अक्षर आकार:

श्रीललितात्रिशतिनामावलिः

shrIlalitA trishati nAmAvaliH

श्रीललितात्रिशतिनामावलिः

॥ न्यासम् ॥

अस्य श्रीललितात्रिशती स्तोत्रनामावलिः महामन्त्रस्य भगवान् हयग्रीव ऋषिः, अनुष्टुप्छन्दः, श्रीललितामहात्रिपुरसुन्दरी देवता, ऐं बीजम्, सौः शक्तिः, क्लीं कीलकम्, मम चतुर्विधफलपुरुषार्थ जपे (वा) परायणे विनियोगः ॥ ऐं अङ्गुष्ठाभ्यां नमः । क्लीं तर्जनीभ्यां नमः । सौः मध्यमाभ्यां नमः । ऐं अनामिकाभ्यां नमः । क्लीं कनिष्ठिकाभ्यां नमः । सौः करतलकरपृष्ठाभ्यां नमः ॥ ऐं हृदयाय नमः । क्लीं शिरसे स्वाहा । सौः शिखायै वषट् । ऐं कवचाय हुं । क्लीं नेत्रत्रयाय वौषट् । सौः अस्त्राय फट् । भूर्भुवस्सुवरोमिति दिग्बन्धः ॥

॥ ध्यानम्॥

अतिमधुरचापहस्ताम्परिमितामोदसौभाग्याम् । अरुणामतिशयकरुणामभिनवकुलसुन्दरीं वन्दे ॥

॥ लं इत्यादि पञ्चपूजा ॥

लं पृथिव्यात्मिकायै श्रीललिताम्बिकायै गन्धं समर्पयामि । हं आकाशात्मिकायै श्रीललिताम्बिकायै पुष्पैः पूजयामि । यं वाय्वात्मिकायै श्रीललिताम्बिकायै कुङ्कुमं आवाहयामि । रं वह्यात्मिकायै श्रीललिताम्बिकायै दीपं दर्शयामि । वं अमृतात्मिकायै श्रीललिताम्बिकायै अमृतं महानैवेद्यं निवेदयामि । सं सर्वात्मिकायै श्रीललिताम्बिकायै सर्वोपचारपूजां समर्पयामि ॥

॥ अथ श्रीललितात्रिशती नामावलिः ॥

ॐ ऐं ह्रीं श्रीं ॐ ककाररूपायै नमः । ॐ कल्याण्यै नमः । ॐ कल्याणगुणशालिन्यै नमः । ॐ कल्याणशैलनिलयायै नमः । ॐ कमनीयायै नमः । ॐ कलावत्यै नमः । ॐ कमलाक्ष्यै नमः । ॐ कल्मषघ्न्यै नमः । ॐ करुणमृतसागरायै नमः । ॐ कदम्बकाननावासायै नमः । ॐ कदम्बकुसुमप्रियायै नमः । ॐ कन्दर्पविद्यायै नमः । ॐ कन्दर्पजनकापाङ्गवीक्षणायै नमः । ॐ कर्पूरवीटीसौरभ्यकल्लोलितककुप्तटायै नमः । ॐ कलिदोषहरायै नमः । ॐ कञ्चलोचनायै नमः । ॐ कम्रविग्रहायै नमः । ॐ कर्मादिसाक्षिण्यै नमः । ॐ कारयित्र्यै नमः । ॐ कर्मफलप्रदायै नमः । २० ॐ एकाररूपायै नमः । ॐ एकाक्षर्यै नमः । ॐ एकानेकाक्षराकृत्यै नमः । ॐ एतत्तदित्यनिर्देश्यायै नमः । ॐ एकानन्दचिदाकृत्यै नमः । ॐ एवमित्यागमाबोध्यायै नमः । ॐ एकभक्तिमदर्चितायै नमः । ॐ एकाग्रचितनिर्ध्यातायै नमः । ॐ एषणारहितादृतायै नमः । ॐ एलासुगन्धिचिकुरायै नमः । ॐ एनकूटविनाशिन्यै नमः । ॐ एकभोगायै नमः । ॐ एकरसायै नमः । ॐ एकैश्वर्यप्रदायिन्यै नमः । ॐ एकातपत्रसाम्राज्यप्रदायै नमः । ॐ एकान्तपूजितायै नमः । ॐ एधमानप्रभायै नमः । ॐ एजदनेकजगदीश्वर्यै नमः । ॐ एकवीरादिसंसेव्यायै नमः । ॐ एकप्राभवशालिन्यै नमः । ४० ॐ ईकाररूपायै नमः । ॐ ईशित्र्यै नमः । ॐ ईप्सितार्थप्रदायिन्यै नमः । ॐ ईदृगित्याविनिर्देश्यायै नमः । ॐ ईश्वरत्वविधायिन्यै नमः । ॐ ईशानादिब्रह्ममय्यै नमः । ॐ ईशित्वाद्यष्टसिद्धिदायै नमः । ॐ ईक्षित्र्यै नमः । ॐ ईक्षणसृष्टाण्डकोट्यै नमः । ॐ ईश्वरवल्लभायै नमः । ॐ ईडितायै नमः । ॐ ईश्वरार्धाङ्गशरीरायै नमः । ॐ ईशाधिदेवतायै नमः । ॐ ईश्वरप्रेरणकर्यै नमः । ॐ ईशताण्डवसाक्षिण्यै नमः । ॐ ईश्वरोत्सङ्गनिलयायै नमः । ॐ ईतिबाधाविनाशिन्यै नमः । ॐ ईहाविरहितायै नमः । ॐ ईशशक्त्यै नमः । ॐ ईषत्स्मिताननायै नमः । ६० ॐ लकाररूपायै नमः । ॐ ललितायै नमः । ॐ लक्ष्मीवाणीनिषेवितायै नमः । ॐ लाकिन्यै नमः । ॐ ललनारूपायै नमः । ॐ लसद्दाडिमपाटलायै नमः । ॐ ललन्तिकालसत्फालायै नमः । ॐ ललाटनयनार्चितायै नमः । ॐ लक्षणोज्ज्वलदिव्याङ्ग्यै नमः । ॐ लक्षकोट्यण्डनायिकायै नमः । ॐ लक्ष्यार्थायै नमः । ॐ लक्षणागम्यायै नमः । ॐ लब्धकामायै नमः । ॐ लतातनवे नमः । ॐ ललामराजदलिकायै नमः । ॐ लम्बिमुक्तालताञ्चितायै नमः । ॐ लम्बोदस्प्रसवे नमः । ॐ लभ्यायै नमः । ॐ लज्जाढ्यायै नमः । ॐ लयवर्जितायै नमः । ८० ॐ ह्रींकाररूपायै नमः । ॐ ह्रींकारनिलयायै नमः । ॐ ह्रींपदप्रियायै नमः । ॐ ह्रींकारबीजायै नमः । ॐ ह्रींकारमन्त्रायै नमः । ॐ ह्रींकारलक्षणायै नमः । ॐ ह्रींकारजपसुप्रीतायै नमः । ॐ ह्रींमत्यै नमः । ॐ ह्रींविभूषणायै नमः । ॐ ह्रींशीलायै नमः । ॐ ह्रींपदाराध्यायै नमः । ॐ ह्रींगर्भायै नमः । ॐ ह्रींपदाभिधायै नमः । ॐ ह्रींकारवाच्यायै नमः । ॐ ह्रींकारपूज्यायै नमः । ॐ ह्रींकारपीठिकायै नमः । ॐ ह्रींकारवेद्यायै नमः । ॐ ह्रींकारचिन्त्यायै नमः । ॐ ह्रीं नमः । ॐ ह्रींशरीरिण्यै नमः । १०० ॐ हकाररूपायै नमः । ॐ हलधृत्पूजितायै नमः । ॐ हरिणेक्षणायै नमः । ॐ हरप्रियायै नमः । ॐ हराराध्यायै नमः । ॐ हरिब्रह्मेन्द्रवन्दितायै नमः । ॐ हयारूढासेवितांघ्र्यै नमः । ॐ हयमेधसमर्चितायै नमः । ॐ हर्यक्षवाहनायै नमः । ॐ हंसवाहनायै नमः । ॐ हतदानवायै नमः । ॐ हत्त्यादिपापशमन्यै नमः । ॐ हरिदश्वादिसेवितायै नमः । ॐ हस्तिकुम्भोत्तुङ्गकुचायै नमः । ॐ हस्तिकृत्तिप्रियाङ्गनायै नमः । ॐ हरिद्राकुङ्कुमादिग्धायै नमः । ॐ हर्यश्वाद्यमरार्चितायै नमः । ॐ हरिकेशसख्यै नमः । ॐ हादिविद्यायै नमः । ॐ हालामदालसायै नमः । १२० ॐ सकाररूपायै नमः । ॐ सर्वज्ञायै नमः । ॐ सर्वेश्यै नमः । ॐ सर्वमङ्गलायै नमः । ॐ सर्वकर्त्र्यै नमः । ॐ सर्वभर्त्र्यै नमः । ॐ सर्वहन्त्र्यै नमः । ॐ सनातन्यै नमः । ॐ सर्वानवद्यायै नमः । ॐ सर्वाङ्गसुन्दर्यै नमः । ॐ सर्वसाक्षिन्यै नमः । ॐ सर्वात्मिकायै नमः । ॐ सर्वसौख्यदात्र्यै नमः । ॐ सर्वविमोहिन्यै नमः । ॐ सर्वाधारायै नमः । ॐ सर्वगतायै नमः । ॐ सर्वावगुणवर्जितायै नमः । ॐ सर्वारुणायै नमः । ॐ सर्वमात्रे नमः । ॐ सर्वभूषणभूषितायै नमः । १४० ॐ ककारार्थायै नमः । ॐ कालहन्त्र्यै नमः । ॐ कामेश्यै नमः । ॐ कामितार्थदायै नमः । ॐ कामसञ्जीविन्यै नमः । ॐ कल्यायै नमः । ॐ कठिनस्तनमण्डलायै नमः । ॐ करभोरवे नमः । ॐ कलानाथमुख्यै नाम्ः ॐ कचजिताम्बुदायै नमः । ॐ कटाक्षस्यन्दिकरुणायै नमः । ॐ कपालिप्राणनायिकायै नमः । ॐ कारुण्यविग्रहायै नमः । ॐ कान्तायै नमः । ॐ कान्तिधूतजपावल्यै नमः । ॐ कलालापायै नमः । ॐ कण्बुकण्ठ्यै नमः । ॐ करनिर्जितपल्लवायै नमः । ॐ कल्पवल्लीसमभुजायै नमः । ॐ कस्तूरीतिलकाञ्चितायै नमः । १६० ॐ हकारार्थायै नमः । ॐ हंसगत्यै नमः । ॐ हाटकाभरणोज्ज्वलायै नमः । ॐ हारहारिकुचाभोगायै नमः । ॐ हाकिन्यै नमः । ॐ हल्यवर्जितायै नमः । ॐ हरित्पतिसमाराध्यायै नमः । ॐ हठात्कारहतासुरायै नमः । ॐ हर्षप्रदायै नमः । ॐ हविर्भोक्त्र्यै नमः । ॐ हार्दसन्तमसापहायै नमः । ॐ हल्लीसलास्यसन्तुष्टायै नमः । ॐ हंसमन्त्रार्थरूपिण्यै नमः । ॐ हानोपादाननिर्मुक्तायै नमः । ॐ हर्षिण्यै नमः । ॐ हरिसोदर्यै नमः । ॐ हाहाहूहूमुखस्तुत्यायै नमः । ॐ हानिवृद्धिविवर्जितायै नमः । ॐ हय्यङ्गवीनहृदयायै नमः । ॐ हरिकोपारुणांशुकायै नमः । १८० ॐ लकाराख्यायै नमः । ॐ लतापूज्यायै नमः । ॐ लयस्थित्युद्भवेश्वर्यै नमः । ॐ लास्यदर्शनसन्तुष्टायै नमः । ॐ लाभालाभविवर्जितायै नमः । ॐ लंघ्येतराज्ञायै नमः । ॐ लावण्यशालिन्यै नमः । ॐ लघुसिद्धदायै नमः । ॐ लाक्षारससवर्णाभायै नमः । ॐ लक्ष्म्णाग्रजपूजितायै नमः । ॐ लभ्येतरायै नमः । ॐ लब्धभक्तिसुलभायै नमः । ॐ लांगलायुधायै नमः । ॐ लग्नचामरहस्त श्रीशारदा परिवीजितायै नमः । ॐ लज्जापदसमाराध्यायै नमः । ॐ लम्पटायै नमः । ॐ लकुलेश्वर्यै नमः । ॐ लब्धमानायै नमः । ॐ लब्धरसायै नमः । ॐ लब्धसम्पत्समुन्नत्यै नमः । २०० ॐ ह्रींकारिण्यै नमः । ॐ ह्रींकाराद्यायै नमः । ॐ ह्रींमध्यायै नमः । ॐ ह्रींशिखामणये नमः । ॐ ह्रींकारकुण्डाग्निशिखायै नमः । ॐ ह्रींकारशशिचन्द्रिकायै नमः । ॐ ह्रींकारभास्कररुच्यै नमः । ॐ ह्रींकाराम्भोदचञ्चलायै नमः । ॐ ह्रींकारकन्दाङ्कुरिकायै नमः । ॐ ह्रींकारैकपरायणायै नमः । ॐ ह्रींकारदीर्धिकाहंस्यै नमः । ॐ ह्रींकारोद्यानकेकिन्यै नमः । ॐ ह्रींकारारण्यहरिण्यै नमः । ॐ ह्रींकारावालवल्लर्यै नमः । ॐ ह्रींकारपञ्जरशुक्यै नमः । ॐ ह्रींकाराङ्गणदीपिकायै नमः । ॐ ह्रींकारकन्दरासिंह्यै नमः । ॐ ह्रींकाराम्भोजभृङ्गिकायै नमः । ॐ ह्रींकारसुमनोमाध्व्यै नमः । ॐ ह्रींकारतरुमञ्जर्यै नमः । २२० ॐ सकाराख्यायै नमः । ॐ समरसायै नमः । ॐ सकलागमसंस्तुतायै नमः । ॐ सर्ववेदान्त तात्पर्यभूम्यै नमः । ॐ सदसदाश्रयायै नमः । ॐ सकलायै नमः । ॐ सच्चिदानन्दायै नमः । ॐ साध्यायै नमः । ॐ सद्गतिदायिन्यै नमः । ॐ सनकादिमुनिध्येयायै नमः । ॐ सदाशिवकुटुम्बिन्यै नमः । ॐ सकलाधिष्ठानरूपायै नमः । ॐ सत्यरूपायै नमः । ॐ समाकृत्यै नमः । ॐ सर्वप्रपञ्चनिर्मात्र्यै नमः । ॐ समानाधिकवर्जितायै नमः । ॐ सर्वोत्तुङ्गायै नमः । ॐ सङ्गहीनायै नमः । ॐ सगुणायै नमः । ॐ सकलेष्टदायै नमः । २४० ॐ ककारिण्यै नमः । ॐ काव्यलोलायै नमः । ॐ कामेश्वरमनोहरायै नमः । ॐ कामेश्वरप्राणनाड्यै नमः । ॐ कामेशोत्सङ्गवासिन्यै नमः । ॐ कामेश्वरालिङ्गिताङ्ग्यै नमः । ॐ कामेश्वरसुखप्रदायै नमः । ॐ कामेश्वरप्रणयिन्यै नमः । ॐ कामेश्वरविलासिन्यै नमः । ॐ कामेश्वरतपस्सिद्ध्यै नमः । ॐ कामेश्वरमनःप्रियायै नमः । ॐ कामेश्वरप्राणनाथायै नमः । ॐ कामेश्वरविमोहिन्यै नमः । ॐ कामेश्वरब्रह्मविद्यायै नमः । ॐ कामेश्वरगृहेश्वर्यै नमः । ॐ कामेश्वराह्लादकर्यै नमः । ॐ कामेश्वरमहेश्वर्यै नमः । ॐ कामेश्वर्यै नमः । ॐ कामकोटिनिलयायै नमः । ॐ काङ्क्षितार्थदायै नमः । २६० ॐ लकारिण्यै नमः । ॐ लब्धरूपायै नमः । ॐ लब्धधिये नमः । ॐ लब्धवाञ्छितायै नमः । ॐ लब्धपापमनोदूरायै नमः । ॐ लब्धाहङ्कारदुर्गमायै नमः । ॐ लब्धशक्त्यै नमः । ॐ लब्धदेहायै नमः । ॐ लब्धैश्वर्यसमुन्नत्यै नमः । ॐ लब्धबुद्धये नमः । ॐ लब्धलीलायै नमः । ॐ लब्धयौवनशालिन्यै नमः । ॐ लब्धातिशयसर्वाङ्गसौन्दर्यायै नमः । ॐ लब्धविभ्रमायै नमः । ॐ लब्धरागायै नमः । ॐ लब्धपत्यै नमः । ॐ लब्धनानागमस्थित्यै नमः । ॐ लब्धभोगायै नमः । ॐ लब्धसुखायै नमः । ॐ लब्धहर्षाभिपूरितायै नमः । २८० ॐ ह्रींकारमूर्तये नमः । ॐ ह्रींकारसौधश‍ृङ्गकपोतिकायै नमः । ॐ ह्रींकारदुग्धब्धिसुधायै नमः । ॐ ह्रींकारकमलेन्दिरायै नमः । ॐ ह्रींकरमणिदीपार्चिषे नमः । ॐ ह्रींकारतरुशारिकायै नमः । ॐ ह्रींकारपेटकमणये नमः । ॐ ह्रींकारादर्शबिम्बितायै नमः । ॐ ह्रींकारकोशासिलतायै नमः । ॐ ह्रींकारास्थाननर्तक्यै नमः । ॐ ह्रींकारशुक्तिका मुक्तामणये नमः । ॐ ह्रींकारबोधितायै नमः । ॐ ह्रींकारमयसौवर्णस्तम्भविद्रुमपुत्रिकायै नमः । ॐ ह्रींकारवेदोपनिषदे नमः । ॐ ह्रींकाराध्वरदक्षिणायै नमः । ॐ ह्रींकारनन्दनारामनवकल्पक वल्लर्यै नमः । ॐ ह्रींकारहिमवद्गङ्गायै नमः । ॐ ह्रींकारार्णवकौस्तुभायै नमः । ॐ ह्रींकारमन्त्रसर्वस्वायै नमः । ॐ ह्रींकारपरसौख्यदायै नमः । ३०० इति श्रीललितात्रिशतिनामावलिः समाप्ता । ॐ तत् सत् ।