब्रह्मादयो देवाः तत्र गच्छ जनार्दन । इति उभौ अभ्यनुज्ञापयेत् मङ्गलारार्तिकेन सह । तुलसीं यथापूर्वं रक्षेत् ।