अक्षर आकार:

त्रिपुरसुन्दरीवेदसारस्तवः

tripurasundarIvedasArastavaH

त्रिपुरसुन्दरीवेदसारस्तवः

श्रीगणेशाय नमः । कस्तूरीपङ्कभास्वद्गलचलदमलस्थूलमुक्तावलीका ज्योत्स्नाशुद्धावदाता शशिशिशुमुकुटालङ्कृता ब्रह्मपत्नी । साहित्याम्भोजभृङ्गी कविकुलविनुता सात्त्विकीं वाग्विभूतिं देयान्मे शुभवस्त्रा करचलवलया वल्लकीं वादयन्ती ॥ १॥ एकान्ते योगिवृन्दैः प्रशमितकरणैः क्षुत्पिपासाविमुक्तैः सानन्दं ध्यानयोगाद्विसगुणसद्दशी दृश्यते चित्तमध्ये । या देवी हंसरूपा भवभयहरणं साधकानां विधत्ते सा नित्यं नादरूपा त्रिभुवनजननी मोदमाविष्करोतु ॥ २॥ ईक्षित्री सृष्टिकाले त्रिभुवनमथ या तत्क्षणेऽनुप्रविश्य स्थेमानं प्रापयन्ती निजगुणविभवैः सर्वथा व्याप्य विश्वम् । संहर्त्री सर्वभासां विलयनसमये स्वात्मनि स्वप्रकाशा सा देवी कर्मबन्धं मम भवकरणं नाश्यत्वादिशक्तिः ॥ ३॥ लक्ष्या या चक्रराजे नवपुरलसिते योगिनीवृन्दगुप्ते सौवर्णे शैलश‍ृङ्गे सुरगणरचिते तत्त्वसोपानयुक्ते । मन्त्रिण्या मेचकाङ्ग्या कुचभरनतया कोलमुख्या च सार्धं साम्राज्ञी सा मदीया मदगजगमना दीर्घमायुस्तनोतु ॥ ४॥ ह्रीङ्काराम्भोजभृङ्गी हयमुखविनुता हानिवृद्ध्यादिहीना हंसोऽहंमन्त्रराज्ञी हरिहयवरदा हादिमन्त्रार्थरूपा । हस्ते चिन्मुद्रिकाढ्या हतबहुदनुजा हस्तिकृत्तिप्रिया मे हार्दं शोकातिरेकं शमयतु ललिताघीश्वरी पाशहस्ता ॥ ५॥ हस्ते पङ्केरुहाभे सरससरसिजं बिभ्रती लोकमाता क्षीरोदन्वत्सुकन्या करिवरविनुता नित्यपुष्टाक्ष गेहा । पद्माक्षी हेमवर्णा मुररिपुदयिता शेवधिः सम्पदां या सा मे दारिद्र्यदोषं दमयतु करुणादृष्टिपातैरजस्रम् ॥ ६॥ सच्चिद्ब्रह्मस्वरूपां सकलगुणयुतां निर्गुणां निर्विकारां रागद्वेषादिहन्त्रीं रविशशिनयनां राज्यदानप्रवीणाम् । चत्वारिंशत्त्रिकोणे चतुरधिकसमे चक्रराजे लसन्तीं कामाक्षीं कामितानां वितरणचतुरां चेतसा भावयामि ॥ ७॥ कन्दर्पे शान्तदर्पे त्रिनयननयनज्योतिषा देववृन्दैः साशङ्कं साश्रुपातं सविनयकरुणं याचिता कामपत्न्या । या देवी दृष्टिपातैः पुनरपि मदनं जीवयामास सद्यः सा नित्यं रोगशान्त्यै प्रभवतु ललिताधीश्वरी चित्प्रकाशा ॥ ८॥ हव्यैः कव्यैश्च सर्वैः श्रुतिचयविहितैः कर्मभिः कर्मशीला ध्यानाद्यैरष्टभिश्च प्रशमितकलुषा योगिनः पर्णभक्षाः । यामेवानेकरूपां प्रतिदिनमवनौ संश्रयन्ते विधिज्ञाः सा मे मोहान्धकारं बहुभवजनितं नाशयत्वादिमाता ॥ ९॥ लक्ष्या मूलत्रिकोणे गुरुवरकरुणालेशतः कामपीठे यस्याः विश्वं समस्तं बहुतरविततं जायते कुण्डलिन्याः । यस्याः शक्तिप्ररोहादविरलममृतं विन्दते योगिवृन्दं तां वन्दे नादरूपां प्रणवपदमयीं प्राणिनां प्राणदात्रीम् ॥ १०॥ ह्रीङ्काराम्भोधिलक्ष्मीं हिमगिरितनयामीश्वरीमीश्वराणां ह्रीं‍मन्त्राराध्यदेवीं श्रुतिशतशिखरैर्मृग्यमाणां मृगाक्षीम् । ह्रीं‍मन्त्रान्तैस्त्रिकूटैः स्थिरतरमतिभिर्धार्यमाणां ज्वलन्तीं ह्रीं ह्रीं ह्रीमित्यजस्रं हृदयसरसिजे भावयेऽहं भवानीम् ॥ ११॥ सर्वेषां ध्यानमात्रात्सवितुरुदरगा चोदयन्ती मनीषां सावित्री तत्पदार्था शशियुतमकुटा पञ्चशीर्षा त्रिनेत्रा हस्ताग्रैः शङ्खचक्राद्यखिलजनपरित्राणदक्षायुधानां बिभ्राणा वृन्दमम्बा विशदयतु मतिं मामकीनां महेशी ॥ १२॥ कर्त्री लोकस्य लीलाविलसितविधिना कारयित्री क्रियाणां भर्त्री स्वानुप्रवेशाद्वियदनिलमुखैः पञ्चभूतैः स्वसृष्टैः । हर्त्री स्वेनैव धाम्ना पुनरपि विलये कालरूपं दधाना हन्यादामूलमस्मत्कलुषभरमुमा भुक्तिमुक्तिप्रदात्री ॥ १३॥ लक्ष्या या पुण्यजालैर्गुरुवरचरणाम्भोजसेवाविशेषाद्- दृश्या स्वान्ते सुधीभिर्दरदलितमहापद्मकोशेन तुल्ये । लक्षं जस्वापि यस्या मनुवरमणिमासिद्धिमन्तो महान्तः सा नित्यं मामकीने हृदयसरसिजे वासमङ्गीकरोतु ॥ १४॥ ह्रीं‍श्रीर्मैं‍मन्त्ररूपा हरिहरविनुताऽगस्त्यपत्नीप्रदिष्टा हादिः काद्यर्णतत्त्वा सुरपतिवरदा कामराजप्रदिष्टा । दुष्टानां दानवानां मदभरहरणा दुःखहन्त्री बुधानां साम्राज्ञी चक्रराज्ञी प्रदिशतु कुशलं मह्यमोङ्काररूपा ॥ १५॥ श्रीं‍मन्त्रार्थस्वरूपा श्रितजनदुरितध्वान्तहन्त्री शरण्या श्रौतस्मार्तक्रियाणामविकलफलदा फालनेत्रस्य दाराः । श्रीचक्रान्तर्निषण्णा गुहवरजननी दुष्टहन्त्री वरेण्या श्रीमत्सिंहासनेशी प्रदिशतु विपुलां कीर्तिमानन्दरूपा ॥ १६॥ श्रचिक्रवरसाम्राज्ञी श्रीमत्त्रिपुरसुन्दरी । श्रीगुहान्वयसौवर्णदीपिका दिशतु श्रियम् ॥ १७॥ इति श्रीमत्त्रिपुरसुन्दरीवेदसारस्तवः सम्पूर्णः ॥ %टित्ले १९३। भगवतीस्तोत्रम् । %Title 198 devyaShTakam . %टित्ले १९५ देवीस्तोत्रम् । %Title 200. devIshatakam . %टित्ले २०१। त्रिपुरसुन्दरीप्रातःस्मरणम् । %Title 203. tripurasundarIShoDashopachArapUjA . %टित्ले २०५ त्रिपुरसुन्दरीपुष्पाञ्जलिस्तवः । %Title 208. tripurasundarIvedasArastavaH .