अक्षर आकार:

तुलसीकवचम् २

tulasIkavacham 2

तुलसीकवचम् २

कवचं तव वक्ष्यामि भवसङ्क्रमनाशनम् । यस्य जापेन सिद्ध्यन्ति सर्वार्था नातियत्नतः ॥ १॥ तुलसी पातु मे नित्यं शिरोवक्त्रोष्ठनासिकाः । श्रोत्रनेत्रललाटं च भ्रूकपोलं निरन्तरम् ॥ २॥ श्रीसखी पातु मे कण्ठं भुजौ वक्षश्च कक्षकम् । पृष्ठं च पिठरं सर्वं स्तनं जानू च हृत्तटम् ॥ ३॥ शुभा पातूदरं नाभिं पार्श्वं हस्ताङ्गुलिं तथा । जाठरं वह्निमखिलं गुदं जघनगुह्यकम् ॥ ४॥ पापहारिण्यवतु मे ऊरू स्फिङ्मांसजानुकम् । पुण्यदाऽवतु मे जङ्घे पादौ नारदसेविता ॥ ५॥ यदुक्तं यच्च नोक्तं मे यद्बाह्यं यत्तथान्तरम् । सर्वाङ्गं पातु मे देवी नारायणमनः प्रिया ॥ ६॥ इतीदं कवचं दिव्यं तुलस्याः सर्वसिद्धिकृत् । त्रिसन्ध्यं यो जपेत्तस्य श्रीर्विद्याऽऽयुश्च वर्धते ॥ ७॥ प्राचीः षड् विलिखेद्रेखाः उदीचीं पञ्च चैव हि । सङ्ख्यानां विंशतिस्तत्र कोष्ठानां तु भविष्यति ॥ ८॥ कोष्ठे कोष्ठे लिखेत्पादं मन्त्रस्यास्य यथाक्रमम् । भूर्जे रोचनया विद्वान् कोष्ठं कुङ्कुममिश्रया ॥ ९॥ यस्य यन्त्रमिदं मूर्ध्नि भुजे कण्ठेऽथवा भवेत् । सङ्ग्रामे व्यवहारे च चोरव्याघ्रभयेषु च ॥ १०॥ मारीभये वर्षभये निर्घात भयपीडिते । क्षयापस्मारपीडासु सर्पवृश्चिकलूल(त )के ॥ ११॥ तापज्चरेऽथवा शीते नेत्ररोगे च दुःसहे । न तस्य किञ्चिद् दुरितमिहामुत्र च जायते ॥ १२॥ वन्ध्या या धारयेद्यन्त्रं अचिरात्पुत्रिणी भवेत् । इतीदं कवचं प्रोक्तं वादे च विजयप्रदम् ॥ १३॥ गोमयेन मृदा चैव निर्माय प्रतिवादिनम् । लम्बमानां तस्य जिह्वां कृत्वा च निहया लिपेत् ॥ १४॥ वामपादेन चाक्रम्य तज्जिह्वां कवचं जपेत् । अचिरात्तस्य जिह्वायाः स्तम्भो भवति संसदि ॥ १५॥ वश्यमाकर्षणं चैव स्तम्भनोच्चाटने तथा । द्वेषणं मारणं चैव मन्त्रेणानेन विन्दति । १६॥ विन्यस्तकवचो यस्तु मन्त्रराजेन मन्त्रितम् । भक्षयेत्तु त्वचं तस्य वाक्पतित्वं न संशयः ॥ १७॥ काम्यसिद्धिर्मयोक्ता ते मोक्षसिद्धिं निशामय । यो नवैस्तुलसीपत्रैः सालग्रामशिलार्चनम् ॥ १८॥ कुर्यात्पुरुषसूक्तेन तस्य मोक्षः करे स्थितः । वृद्धपाद्मतः