अक्षर आकार:

तुलसीपूजा ३

tulasI pUjA 3

तुलसीपूजा ३

तुलसी लघुपूजा १ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ श्रीपरमेश्वरप्रीत्यर्थं तुलसीदेवी प्रीत्यर्थं सर्वारिष्टशान्त्यर्थं सर्वमङ्गलप्राप्त्यर्थं तुलसीपूजां करिष्ये ॥ (अप उपस्पृश्य - पूर्वाङ्गपूजा) ध्यायामि तुलसीं देर्वीं श्यामां कमललोचनाम् । प्रसन्नां पद्मकल्हार वराभय चतुर्भुजाम् ॥ किरीट हार केयूर कुण्डलादिविभूषिताम् । धवलांशुकसंयुक्तां पद्मासन निषेदुषीम् ॥ तुलसीं देवीं ध्यायामि ॥ अस्मिन् तुलसी क्षुपे तुलसीं देवीं आवाहयामि । विष्णुवल्लभायै नमः - आसनं समर्पयामि । सर्वदेवमयायै नमः - पाद्यं समर्पयामि । सर्वतीर्थमयायै नमः - अर्घ्यं समर्पयामि । दैत्यान्तकृत्प्रियायै नमः - आचमनीयं समर्पयामि । सर्वलोकहितायै नमः - स्नानं समर्पयामि । लक्ष्मी सहोदर्यै नमः - वस्रयुग्मं कञ्चुकं च समर्पयामि । महादेव्यै नमः - गन्धं कुङ्कुमं समर्पयामि । रमावासायै नमः - अक्षतान् समर्पयामि । अभीष्टदायै नमः - पुष्पाणि समर्पयामि । अर्चना-- वृन्दायै नमः । वृन्दावन्यै नमः । विश्वपूजितायै नमः । विश्वपावन्यै नमः । पुष्प सारायै नमः । नन्दिन्यै नमः । तुलस्यै नमः । कृष्णजीवन्यै नमः । (षोडशशनामभिः, अष्टोत्तरशनतनामभिः सह्स्रनामभिर्वा) पापहारिण्यै नमः - धूपं समर्पयामि । भगवत्यै नमः - दीपं समर्पयामि । अमृतसम्भूतायै ननः - नैवेद्यं समर्पयामि । जगद्धात्र्यै नमः - ताम्बूलं फलानि च समर्पयामि । सुदक्षिणायै नमः - नीराजनं समर्पयामि । परमेश्वर्यै नमः - पुष्पाञ्जलिं समर्पयामि । अभीष्टदायै नमः - प्रदक्षिणनमस्कारान् समर्पयामि । तुलसीस्तोत्राणि पठेत् । (पृ। १२८- १४०) यानि कानि च पापानि जन्मान्तरकृतानि च । तानि तानि विनश्यन्ति प्रदक्षिणपदे पदे । तुलसी देव्यै नमः - सर्वोपचारान् समर्पयामि । कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् । करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयामि । ॥ ॐ तत्सत् - ब्रह्मार्पणमस्तु ।