अक्षर आकार:

तुलसीपूजा २

tulasI pUjA 2

तुलसीपूजा २

विघ्नेश्वरपूजा - (हरिद्राबिम्बे) शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ श्रीपरमेश्वरप्रीत्यर्थं आदौ विघ्नेश्वरपूजां करिष्ये । (हस्तौ प्रक्षाल्य) अस्मिन् हरिद्रा बिम्बे सुमुखं श्रीविघ्नेश्वरं ध्यायामि । आवाहयामि । आसनं समर्पयामि । पादयोः पाद्यं समर्पयामि । हस्तयोरर्घ्यं समर्पयामि । मुखे आचमनीयं समपर्ययामि । मधुपर्कं समर्पयामि । स्नपयामि । स्नानानन्तरं आचमनीयं समर्पयामि । वस्त्रोत्तरीयाभरणानि समर्पयामि । पुष्पैः पूजयामि । सुमुखाय नमः । एकदन्ताय नमः । कपिलाय नमः । गजकर्णकाय नमः । लम्बोदराय नमः । विकटाय नमः । विघ्नराजाय नमः । गणाधिपाय नमः । धूमकेतवे नमः । गणाध्यक्षाय नमः । फालचन्द्राय नमः । गजाननाय नमः । वक्रतुण्डाय नमः । शूर्पकर्णाय नमः । हेरम्बाय नमः । स्कन्दपूर्वजाय नमः । पुष्पाणि समर्पयामि । धूपं समर्पयामि । दीपं समर्पयामि । नैवेद्यं समर्पयामि । कर्पूरनीराजनं समर्पयामि । प्रदक्षिणनमस्कारान् समर्पयामि । वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ । अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ इति प्रार्थयेत् तुलसी पूजा सङ्कल्पः - शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ श्रीपरमेश्वर प्रीत्यर्थं श्री तुलसी देवी प्रीत्यर्थं दीर्घसौमङ्गल्यप्राप्त्यर्थं सर्वाभीष्टसिद्ध्यर्थं श्री तुलसीपूजां करिष्ये । अप उपस्पृश्य - सुमुखं विघ्नेश्वरं यथास्थानं प्रतिष्ठापयामि । शोभनार्थे क्षेमाय पुनरागमनाय च । (विघ्नेश्वरं प्रार्थ्य - उद्वास्य - कलशं पूजयेत्) गङ्गे च यमुने चैव गोदावरी सरस्वति । नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥ (इति प्रार्थ्य कलशजलेन पूजाद्रव्याणि आत्मानं च प्रोक्ष्य) तुलसीं ध्यायेत्- ध्यायामि तुलसीं देवीं श्यामां कमललोचनाम् । प्रसन्नां पद्मकल्हारवराभयचतुर्भुजाम् ॥ किरीटहारकेयूर् कुण्डलादयैर्विभूषिताम् । धवलांशुकसंवीतां पद्मासननिषेविताम् । देवीं त्रैलोक्य जननीं सर्वलोकैकपावनीम् ॥ अस्मिन् क्षुपे श्री तुलसीं ध्यायामि । सर्वदेवमये देवि सर्वदे विष्णुवल्लभै । आगच्छ मम गेहेऽस्मिन् नित्यं सन्निहिता भव । अस्मिन् क्षुपे श्री तुलसीं आवाहयामि । रत्नसिंहासनं चारु भुक्तिमुक्तिफलप्रदे । मया दत्तं महादेवि सङ्गृहाण सुरार्चिते ॥ श्री तुलस्यै नमः । आसनं समर्पयामि । नानागन्धसुपुष्पैश्च वासितं सुरवन्दिते । पाद्यं गृहाण देवि त्चं सर्वकामफलप्रदे ॥ श्री तुलस्यै नमः । पाद्यं समर्पयामि । गङ्गोदकं समानीतं सुवर्णकलशस्थितम् । तुलसि त्वं गृहाणेदं अर्घ्यमैश्वर्यदायकम् ॥ श्री तुलस्यै नमः । अर्घ्यं समर्पयामि । सर्वमङ्गलदेवेशि नवरत्नैर्विभूषिते । मया दत्तमिदं तोयं गृहाणाचमनीयकम् । श्री तुलस्यै नमः । आचमनीयं समर्पयामि । पूर्णेन्दुबिम्बसदृशं दधिखण्डघृतं मधु । मधुपर्कं मयाऽऽनीतं गृहाण परमेश्वरि ॥ श्री तुलस्यै नमः - मधुपर्कं समर्पयामि । गङ्गायमुनयोस्तोयं आनीतं निर्मलं शुभम् । गन्धोदकमिदं देवि स्नानार्थं प्रतिगृह्यताम् ॥ श्री तुलस्यै नमः । शुद्धोदकस्नानं समर्पयामि । क्षौमं काञ्चनसङ्काशं इदं शुभ्रं मनोहरम् । वस्त्रयुग्मं शुभे देवि स्वीकुरुष्वाम्बुजेक्षणे ॥ श्री तुलस्यै नमः - वस्रयुग्मं समर्पयामि । राजतं ब्रहसूत्रं च काञ्चनं चोत्तरीयकम् । गृहाण सर्ववरदे पद्मपत्रनिभेक्षणे । श्री तुलस्यै नमः - उपवीतं समर्पयामि । किरीटहारकटकान् केयूरान्कुण्डलान् शुभान् । नूपुरोदरबन्धं च भूषणानि समर्पये । श्री तुलस्यै नमः - आभरणानि समर्पयामि । चन्दनागरुकस्तूरीकर्पूरेण च संयुतम् । विलेपनं ददामि त्वं गृहाण तुलसीश्वरि ॥ श्री तुलस्यै नमः - गन्धं समर्पयामि । अक्षतान्धवलान्दिव्यान् शालीयान्तण्डुलान् शुभान् । सुधौतानर्पये देवि वृन्दास्थानोद्भवेश्वरि ॥ श्री तुलस्यै नमः - अक्षतान् समर्पयामि । मल्लिकाकुन्दमन्दारजातीवकुलचम्पकैः । शतपत्रैश्च कल्हारैः पूजयामि महेश्वरि ॥ श्री तुलस्यै नमः - पुष्पाणि समर्पयामि । अङ्गपूजा - तुलसीदेव्यै नमः -पादौ पूजयामि । वृन्दावनस्थायै नमः - गुल्फौ पूजयामि । पद्मपत्न निभेक्षणायै नमः - जङ्घे पूजयामि । पद्मकोटिसमप्रभायै नमः - ऊरू पूजयामि । हरिप्रियायै नमः - जानुनी पूजयामि । कुङ्कुमाङ्कितगात्रायै नमः - कटिं पूजयामि । सुरवन्दितायै नमः - नाभिं पूजयामि । लोकानुग्रहकारिण्यै नमः - उदरं पूजयामि । त्रैलोक्यजनन्यै नमः - हृदयं पूजयामि । पद्मप्रियायै नमः - हस्तान् पूजयामि । इन्दिराख्यायै नमः - भुजान् पूजयामि । कम्बुकण्ठ्यै नमः - कण्ठं पूजयामि । कल्मषघ्न्यै नमः - कर्णौ पूजयामि । वरप्रदायै नमः - मुखं पूजयामि । आश्रितरक्षिकायै नमः - शिरः पूजयामि । अभीष्टदायै नमः - सर्वाण्यङ्गानि पूजयामि । यथाशक्ति ८-१६-१०८-१००८ नामभिः कुङ्कुमेन पुष्पैर्वा अर्चयेत् । गुग्गुलं गोघृतं चैव दशाङ्गं सुमनोहरम् । धूपं गृहाण वरदे सर्वाभीष्टफलप्रदे ॥ श्री तुलस्यै नमः - धूपमाघ्रापयामि । साज्यं त्रिवर्तिसंयुक्तं वह्निना योजितं मया । दीपं गृहाण देवेशि त्रैलोक्यतिमिरापहम् ॥ श्री तुलस्यै नमः - दीपं दर्शयामि । नैवेद्यं षड् रसोपेतं फलसूपसमन्वितम् । सघृतं समधुक्षीरं गृहाण तुलसीश्वरि ॥ श्री तुलस्यै नमः - महानैवेद्यं निवेदयामि । पूगीफलसमायुक्तं नागवल्लीदलैर्युतम् । कर्पूरचुर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥ श्री तुलस्यै नमः - ताम्बूलं समर्पयामि । नीराजनं सुमङ्गल्यं दिव्यज्योतिः समन्वितम् । अज्ञानघ्ने गृहाण त्वं ज्ञानमार्गप्रदायिनि । श्री तुलस्यै नमः - कर्पूरनीराजनं दर्शायामि ॥ प्रकृष्टपापनाशाय प्रकृष्टफलसिद्धये । प्रदक्षिणं करोमि त्वां सर्वाभीष्टफलप्रदे । आयुरारोग्यमैश्वर्यं विद्यां ज्ञानं यशः सुखम् । देहि देहि ममाभीष्टं प्रदक्षिणकृतः शुभे । श्री तुलस्यै नमः - प्रदक्षिणं समर्पयामि । नमस्ते तुलसीदेवि सर्वाभीष्टफलप्रदे । नमस्ते त्रिजगद्वन्द्ये नमस्ते लोकरक्षिके ॥ श्री तुलस्यै नमः - नमस्कारान् समर्पयामि । वृन्दावनस्थिते देवि दिव्यभोगप्रदे शुभे । पुष्पाञ्जलिं प्रदास्यामि स्वीकुरुष्वाम्बुजेक्षणे । श्री तुलस्यै नमः - पुष्पाञ्जलिं समर्पयामि । क्षीरार्घ्यप्रदानम्- तुलस्यै तु नमस्तुभ्यां नमस्ते फलदायिनि । इदमर्घ्यं प्रदास्यामि सुप्रीता भव सर्वदा । श्री तुलस्यै नमः - इदमर्घ्यं इदमर्घ्यं इदमर्घ्यम् । लक्ष्मीपतिप्रिये देवि तुलसीदिव्यरूपिणि । इदमर्घ्यं प्रदस्यामि सुप्रीता वरदा भव ॥ श्री तुलस्यै नमः - इदमर्घ्यं इदमर्घ्यं इदमर्घ्यम् । सर्वपापहरे देवि आश्रिताभीष्टदायिनि । मया दत्तं गृहाणार्घ्यं सुप्रीता वरदा भव । श्री तुलस्यै नमः । इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम् । देहि मे विजयं देवि विद्यां देहि महेश्वरि । त्वमिति प्रार्थये नित्यं शीघ्रमेव फलं कुरु ॥ इति सम्प्रार्थ्य तुलसीस्तुतिं पठित्वा मङ्गलारार्तिकं विधाय । श्री तुलसीदेव्यर्पणमस्तु । ॐ तत्सद्ब्रह्मार्पणमस्तु इति साक्षतं जलं भूमौ विसृज्य आचामेत् ।