अक्षर आकार:

तुलसीमहिमा - ग्रहणादौ नियमश्च

tulasImahimA

तुलसीमहिमा - ग्रहणादौ नियमश्च

प्रसीद मम देवेशि प्रसीद हरिवल्लभे । तुलसीमिति सम्प्रार्थ्य अर्चयेद्धरिमव्ययम् ॥ १॥ अस्रात्वा तुलसीं छित्वा देवार्चन परायणः । तत्सर्वं निष्फलं चैव पञ्चगव्येन शुद्ध्यति ॥ २॥ पापानि यानि रविसूनुपटस्थितानि गोब्रह्मबालपितृमातृवधादिकानि । नश्यन्ति तानि तुलसीवनदर्शनेन गोकोटिदानसदृशं फलमाप्नुवन्ति ॥ ३॥ तुलसीकाननं यत्र यत्र पद्मवनानि च । वसन्ति वैष्णवा यत्र तत्र सन्निहितो हरिः ॥ ४॥ तुलसीमञ्जरी ग्राह्या तदभावे दलं स्मृतम् । दलाभावे तु पत्रं स्यात्पत्राभावे तु काष्ठकम् ॥ ५॥ काष्ठाभावे तु मूलं स्यात् मूलाभावे तु मृत्तिका । मृत्तिकाया अभावे तु तुलसी शब्द इष्यते ॥ ६॥ पङ्कजं पञ्चरात्रं स्यात्सप्तरात्रं तु बिल्वकम् । तुलसी दशरात्रं स्यात्ततः पर्युषितं भवेत् ॥ ७॥ सङ्क्रान्तौ पक्षयोरन्ते द्वादश्यां निशि सन्ध्ययोः । चिन्वन्ति तुलसीं ये वै निकृण्वन्ति हरे: शिरः ॥ ८॥ ग्रहणे च व्यतीपाते भौमभार्गवभानुषु । नाहरेत्तुलसीपत्रं न मध्याह्ने ततः परम् ॥ ९॥ मध्याह्नके परे यस्तु हरिपूजापरायणः । चिनोति यस्तु तुलसीं अधो गच्छति नान्यथा ॥ १०॥ निर्माल्यमपि वै ग्राह्यं तुलस्या हेमपुष्पवत् । शङ्खोदकेन प्रक्षाल्य विष्णवे च निवेदयेत् ॥ ११॥ तुलस्याः कोमलैः पत्रैः श्रीहरे: पादपङ्कजम् । पूजनं ये प्रकुर्वन्ति कृतार्थाः स्युर्न संशयः ॥ १२॥ द्वादश्यां जागरे रात्रौ प्राशयेत्तुलसीदलम् । द्वाविंशदपराधांश्च क्षमते हरिरव्ययः ॥ १३॥ विष्णोर्विमानं यः कुर्यात्तुलस्याः कोमलैर्दलै: । हंसयुक्तविमानेन विष्णुलोकं स गच्छति । १४॥ पक्षद्वये च सङ्क्रान्तौ द्वादश्यां सूतकद्वये । सङ्ग्रहो नैव कर्तव्यो निषिद्धदिवसेष्वपि ॥ १५॥ त्यजेत्पर्युषितं पुष्पं त्यजेत्पर्युषितं जलम् । न त्यजेत्तुलसीपत्रं न त्यजेज्जाह्नवीजलम् ॥ १६॥ पुष्कराद्यानि तीर्थानि गङ्गाद्याः सरितस्तथा । वासुदेवादयो देवा वसन्ति तुलसीवने ॥ १७॥ तुलसीगन्धमाघ्राथ पितरस्तुष्टमानसाः । प्रयान्ति गरुडारूढाः सहिताश्चक्रपाणिना । १८॥ रोपणात्पालनात्सेकाद् दर्शनात्स्पर्शनान्नृणाम् । तुलसी दहते पापं वाङ्मनःकायसञ्चितम् ॥ १९॥ अमृतां सर्वकल्याणीं शोकसन्तापनाशिनीम् । आधिव्याधिहरीं नॄणां तुलसि त्वां नमाम्यहम् ॥ २०॥ आम्रारोपसहस्राणि पिप्पलानि शतानि च । तत्फलं सममेकेन तुलसी विटपेन च ॥ २१॥ राजद्वारे सभामध्ये सङ्ग्रामे शत्रुपीडने । तुलसीस्मरणं कुर्यात् सर्वन्त्र विजयी भवेत् ॥ २२॥ कृष्यारम्भे तथा पुष्ये विवाहे चार्थसङ्ग्रहे । सर्वकार्येषु सिद्ध्यर्थं प्रस्थाने तुलसीं स्मरेत् ॥ २३॥ यः स्मरेत्तुलसीं सीतां रामं सौमित्रिणा सह । विनिर्जित्य रिपून् सर्वान् पुनरायाति कार्यकृत् ॥ २४॥ खादन्मांसं पिबन्मद्यं सङ्गच्छन्नन्त्यजादिभिः । सद्यो भवति पूतात्मा कर्णयोस्तुलसीं धरन् ॥ २५॥ चतुष्कर्णे मुखे चैकं नाभावेकं तथैव च । शिरस्येकं तथा प्रोक्तं तीर्थे त्रयमुदाहृतम् ॥ २६॥ अन्नोपरि तथा पञ्च भोजनान्ते दलत्रयम् । एवं श्रीतुलसी ग्राह्या अष्टादशदला सदा ॥ २७॥ पूजनानन्तरं विष्णोः अर्पितं तुलसीदलम् । भक्षयेत् देह शुद्ध्यर्थं चान्द्रायणशताधिकम् ॥ २८॥ नैवेद्ममन्नं तुलसीविमिश्रितं विशेषतः पादजलेन विष्णोः । योऽश्नाति नित्यं पुरतो मुरारेः प्राप्नोति यज्ञायुत कोटिपुण्यम् ॥ २९॥ द्रव्यान्तरयुतं तैलं न दुष्येद् ग्रहणं विना । तुलसीदलसंयुक्तं ग्रहणेऽपि न दुष्यति ॥ ३०॥