अक्षर आकार:

श्रीत्रिपुरसुन्दरी विजयस्तवः

shrItripurasundarI vijayastavaH

श्रीत्रिपुरसुन्दरी विजयस्तवः

॥ क॥ कल्पान्तोदित-चण्ड-भानु-विलसद्-देह-प्रभा-मण्डिता कालाम्भोद-समान-कुन्तल-भरा कारुण्य-वारां निधिः । काद्यर्णाङ्कित-मन्त्र-राज-विलसत्-कूट-त्रयोपासिता श्रीचक्राधि-निवासिनी विजयते श्रीराज-राजेश्वरी ॥ १॥ ॥ ए॥ एतत्-प्राभव-शालिनीति निगमैरद्याप्यनालोचिता हेमाम्भोज-मुखी चलत्-कुवलय-प्रस्पर्धमानेक्षणा । एणाङ्कांश-समान-फाल-फलक-प्रोल्लासि-कस्तूरिका श्रीचक्राधि-निवासिनी विजयते श्रीराज-राजेश्वरी ॥ २॥ ॥ ई॥ ईषत्-फुल्ल-कदम्ब-कुण्डल-महा-लावण्य-गर्वापहा स्निग्ध-स्वच्छ-सुदन्त-कान्ति-विलसन्मन्द-स्मिताऽलंकृता । ईशित्वाद्यखिलेष्ट-सिद्धि-फलदा भक्त्या नतानां सदा श्रीचक्राधि-निवासिनी विजयते श्रीराज-राजेश्वरी ॥ ३॥ ॥ ल॥ लक्ष्यालक्ष्यावलग्न-देश-विलसद्-रोमावली-वल्लरी वृत्त-स्निग्ध-फल-द्वय-भ्रम-करोत्तुङ्ग-स्तनी सुन्दरी । रक्ताशोक-शुभ-प्रपाटल-दुकूलाच्छादिताङ्गी मुदा श्रीचक्राधि-निवासिनी विजयते श्रीराज-राजेश्वरी ॥ ४॥ ॥ ह्रीं॥ ह्रींङ्कारी सुर-वाहिनी जल-गभीरावर्तनाभिर्धन- श्रोणी-मण्डल-भार-मन्द गमना-काञ्ची-कलापोज्ज्वला । शुण्डादण्ड-सुवर्ण-वर्ण-कदली-काण्डोपमोरु-द्वयी श्रीचक्राधि-निवासिनी विजयते श्रीराज-राजेश्वरी ॥ ५॥ ॥ ह॥ हस्त-प्रोज्ज्वलदिक्षु-कार्मुक-लसत्-पुष्पेषु-पाशांकुशा ह्याद्यर्णाङ्कित-मन्त्र-राज-निलया हारादिभिर्भूषिता । हस्त-प्रान्त-रणत्-सुवर्ण-वलया हर्यक्ष-सम्पूजिता श्रीचक्राधि-निवासिनी विजयते श्रीराज-राजेश्वरी ॥ ६॥ ॥ स॥ संरक्ताम्बुज-पाद-युग्म-विलसन्मञ्जु-क्वणन्नूपुरा संसारार्णव-तारणैक-तरणिर्लावण्य-वारां निधिः । लीला-लोल-तमं शुकं मधुरया संलालयन्ती गिरा श्रीचक्राधि-निवासिनी विजयते श्रीराज-राजेश्वरी ॥ ७॥ ॥ क॥ कल्याणी करुणा-रसार्द्र-हृदया कल्याण-सन्दायिनी काद्यर्णाङ्कित-मन्त्र-लक्षित-तनुस्तन्वी तमो-नाशिनी । कामेशाङ्क-विलासिनी कल-गिरामावास-भूमिः शिवा श्रीचक्राधि-निवासिनी विजयते श्रीराज-राजेश्वरी ॥ ८॥ ॥ ह॥ हन्तुं दानव-पुङ्गवं रण-भुवि प्रोच्चण्ड-भण्डाभिधं हर्यक्षाद्यमरार्थिता भगवती दिव्यां तनूमाश्रिता । श्रीमाता ललितेत्यचिन्त्य-विभवैर्नाम्नां सहस्रैः स्तुता श्रीचक्राधि-निवासिनी विजयते श्रीराज-राजेश्वरी ॥ ९॥ ॥ ल॥ लक्ष्मीर्वाग-गजादिभिर्बहु-विधैः रूपैः स्तुताऽपि स्वयं नी-रूपा गुण-वर्जिता त्रि-जगतां माता च चिद्-रूपिणी । भक्तानुग्रह-कारणेन ललितं रूपं समासादिता श्रीचक्राधि-निवासिनी विजयते श्रीराज-राजेश्वरी ॥ १०॥ ॥ ह्रीं॥ ह्रीङ्कारैक-परायणार्त-जनता-संरक्षणे दीक्षिता हार्दासं तमसं व्यपोहित-मलं भूष्णुर्हर-प्रेयसी हत्यादि-प्रकटाघ-सङ्घ-दलने दक्षा च दाक्षायणी श्रीचक्राधि-निवासिनी विजयते श्रीराज-राजेश्वरी ॥ ११॥ ॥ स॥ सर्वानन्द-मयी समस्त-जगतामानन्द-सन्दायिनी सर्वोत्तुङ्ग-सुवर्ण-शैल-निलया सा सार-साक्षी सती । सर्वैर्योगि-चयैः सदैव विचिता साम्राज्य-दान-क्षमा श्रीचक्राधि-निवासिनी विजयते श्रीराज-राजेश्वरी ॥ १२॥ ॥ क॥ कन्या-रूप-धरा गलाब्ज-विलसन्मुक्ता-लताऽलंकृता कादि-क्षान्तमनु-प्रविष्ट-हृदया कल्याण-शीलान्विता । कल्पान्तोद्भट-ताण्डव-प्रमुदिता श्रीकाम-जित्-साक्षिणी श्रीचक्राधि-निवासिनी विजयते श्रीराज-राजेश्वरी ॥ १३॥ ॥ ल॥ लक्ष्या भक्ति-रसार्द्र-हृत्-सरसिजे सद्भिः सदाऽऽराधिता सान्द्रानन्द-मयी सुधाकर-कला खण्डोज्ज्वलन्मौलिका । शर्वाणी शरणागताऽऽर्ति-शमिनी सच्चिन्मयी सर्वदा श्रीचक्राधि-निवासिनी विजयते श्रीराज-राजेश्वरी ॥ १४॥ ॥ ह्रीं॥ ह्रीङ्कार-त्रय-सम्पुटाऽति-महता मन्त्रेण सम्पूजिता होत्री चन्द्र-समीरणाऽग्नि-जल-भू-भास्वन्नभो-रूपिणी । हंसः सोहमिति प्रकृष्ट-धिषणैराराधिता योगिभिः श्रीचक्राधि-निवासिनी विजयते श्रीराज-राजेश्वरी ॥ १५॥ ॥ श्रीं॥ श्रीङ्काराम्बुज-हंसिकाऽऽश्रित-जन-क्षेमङ्करी शङ्करी श‍ृङ्गारैक-रसाकरस्य मदनस्योज्जीविका-वल्लरी । श्रीकामेशरहः-सखी च ललिता श्रीमद्-गुहाऽऽराधिता श्रीचक्राधि-निवासिनी विजयते श्रीराज-राजेश्वरी ॥ १६॥ इति ।