अक्षर आकार:

श्रीत्रिपुरसुन्दर्याद्वादशश्लोकीस्तुतिः

Shri TripurasundaryA Dvadashashloki StutiH

श्रीत्रिपुरसुन्दर्याद्वादशश्लोकीस्तुतिः

गणेशग्रहनक्षत्रयोगिनीराशिरूपिणीम् । देवीं मन्त्रमयीं नौमि मातृकापीठरूपिणीम् ॥ १॥ प्रणमामि महादेवीं मातृकां परमेश्वरीम् । कालहृल्लोहलोल्लोहकलानाशनकारिणीम् ॥ २॥ यदक्षरैकमात्रेऽपि संसिद्धे स्पर्द्धते नरः । रविताक्ष्येन्दुकन्दर्पैः शङ्करानलविष्णुभिः ॥ ३॥ यदक्षरशशिज्योत्स्नामण्डितं भुवनत्रयम् । वन्दे सर्वेश्वरीं देवीं महाश्रीसिद्धमातृकाम् ॥ ४॥ यदक्षरमहासूत्रप्रोतमेतज्जगत्त्रयम् । ब्रह्माण्डादिकटाहान्तं तां वन्दे सिद्धमातृकाम् ॥ ५॥ यदेकादशमाधारं बीजं कोणत्रयोद्भवम् । ब्रह्माण्डादिकटाहान्तं जगदद्यापि दृश्यते ॥ ६॥ अकचादिटतोन्नद्धपयशाक्षरवर्गिणीम् । ज्येष्ठाङ्गबाहुहृत्कण्ठकटिपादनिवासिनीम् ॥ ७॥ नौमीकाराक्षरोद्धारां सारात्सारां परात्पराम् । प्रणमामि महादेवीं परमानन्दरूपिणीम् ॥ ८॥ अथापि यस्या जानन्ति न मनागपि देवताः । केयं कस्मात्क्व केनेति सरूपारूपभावनाम् ॥ ९॥ वन्दे तामहमक्षय्यां क्षकाराक्षररूपिणीम् । देवीं कुलकलोल्लोलप्रोल्लसन्तीं शिवां पराम् ॥ १०॥ वर्गानुक्रमयोगेन यस्याख्योमाष्टकं स्थितम् । वन्दे तामष्टवर्गोत्थमहासिद्ध्यादिकेश्वरीम् ॥ ११॥ कामपूर्णजकाराख्यसुपीठान्तर्न्निवासिनीम् । चतुराज्ञाकोशभूतां नौमि श्रीत्रिपुरामहम् ॥ १२॥ इति द्वादशभी श्लोकैः स्तवनं सर्वसिद्धिकृत् । देव्यास्त्वखण्डरूपायाः स्तवनं तव तद्यतः ॥ इति त्रिपुरसुन्दर्याद्वादशश्लोकीस्तुतिः समाप्ता ।