अक्षर आकार:

तुलसीस्तवराजः

tulasIstavarAjaH

तुलसीस्तवराजः

शौनकः -- सूत सूत महाप्राज्ञ सर्वशास्रविशारद । ब्रूहि मे स्तवराजं तु तुलस्याः पुण्यवर्धनम् ॥ १॥ श्री सूतः -- साधु साधु महाभाग कृतः प्रश्नस्त्वयाऽनघ । तुलस्याः स्तवराजं तु को नु वर्णयितुं क्षमः ॥ २॥ इह लोके परत्रापि ब्रह्मणाऽपि न शक्यते । तुलसीकाननं दृष्ट्वा यत्र कुत्रापि वै स्थले ॥ ३॥ स्मरणात्कीर्तनाद् ध्यानात् सर्वपापैः प्रमुच्यते । किमुत स्तवराजेन स्तुवतो मुक्तिरस्य वै ॥ ४॥ भविशष्यतीति सन्देहो रौरवं नरकं व्रजेत् । तुलसीस्तवराजस्य छन्दोऽनुष्टुप् प्रकीर्तितम् । ऋषिर्नारायणो देवो देवता श्रीरुदीरिता ॥ ५॥ श्रीरिति बीजं, तुमिति कीलकं, लमिति शक्तिः, श्रीमिति दिग्बन्धः । नम इति सर्वभूतोच्वाटनम् ॥ अङ्गन्यासः - ॐ श्री हृदयाय नमः । ॐ तुं शिरसे स्वाहा । ॐ लं शिखायै वषट् । ॐ स्यैं कवचाय हुम् । ॐ नं नेत्रत्रयाय वौषट्। ॐ मः अस्राय फट् । भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ ध्यानं - चतुर्बाहुयुतां देवीं शङ्खपुस्तकधारिणीम् । पद्माक्षमालां पुष्पं च धारिणीं पुण्यदायिनीम् ॥ ६॥ अमृताब्धिसमुत्पन्ने सर्वशोकविनाशिनी । सर्वसौभाग्यदात्री(यी ) त्वं तुलसि (सी) रक्षणं कुरु ॥ ७॥ दक्षिणे लोकविख्याते विष्णुधृतशरीरिणि । विश्वरूपी विश्वकर्त्री तुलसी रक्षणं कुरु ॥ ८॥ सर्वलोकमये(यी ) पूज्ये सर्वसम्पत्प्रदायिनि । सर्वतापप्रशमनि तुलसी रक्षणं कुरु ॥ ९॥ महिता लोकपूज्या च महिषासुरभञ्जनि । करवीरपुरावासे तुलसी रक्षणं कुरु ॥ १०॥ मायावती भगवती महिला भद्रकालिका । मोहिनी सङ्गता शौरी तुलसी रक्षणं कुरु ॥ ११॥ महालक्ष्मि महाकाली सर्वत्र विजया जया । अशरीरी शरीरी च तुलसी रक्षणं कुरु ॥ १२॥ ब्रह्माणी शङ्करी सौम्या वैष्णवी च स्वधा तथा । देवसेना महारौद्री तुलसी रक्षणं कुरु ॥ १३॥ चामुण्डा चञ्चला भीमा रेणुका मारिका तथा । पद्माक्षी पञ्ममाला च तुलसी रक्षणं कुरु ॥। १४॥ शुभाशुभप्रदात्री त्वं वृषभासुरभञ्जनी । वञ्जुला जर्झरी क्रूरा तुलसी रक्षणं कुरु ॥ १५॥ अतिगुह्यतमं दिव्यं पुत्रपौत्रप्रवर्धनम् । नास्तिकाय प्रदेयं न नाभक्ताय कदाचन । १६॥ शुश्रूषवे च भक्ताय प्रदेयं हितमिच्छता । विष्णुभक्ताय पूज्याय वैराग्य गुणशालिने ॥ १७॥ भृगुवारे भौमवारे प्रदोषे च विशेषतः । प्रभाते सर्वदा जप्यं लिखित्वा पुस्तकं यदि । १८॥ स्थापितं पूजितं चेत्स्यात् सर्वरोगैः प्रमुच्यते । महालक्ष्मीः सिन्धुतीरे विष्णुना प्रभविष्णुना ॥ १९॥ साऽपि विधये प्रोक्तवती तेनोक्तं नारदाय वै । नारदः प्रोक्तवान्मह्यं तदेतत्प्रोक्तवानहम् ॥ २०॥ एवं परम्पराप्राप्तं सर्वशास्रार्थ सङ्ग्रहम् । तुलसीकवचं पुण्यं तस्मात्स्तोत्रं महात्फलम् ॥ २१॥ तस्मात्कोटिगुणं पुण्यं तुलसीस्तवराजतः । पुत्रार्थी पुत्रमाप्नोति राज्यार्थी राज्यमाप्नुयात् ॥ २२॥ किं तेन बहुनोक्तेन मोक्षार्थी मोक्षामाप्नुयात्त् । सप्तद्वीपवतीं पृथ्वीं दत्वा यत्फलमाप्नुयात् । तत्फलं समवाप्नोति तुलसीपत्रदानतः ॥ २३॥ इति ब्रह्मपुराणान्तर्गतः तुलसीस्तवराजः सम्पूर्णः ।