अक्षर आकार:

त्रितत्त्वलाकिनीस्तवनम्

Tritattvalakini Stavanam

त्रितत्त्वलाकिनीस्तवनम्

शिवां शक्यामाद्यां दशदलगतां रुद्रमहिषीं विशालाक्षीं सूक्ष्मां शशियुतजटाजूटमुकुटाम् । महाविद्युत्कोटिप्रियजडितपीठे त्रिनयनां महालाकिन्याख्यां दशदल कलां भावयति कः ॥ ४४-२५॥ मृणालान्तर्ध्वान्तः प्रकटतटसंहारसुभगां कुलक्षेत्रोल्लासां चरमपददां दीपकलिकाम् । सदानन्दाकारां गतिगुणहरां चारुकिरणां प्रभावर्णश्यामां रुचिरवदनां भावयति कः ॥ ४४-२६॥ प्रतीक्षानन्दाब्धिं प्रकटचरणाम्भोजयुगलां वियद्वर्णां कान्तां सुरवरसुपूजाविधिरताम् । महासूक्ष्मद्वारप्रचलनकरीं भेदनकरीं दिवायोगाह्लादप्रियजनशिवां भावयति कः ॥ ४४-२७॥ अयोध्यापीठस्थामरुणकमनीं प्रेमगलितां महारौद्रीं भीमां शतशतरविप्रेमनिकराम् । महादुःखार्तानां नयनशुभगां भावविरहां सतीं सीतामिन्द्रोत्सवनवघटां भावयति कः ॥ ४४-२८॥ सुधाब्धेराह्लादप्रकरणसुरां सौरभकरां क्रियारूपां योग्यां भुवमणिपूरप्रकृतिगाम् । गुरोः स्थानोद्योगां समनदहनां शीतलवरां त्रितत्त्वां तत्त्वज्ञां स(श)मरहरशक्तिं भजति कः ॥ ४४-२९॥ विकाराकाराङ्गीं तरुणरविकोटिश्रियमिमां कुलाधारां सारां परमरसधारां जयवराम् । कृपाच्छन्नाकामां परमरसभाण्डेषु शुभदां भजेदिन्द्रां रुद्रां शशिमुखकराह्लादनिकराम् ॥ ४४-३०॥ रसाब्धौ विश्रान्तिं कुपितजनशान्तिं सकरुणां त्रिलोकज्ञानस्थां मदननिलयां योगनिकराम् । मणिद्वीपच्छायां दशदलकलां केवलभवां भवानीं रुद्राणीं वरदमणिपूरे भजति कः ॥ ४४-३१॥ कृपाब्धौ किं किं किमनुगतसुतां मौलिनमितां शिवाङ्कां मूलस्थां सकलमणिपूरस्थिरभवाम् । हिरण्याक्षीं तक्षां क्षयकरणरश्मिच्छविशतां विनोदीं पञ्चास्यप्रियगुणधरां भावयति कः ॥ ४४-३२॥ महापद्माख्यां सकलधनदानाकुलचलां चलानन्दोद्रेकप्रचयरससिन्धूद्भवहृदि । हृदानन्दो ध्यायेत् सकलगुणदात्रीं सुखमयीं कलां सूक्ष्मात्यन्तां तिमिरदहनां कोटिधनदाम् ॥ ४४-३३॥ दशकं यः पठेन्नित्यं श्रीविद्यां सुखदायिनीम् । ध्यात्वा हृदयपद्माधो निर्मलात्मा सदा पठेत् ॥ ४४-३४॥ मणिपूरस्थितं देवं रुद्रं पश्यति योगिराट् । रुद्राणीसहितं शम्भुं दृष्ट्वा मुक्तो भवेत् क्षणात् ॥ ४४-३५॥ जीवन्मुक्तः स एवात्मा योगिनीवल्लभो भवेत् । योगात्मा परमात्मा च स हि साक्षादनीश्वरः ॥ ४४-३६॥ स भित्वा मणि पूराब्धिं निर्मलं ज्योतिरुज्ज्वलम् । शम्भोरीश्वरयोगज्ञक्रियानाथस्य श्रीपतेः ॥ ४४-३७॥ निकटे याति देव्याश्च स्थाने योगी न संशयः ॥ ४४-३८॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे मणिपूरभेदने भैरवीभैरवसंवादे त्रितत्त्वलाकिनीशक्तिस्तवनं नाम चतुश्चत्त्वारिंशत्तमः पटलः ॥ ४४॥ The numbers correspond to paTala and verse numbers from Rudrayamala uttaratantra.