अक्षर आकार:

त्रिवेणीस्तोत्रम्

Trivenistotram

त्रिवेणीस्तोत्रम्

मुक्तामयालङ्कृतमुद्रवेणी भक्ताभयत्राणसुबद्धवेणी । मत्तालिगुञ्जन्मकरन्दवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥ १॥ लोकत्रयैश्वर्यनिदानवेणी तापत्रयोच्चाटनबद्धवेणी । धर्मा-ऽर्थकामाकलनैकवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥ २॥ मुक्ताङ्गनामोहन-सिद्धवेणी भक्तान्तरानन्द-सुबोधवेणी । वृत्त्यन्तरोद्वेगविवेकवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥ ३॥ दुग्धोदधिस्फूर्जसुभद्रवेणी नीलाभ्रशोभाललिता च वेणी । स्वर्णप्रभाभासुरमध्यवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥ ४॥ विश्वेश्वरोत्तुङ्गकपर्दिवेणी विरिञ्चिविष्णुप्रणतैकवेणी । त्रयीपुराणा सुरसार्धवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥ ५॥ माङ्गल्यसम्पत्तिसमृद्धवेणी मात्रान्तरन्यस्तनिदानवेणी । परम्परापातकहारिवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥ ६॥ निमज्जदुन्मज्जमनुष्यवेणी त्रयोदयोभाग्यविवेकवेणी । विमुक्तजन्माविभवैकवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥ ७॥ सौन्दर्यवेणी सुरसार्धवेणी माधुर्यवेणी महनीयवेणी । रत्नैकवेणी रमणीयवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥ ८॥ सारस्वताकार-विघातवेणी कालिन्दकन्यामयलक्ष्यवेणी । भागीरथीरूप-महेशवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥ ९॥ श्रीमद्भवानीभवनैकवेणी लक्ष्मीसरस्वत्यभिमानवेणी । माता त्रिवेणी त्रयीरत्नवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥ १०॥ त्रिवेणीदशकं स्तोत्रं प्रातर्नित्यं पठेन्नरः । तस्य वेणी प्रसन्ना स्याद् विष्णुलोकं स गच्छति ॥ ११॥ इति श्रीमच्छङ्कराचार्यविरचितं त्रिवेणीस्तोत्रं सम्पूर्णम् ।