अक्षर आकार:

तुलसीकवचम् १

Tulasi Kavacham 1

तुलसीकवचम् १

श्रीगणेशाय नमः । अस्य श्रीतुलसीकवचस्तोत्रमन्त्रस्य श्रीमहादेव ऋषिः । अनुष्टुप्छन्दः । श्रीतुलसी देवता । मम ईप्सितकामनासिद्ध्यर्थं जपे विनियोगः । तुलसी श्रीमहादेवि नमः पङ्कजधारिणि । शिरो मे तुलसी पातु भालं पातु यशस्विनी ॥ १॥ दृशौ मे पद्मनयना श्रीसखी श्रवणे मम । घ्राणं पातु सुगन्धा मे मुखं च सुमुखी मम ॥ २॥ जिह्वां मे पातु शुभदा कण्ठं विद्यामयी मम । स्कन्धौ कह्लारिणी पातु हृदयं विष्णुवल्लभा ॥ ३॥ पुण्यदा मे पातु मध्यं नाभिं सौभाग्यदायिनी । कटिं कुण्डलिनिं पातु ऊरू नारदवन्दिता ॥ ४॥ जननी जानुनी पातु जङ्घे सकलवन्दिता । नारायणप्रिया पादौ सर्वाङ्गं सर्वरक्षिणी ॥ ५॥ सङ्कटे विषमे दुर्गे भये वादे महाहवे । नित्यं हि सन्ध्ययोः पातु तुलसी सर्वतः सदा ॥ ६॥ इतीदं परमं गुह्यं तुलस्याः कवचामृतम् । मर्त्यानाममृतार्थाय भीतानामभयाय च ॥ ७॥ मोक्षाय च मुमुक्षूणां ध्यायिनां ध्यानयोगकृत् । वशाय वश्यकामानां विद्यायै वेदवादिनाम् ॥ ८॥ द्रविणाय दरिद्राणां पापिनां पापशान्तये ॥ ९॥ अन्नाय क्षुधितानां च स्वर्गाय स्वर्गमिच्छिताम् । पशव्यं पशुकामानां पुत्रदं पुत्रकाङ्क्षिणाम् ॥ १०॥ राज्याय भ्रष्टराज्यानामशान्तानां च शान्तये । भक्त्यर्थं विष्णुभक्तानां विष्णौ सर्वान्तरात्मनि ॥ ११॥ जाप्यं त्रिवर्गसिद्ध्यर्थं गृहस्थेन विशेषतः । उद्यन्तं चण्डकिरणमुपस्थाय कृताञ्जलिः ॥ १२॥ तुलसीकानने तिष्ठन्नासीनो वा जपेदिदम् । सर्वान्कामानवाप्नोति तथैव मम सन्निधिम् ॥ १३॥ मम प्रियकरं नित्यं हरिभक्तिविवर्धनम् । या स्यान्मृतप्रजा नारी तस्या अङ्गं प्रमार्जयेत् ॥ १४॥ सा पुत्रं लभते दीर्घजीविनं चाप्यरोगिणम् । वन्ध्याया मार्जयेदङ्गं कुशैर्मन्त्रेण साधकः ॥ १५॥ साऽपि संवत्सरादेव गर्भं धत्ते मनोहरम् । अश्वत्थे राजवश्यार्थी जपेदग्नेः सुरूपभाक् ॥ १६॥ पलाशमूले विद्यार्थी तेजोऽर्थ्यभिमुखो रवेः । कन्यार्थी चण्डिकागेहे शत्रुहत्यै गृहे मम ॥ १७॥ श्रीकामो विष्णुगेहे च उद्याने स्त्रीवशा भवेत् । किमत्र बहुनोक्तेन श‍ृणु सैन्येश तत्त्वतः ॥ १८॥ यं यं काममभिध्यायेत्तं तं प्राप्नोत्यसंशयम् । मम गेहगतस्त्वं तु तारकस्य वधेच्छया ॥ १९॥ जपन् स्तोत्रं च कवचं तुलसीगतमानसः । मण्डलात्तारकं हन्ता भविष्यसि न संशयः ॥ २०॥ इति श्रीब्रह्माण्डपुराणे तुलसीमाहात्म्ये तुलसीकवचं सम्पूर्णम् ॥