अक्षर आकार:

तुलजाष्टकम्

tulajAShTakam

तुलजाष्टकम्

दुग्धेन्दु कुन्दोज्ज्वलसुन्दराङ्गीं मुक्ताफलाहारविभूषिताङ्गीम् । शुभ्राम्बरां स्तनभरालसाङ्गीं वन्देऽहमाद्यां तुलजाभवानीम् ॥ १॥ बालार्कभासामतिचारुहासां माणिक्यमुक्ताफलहारकण्ठीम् । रक्ताम्बरां रक्तविशालनेत्रीं वन्देऽहमाद्यां तुलजाभवानीम् ॥ २॥ श्यामाङ्गवर्णां मृगशावनेत्रां कौशेयवस्त्रां कुसुमेषु पूज्याम् ॥ कस्तूरिकाचन्दनचर्चिताङ्गीं वन्देऽहमाद्यां तुलजाभवानीम् ॥ ३॥ पीताम्बरां चम्पककान्तिगौरीं अलङ्कृतामुत्तममण्डनैश्च । नाशाय भूतां भुवि दानवानां वन्देऽहमाद्यां तुलजाभवानीम् ॥ ४॥ चन्द्रार्कताटङ्कधरां त्रिनेत्रां शूलं दधानामतिकालरूपाम् । विपक्षनाशाय धृतायुधां तां वन्देऽहमाद्यां तुलजाभवानीम् ॥ ५॥ ब्रह्मेन्द्र नारायणरुद्रपूज्यां देवाङ्गनाभिः परिगीयमानाम् । स्तुतां वचोभिर्मुनिनारदाद्यैः वन्देऽहमाद्यां तुलजाभवानीम् ॥ ६॥ अष्टाङ्गयोगे सनकादिभिश्च ध्यातां मुनीन्द्रैश्च समाधिगम्याम् । भक्तस्य नित्यं भुवि कामधेनुं वन्देऽहमाद्यां तुलजाभवानीम् ॥ ७॥ सिंहासनस्थां परिवीज्यमानां देवैः समस्तैश्च सुचामरैश्च । छत्रं दधानामतिशुभ्रवर्णां वन्देऽहमाद्यां तुलजाभवानीम् ॥ ८॥ पूर्णः कटाक्षोऽखिललोकमातु- र्गिरीन्द्रकन्यां भजतां सुधन्याम् । दारिद्र्यकं नैव कदा जनानां चिन्ता कुतः स्याद्भवसागरस्य ॥ ९॥ तुलजाष्टकमिदं स्तोत्रं त्रिकालं यः पठेन्नरः । आयुः कीर्तिर्यशो लक्ष्मी धनपुत्रानवाप्नुयात् ॥ १०॥ ॥ इति श्रीमच्छङ्कराचार्य विरचितं तुलजाष्टकम् सम्पूर्णम् ॥