अक्षर आकार:

श्रीत्रिपुरसुन्दरी सुप्रभातम्

shrItripurasundarI-suprabhAtam

श्रीत्रिपुरसुन्दरी सुप्रभातम्

श्रीसेव्य-पादकमले श्रित-चन्द्र-मौले श्रीचन्द्रशेखर-यतीश्वर-पूज्यमाने। श्रीखण्ड-कन्दुककृत-स्व-शिरोवतंसे श्रीमन्महात्रिपुरसुन्दरि सुप्रभातम् ॥ १॥ उत्तिष्ठ तुङ्ग-कुलपर्वत\-राज-कन्ये उत्तिष्ठ भक्त-जन-दुःख-विनाश-दक्षे । उत्तिष्ठ सर्व-जगती-जननि प्रसन्ने उत्तिष्ठ हे त्रिपुरसुन्दरि सुप्रभातम् ॥ २॥ उत्तिष्ठ राजत-गिरि-द्विषतो रथात् त्वं उत्तिष्ठ रत्न-खचितत् ज्वलिताच्च पीठात्। उत्तिष्ठ बन्धन-सुखं परिधूय शंभोः उत्तिष्ठ विघ्नित-तिरस्करिणीं विपाट्य ॥ ३॥ यत्पृष्ठभागमवलम्ब्य विभाति लक्ष्मीः यस्या वसन्ति निखिला अमराश्च देहे । स्नात्वा विशुद्धहृदया कपिला सवत्सा सिद्धा प्रदर्शयितुमिह नस्तव विश्वरूपम् ॥ ४॥ आकर्ण्यतेऽद्य मदमत्त-गजेन्द्रनादः त्वं बोध्यसे प्रतिदिनं मधुरेण येन । भूपालरागमुखरा मुखवाद्यवीणा भेरीध्वनिश्च कुरुते भवतीं प्रबुद्धाम् ॥ ५॥ त्वां सेवितुं विविध-रत्न-सुवर्ण-रूप्य- खाद्यम्बरैः कुसुम-पत्र-फलैश्च भक्ताः । श्रद्धान्विताः जननि विस्मृत-गृह्य-बन्धाः आयान्ति भारत-निवासि-जनाः सवेगम् ॥ ६॥ जीवातवः सुकृतिनः श्रुतिरूपमातुः विप्राः प्रसन्न-मनसो जपितार्क-मन्त्राः । श्रीसूक्त-रुद्र-चमकाद्यवधारणाय सिद्धाः महेश-दयिते तव सुप्रभातम् ॥ ७॥ फालप्रकासि-तिलकाङ्क-सुवासिनीनां कर्पूर-भद्र-शिखया तव दृष्टि-दोषम् । गोष्ठी विभाति परिहर्तुमनन्यभावा हे देवि पङ्क्तिश इयं तव सुप्रभातम् ॥ ८॥ उग्रः सहस्र-किरणोऽपि करं समर्प्य त्वत्तेजसः पुरत एष विलज्जितः सन् । रक्तस्तनावुदयमेत्यगपृष्ठलीनः पद्मं त्वदास्यसहजं कुरुते प्रसन्नम् ॥ ९॥ नृत्यन्ति बर्हनिवहं शिखिनः प्रसार्य गायन्ति पञ्चमगतेन पिकाः स्वरेण। आस्ते तरङ्गतति-वाद्य-मृदङ्ग-नादः तौर्यत्रिकं शुभमकृत्रिममस्तु तुभ्यम् ॥ १०॥ संताप-पाप-हरणे त्वयि दीक्षितायां संताप-हारि-शशि-पापहरापगाभ्याम् । कुत्रापि धूर्जटि-जटा-विपिने निलीनं छिन्ना सरित् क्षयमुपैति विधुश्च वक्रः ॥ ११॥ भुक्त्वा कुचेल-पृतुकं ननु गोपबालः आकर्ण्य ते व्यरचयत् सुहृदं कुबेरम् । व्याजस्य नास्ति तव रिक्त-जनादपेक्षा निर्व्याजमेव करुणां नमते तनोषि ॥ १२॥ प्राप्नोति वृद्धिमतुलां पुरुषः कटाक्षैः द्वन्द्वी ध्रुवं क्षयमुपैति न चात्र शङ्का। मित्रस्तवोषसि पदं परिसेव्य वृद्धः चन्द्रस्त्वदीय-मुखशत्रुतया विनष्टः ॥ १३॥ सृष्टि-स्थिति-प्रलय-साक्षिणि विश्व-मातः स्वर्गापवर्ग-फल-दायनि शंभु-कान्ते । श्रुत्यन्तखेलिनि विपक्ष-कठोर-वज्रे भद्रे प्रसन्न-हृदये तव सुप्रभातम् ॥ १४॥ मातः स्वरूपमनिशं हृदि पश्यतां ते को वा न सिद्ध्यति मनश्चिर-कांक्षितार्थः । सिद्ध्यन्ति हन्त धरणी-धन-धान्य-धाम- धी-धेनु-धैर्य-धृतयः सकलाः पुमार्थाः ॥ १५॥