अक्षर आकार:

त्रिपुरसुन्दरीवेदपादस्तोत्रम्

tripurasundarIvedapAdastotram

त्रिपुरसुन्दरीवेदपादस्तोत्रम्

वेदपादस्तवं वक्ष्ये देव्याः प्रियचिकीर्षया । यथामति मतिं देवस्तन्नो दन्तिः प्रचोदयात् ॥ १॥ अकिञ्चित्करकर्मभ्यः प्रत्याहृत्य कृपावशात् । सुब्रह्मण्यः स्तुतावस्यां तन्नः षण्मुखः प्रचोदयात् ॥ २॥ अकारादिक्षकारान्तवर्णावयवशालिनी । वीणापुस्तकहस्ताऽव्यात् प्रणो देवी सरस्वती ॥ ३॥ या वर्णपदवाक्यार्थगद्यपद्यस्वरूपिणी । वाचि नर्तयतु क्षिप्रं मेधां देवी सरस्वती ॥ ४॥ उपास्यमाना विप्रेन्द्रैः सन्ध्यासु च तिसृष्वपि । सद्यः प्रसीद मे मातः सन्ध्याविद्ये सरस्वती ॥ ५॥ मन्दा निन्दालोलुपाऽहं स्वभावात् एतत्स्तोत्रं पूर्यते किं मयेति । मा ते भीतिर्हे मते त्वादृशानाम् एषा नेत्री राधसा सूनृतानाम् ॥ ६॥ तरङ्गभृकुटीकोटिभङ्ग्या तर्जयते जराम् । सुधामयाय शुभ्राय सिन्धूनां पतये नमः ॥ ७॥ तस्य मध्ये मणिद्वीपः कल्पकारामभूषितः । अस्तु मे ललितावासः स्वस्तिदा अभयङ्करः ॥ ८॥ कदम्बमञ्जरीनिर्यद्वारुणीपारणोन्मदैः । द्विरेफैर्वर्णनीयाय वनानां पतये नमः ॥ ९॥ तत्र वप्रावलीलीलागगनोल्लङ्घिगोपुरम् । मातः कौतूहलं दद्यात्सुहार्यं नगरं तव ॥ १०॥ मकरन्दझरीमज्जन्मिलिन्दकुलसङ्कुलाम् । महापद्माटवीं वन्दे यशसा सम्परीवृताम् ॥ ११॥ तत्रैव चिन्तामणिधोरणोऽर्चिभिर्- विनिर्मितं रोपितरत्नश‍ृङ्गम् । भजे भवानी भवनावतंसम् आदित्यवर्णं तमसः परस्तात् ॥ १२॥ मुनिभिः स्वात्मलाभाय यच्चक्रं हृदि सेव्यते । तत्र पश्यामि बुध्या तदक्षरे परमे व्योमन् ॥ १३॥ पञ्चब्रह्ममयो मञ्चस्तत्र यो बिन्दुमध्यगः । तव कामेशि वासोऽयमायुष्मन्तं करोतु माम् ॥ १४॥ नानारत्नगुलुच्छालीकान्तिकिम्मीलितोदरम् । विमृशामि वितानं तेऽतिश्लक्ष्णमतिलोमशम् ॥ १५॥ पर्यङ्कतल्पोपरि दर्शनीयं सबाणचापाङ्कुशपाशपाणिम् । अशेषभूषारमणीयमीडे त्रिलोचनं नीलकण्ठं प्रशान्तम् ॥ १६॥ जटारुणं चन्द्रकलाललामम् उद्वेललावण्यकलाभिरामम् । कामेश्वरं कामशरासनाङ्कं समस्तसाक्षिं तमसः परस्तात् ॥ १७॥ तत्र कामेशवामाङ्के खेलन्तीमलिकुन्तलाम् । सच्चिदानन्दलहरीं महालक्ष्मीमुपास्महे ॥ १८॥ चारुगोरोचनापङ्कजम्बालितघनस्तनीम् । नमामि त्वामहं लोकमातरं पद्ममालिनीम् ॥ १९॥ शिवे नमन्निर्जरकुञ्जरासुर- प्रतोलिकामौलिमरीचिवीचिभिः । इदं तव क्षालनजातसौभगं चरणं नो लोके सुधितां दधातु ॥ २०॥ कल्पस्यादौ कारणेशानपि त्रीन् स्रष्टुं देवि त्रीन्गुणानादधानाम् । सेवे नित्यं श्रेयसे भूयसे त्वा- मजामेकां लोहितशुक्लकृष्णाम् ॥ २१॥ केशोद्भूतैरद्भुतामोदपूरै- राशाबृन्दं सान्द्रमापूरयन्तीम् । त्वामानम्य त्वत्प्रसादात्स्वयम्भू- रस्मान्मायी सृजते विश्वमेतत् ॥ २२॥ अर्धोन्मीलद्यौवनोद्दामदर्पां दिव्याकल्पैरर्पयन्तीं मयूखान् । देवि ध्यात्वा त्वां पुरा कैटभारि- र्विश्वं बिभर्ति भुवनस्य नाभिः ॥ २३॥ कह्लारश्रीमञ्जरीपुञ्जरीतिं धिक्कुर्वन्तीमम्ब ते पाटलिम्ना । मूर्तिं ध्यात्वा शाश्वतीं भूतिमाय- न्निन्द्रो राजा जगतो य ईशे ॥ २४॥ देवतान्तरमन्त्रौघजपश्रीफलभूतया । जापकस्तव देव्यन्ते विद्यया विन्दतेऽमृतम् ॥ २५। पुंस्कोकिलकलक्वाणकोमलालापशालिनि । भद्राणि कुरु मे मातर्दुरितानि परासुव ॥ २६॥ अन्तेवासिन्नस्ति चेत्ते मुमुक्षा वक्ष्ये युक्तिं मुक्तसर्वैषणस्सन् । सद्भ्यः साक्षात् सुन्दरीं ज्ञप्तिरूपां श्रद्धाभक्तिज्ञानयोगादवेहि ॥ २७॥ षोढान्यासादिदेवैश्च सेविता चक्रमध्यगा । कामेशमहिषी भूयः षोडशी शर्म यच्छतु ॥ २८॥ शान्तो दान्तो देशिकेन्द्रं प्रणम्य तस्यादेशात्तारकं मन्त्रतत्त्वम् । जानीते चेदम्ब धन्यः समानं नातः परं वेदितव्यं हि किञ्चित् ॥ २९॥ त्वमेव कारणं कार्यं क्रिया ज्ञानं त्वमेव च । त्वामम्ब न विना किञ्चित् त्वयि सर्वं प्रतिष्ठितम् ॥ ३०॥ परागमद्रीन्द्रसुते तवाङ्घ्रि- सरोजयोरम्ब दधामि मूर्ध्ना । अलङ्कृतं वेद(/देव)वधूशिरोभि- र्यतो जातो भुवनानि विश्वा ॥ ३१॥ दुष्टान् दैत्यान् हन्तुकामां महर्षीन् शिष्टानन्यान् पातुकामां कराब्जैः । अष्टाभिस्त्वां सायुधैर्भासमानां दुर्गां देवीं शरणमहं प्रपद्ये ॥ ३२॥ देवि सर्वानवद्याङ्गीं त्वामनादृत्य ये क्रियाः । कुर्वन्ति निष्फलास्तेषामदुग्धा इव धेनवः ॥ ३३॥ नाहं मन्ये दैवतं मान्यमन्य- त्त्वत्पादाब्जादम्बिके कुम्भजाद्याः । ये ध्यातारो भक्तिसंशुद्धचित्ताः परामृतात् परिमुच्यन्ति सर्वे ॥ ३४॥ कुर्वाणोऽपि दुरारम्भां स्तव नामानि शाम्भवि । प्रजपन्नेति मायान्तमतिमृत्युं तराम्यहम् ॥ ३५॥ कल्याणि त्वं कुन्दहासप्रकाशै- रन्तर्ध्वान्तं नाशयन्ती क्षणेन । हन्तास्माकं ध्यायतां त्वत्पदाब्ज- मुच्चतिष्ठ महते सौभगाय ॥ ३६॥ तितीर्षया भवाम्भोधेर्हयग्रीवादयः पुरा । अप्रमत्ता भवत्पूजां सुविद्वांसो वितेनिरे ॥ ३७॥ मद्वंश्या ये दुराचारा ये च सन्मार्गगामिनः । भवत्याः कृपया सर्वे सुवर्यन्तु यजमानाः ॥ ३८॥ श्रीचक्रस्थां शाश्वतैश्वर्यदात्रीं पौण्ड्रं चापं पुष्पबाणान्दधानाम् । बन्धूकाभां भावयामि त्रिनेत्रां तामग्निवर्णां तपसा ज्वलन्तीम् ॥ ३९॥ भवानि तव पादाब्जनिर्णेजनपवित्रिताः भवामयप्रशान्त्यै त्वामपो याचामि भेषजम् ॥ ४०॥ चिदानन्दसुधाम्भोधेस्तवानन्दलवोऽस्ति यः कारणेशैस्त्रिभिस्साकं तद्विश्वमुपजीवति ॥ ४१॥ नो वा यागैर्नैव पूर्तादिकृत्यै- र्नो वा जप्यैर्नो महद्भिस्तपोभिः । नो वा योगैः क्लेशकृद्भिः सुमेधा निचाय्येमां शान्तिमत्यन्तमेति ॥ ४२॥ प्रातः पाहि महाविद्ये मध्याह्ने तु मृडप्रिये । सायं पाहि जगद्वन्द्ये पुनर्नः पाहि विश्वतः ॥ ४३॥ बन्धूकाभैर्भानुभिर्भासयन्ती विश्वं शश्वत्तुङ्गपीनस्तनार्धा । लावण्याब्धेः सुन्दरि त्वं प्रसादा- दायुः प्रजां रयिमस्मासु धेहि ॥ ४४॥ कर्णाकर्णय मे तत्त्वं या चिच्छक्तिरितीर्यते । त्रिर्वदामि मुमुक्षूणां सा काष्ठा सा परगतिः ॥ ४५॥ वाग्देवीति त्वां वदन्त्यम्ब केचि- ल्लक्ष्मीर्गौरीत्येवमन्ये वदन्ति । शश्वन्मातः प्रत्यगद्वैतरूपां शंसन्ति केचिन्निविदो जनाः ॥ ४६॥ ललितेति सुधापूरमाधुरीचोरमम्बिके । तव नामास्ति यत्तेन जिह्वा मे मधुमत्तमा ॥ ४७॥ ये सम्पन्नाः साधनैस्तैश्चत्तुर्भिः शुश्रूषाभिर्देशिकं प्रीणयन्ति । सम्यग्विद्वाञ्शुद्धसत्त्वान्तराणां तेषामेवैतां ब्रह्मविद्यां वदेत ॥ ४८॥ अभिचारादिभिः कृत्यां यः प्रेरयति मय्युमे । तव हुङ्कारसन्त्रस्ता प्रत्यक्कर्तारमृच्छतु ॥ ४९॥ जगत्पवित्रि मामिकामपहराशु दुर्जराम् । प्रसीद मे दया धुने प्रशस्तिमम्ब नस्कृधि ॥ ५०॥ कदम्बारुणमम्बाया रूपं चिन्तय चित्त मे । मुञ्च पापीयसीं निष्ठां मा गृधः कस्य स्विद्धनम् ॥ ५१॥ भण्डभण्डनलीलायां रक्तचन्दनपङ्किलः । अङ्कुशस्तव तं हन्याद्यश्च नो द्विषते जनः ॥ ५२॥ रे रे चित्त त्वं वृथा शोकसिन्धौ मज्जस्यन्तर्वच्म्युपायं विमुक्त्यै । देव्याः पादौ पूजयैकाक्षरेण तत्ते पदं सङ्ग्रहेण ब्रवीम्योम् ॥ ५३॥ चञ्चद्बालातपज्योत्स्नाकलामण्डलशालिने । ऐक्षवाय नमो मातर्बाहुभ्यां तव धन्वने ॥ ५४॥ तामेवाद्यां ब्रह्मविद्यामुपासे मूर्तैर्वेदैः स्तूयमानां भवानीम् । हन्त स्वात्मत्त्वेन यां मुक्तिकामो मत्वा धीरो हर्षशोकौ जहाति ॥ ५५॥ शरणं करवाण्यम्ब चरणं तव सुन्दरि । शेपे त्वत्पादुकाभ्यां मे नान्यः पन्था अयनाय ॥ ५६॥ रत्नच्छत्रैश्चामरैर्दर्पणाद्यै- श्चक्रेशानीं सर्वदोपचारयन्त्यः । योगिन्योऽन्याः शक्तयश्चाणिमाद्या यूयं पात स्वस्तिभिः सदा नः ॥ ५७॥ दरिद्रं मां विजानीहि सर्वज्ञासि यतः शिवे । दूरीकृत्याशु दुरितमथ नो वर्धयारयिम् ॥ ५८॥ महेश्वरि महामन्त्रकूटत्रयकलेबरे । कादिविद्याक्षरश्रेणीमुशन्तस्त्वा हवामहे ॥ ५९॥ मूलाधारादूर्ध्वमन्तश्चरन्तीं भित्त्वा ग्रन्थीन्मूर्ध्नि निर्यत्सुधार्द्राम् । पश्यन्तस्त्वां ये च तृप्तिं लभन्ते तेषां शान्तिः शाश्वती नेतरेषाम् ॥ ६०॥ मह्यं द्रुह्यन्ति ये मातः त्वद्ध्यानासक्तचेतसे । तानम्ब सायकैरेभिरव ब्रह्मद्विषो जहि ॥ ६१॥ त्वद्भक्तानामम्ब शान्तैषणानां ब्रह्मिष्ठानां दृष्टिपातेन पूतः । पापीयानप्यावृतः स्वर्वधूभिः शोकातिगो मोदते स्वर्गलोके ॥ ६२॥ सन्तु विद्या जगत्यस्मिन् संसारभ्रमहेतवः । भजेऽहं त्वां यया विद्वान् विद्ययाऽमृतमश्नुते ॥ ६३॥ विद्वन्मुख्यैर्विद्रुमाभं विशाल- श्रोणीशिञ्जन्मेखलाकिङ्किणीकम् । चन्द्रोत्तंसं चिन्मयं वस्तु किञ्चि- द्विद्धि त्वमेतन्निहितं गुहायाम् ॥ ६४॥ न विस्मरामि चिन्मूर्तिमिक्षुकोदण्डशालिनीम् । मुनयः सनकप्रेष्ठास्तामाहुः परमां गतिम् ॥ ६५॥ चक्षुःप्रेङ्खत्प्रेमकारुण्यधारां हंसज्योत्स्नापूरहृष्यच्चकोराम् । यामाश्लिष्यन्मोदते देवदेवः सा नो देवी सुहवा शर्म यच्छतु ॥ ६६॥ मुञ्च वञ्चकतां चित्त पामरं चापि दैवतम् । गृहाण पदमम्बाया एतदालम्बनं परम् ॥ ६७॥ का मे भीतिः का क्षतिः किं दुरापं कामेशाङ्कोत्तुङ्गपर्यङ्कसंस्थाम् । तत्त्वातीतामच्युतानन्ददात्रीं देवीमहं निरृतिं वन्दमानः ॥ ६८॥ चिन्तामणिमयोत्तंसकान्तिकञ्चुकितानने । ललिते त्वां सकृन्नत्वा न बिभेति कुतश्चन ॥ ६९॥ तारुण्योत्तुङ्गितकुचे लावण्योल्लासितेक्षणे । तवाज्ञयैव कामाद्या मास्मान्प्रापन्नरातयः ॥ ७०॥ आकर्णाकृष्टकामासस्त्रसञ्जातं तापमम्ब मे । आचामतु कटाक्षस्ते पर्जन्यो वृष्टिमानिव ॥ ७१॥ कुर्वे गर्वेणापचारानपारा- नद्यप्यम्ब त्वत्पदाब्जं तथापि । मन्ये धन्ये देवि विद्यावलम्बं मातेव पुत्रं बिभृतास्वेनम् ॥ ७२॥ यथोपास्तिक्षतिर्नस्यात्तव चक्रस्य सुन्दरि । कृपया कुरु कल्याणि तथा मे स्वस्तिरायुषि ॥ ७३॥ चक्रं सेवे तावकं सर्वसिद्ध्यै श्रीमन्मातः सिद्धयश्चाणिमाद्याः । नित्या मुद्रा शक्तयश्चाङ्गदेव्यो यस्मिन्देवा अधि विश्वे निषेदुः ॥ ७४॥ सुकुमारे सुखाकारे सुनेत्रे सूक्ष्ममध्यमे । सुप्रसन्ना भव शिवे सुमृडीका सरस्वती ॥ ७५॥ विद्युद्वल्लीकन्दलीं कल्पयन्तीं मूर्तिं स्फूर्त्या पङ्कजं धारयन्तीम् । ध्यायन् हि त्वां जायते सार्वभौमो विश्वा आशाः पृतनाः सञ्जयन्जयन् ॥ ७६॥ अविज्ञाय परां शक्तिमात्मभूतां महेश्वरीम् । अहो पतन्ति निरयेषु ये के चात्महनो जनाः ॥ ७७॥ सिन्दूराभैस्सुन्दरैरंशुबृन्दैः लाक्षालक्ष्म्यां मज्जयन्तीं जगन्ति । हेरम्बाम्ब त्वां हृदा लम्बते य- स्तस्मै विशः स्वयमेवानमन्ते ॥ ७८॥ तव तत्त्वं विमृशतां प्रत्यगद्वैतलक्षणम् । चिदानन्दघनादन्यन्नेह नानास्ति किञ्चन ॥ ७९॥ कण्ठात्कुण्डलिनीं नीत्वा सहस्रारं शिवे तव । न पुनर्जायते गर्भे सुमेधा अमृतोक्षितः ॥ ८०॥ त्वत्पादुकानुसन्धानप्राप्तसर्वात्मतादृशि । पूर्णाहङ्कृतिमत्यस्मिन्न कर्म लिप्यते नरे ॥ ८१॥ तवानुग्रहनिर्भिन्नहृदयग्रन्थिरद्रिजे । स्वात्मत्वेन जगन्मत्वा ततो न विजुगुप्सते ॥ ८२॥ कदा वसुदलोपेते त्रिकोणनवकान्विते । आवाहयामि चक्रे त्वां सूर्याभां श्रियमैश्वरीम् ॥ ८३॥ ह्रीमित्येकं तावकं वाचकार्णं यज्जिह्वाग्रे देवि जागर्ति किञ्चित् । को वायं स्यात्कामकामस्त्रिलोक्यां सर्वेऽस्मै देवाः बलिमावहन्ति ॥ ८४॥ नाकस्त्रीणां किन्नरीणां नृपाणा- प्याकर्षि चेतसा चिन्तनीयम् । त्वत्पाणिस्थं कुङ्कुमाभं शिवे यं द्विष्मस्तस्मिन्प्रति मुञ्चामि पाशम् ॥ ८५॥ नूनं सिंहासनेश्वर्यास्तवाज्ञां शिरसा वहन् । भयेन पवमानोऽयं सर्वा दिशोऽनुविधावति ॥ ८६॥ त्रिकालाढ्यां त्रिहृल्लेखां द्विहंसस्वरभूषिताम् । यो जपत्यम्ब ते विद्यां सोऽक्षरः परमः स्वराट् ॥ ८७॥ दारिद्र्याब्धौ देवि मग्नोऽपि शश्व- द्वाचा याचे नाहमम्ब त्वदन्यम् । तस्मादस्मद्वाञ्छितं पूरयैत- दुषा सा नक्ता सुदुघेव धेनुः ॥ ८८॥ यो वा यद्यत्कामनाकृष्टचित्तः स्तुत्वोपास्ते देवि ते चक्रविद्याम् । कल्याणानामालयः कालयोगात् तं तं लोकं जयते तांश्च कामान् ॥ ८९॥ साधकस्सततं कुर्यादैक्यं श्रीचक्रदेहयोः । तथा देव्यात्मनोरैक्यमेतावदनुशासनम् ॥ ९०॥ हस्ताम्भोजप्रोल्लसच्चामराभ्यां श्रीवाणीभ्यां पार्श्वयोर्वीज्यमानाम् । श्रीसाम्राज्ञि त्वां सदा लोकयेयं सदा सद्भिः सेव्यमानां निगूढाम् ॥ ९१॥ इष्टानिष्टप्राप्तिविच्छित्तिहेतुः स्तोतुं वाचां कॢप्तिरित्येव मन्ये । त्वद्रूपं हि स्वानुभूत्यैकवेद्यं न चक्षुषा गृह्यते नापि वाचा ॥ ९२॥ हरस्वरैश्चतुर्वर्गप्रदं मन्त्रं सबिन्दुकम् । देव्या जपत विप्रेन्द्रा अन्या वाचो विमुञ्चथ ॥ ९३॥ यस्ते राकाचन्द्रबिम्बासनस्थां पीयूषाब्धिं कल्पयन्तीं मयूखैः । मूर्तिं भक्त्या ध्यायते हृत्सरोजे न तस्य रोगो न जरा न मृत्युः ॥ ९४॥ तुभ्यं मातर्योऽञ्जलिं मूर्ध्नि धत्ते मौलिश्रेण्या भूभुजस्तं नमन्ति । यः स्तौति त्वामम्ब चिद्वल्लिवाचा तं धीरासः कवय उन्नयन्ति ॥ ९५॥ वैरिञ्चोघैर्विष्णुरुद्रेन्द्रबृन्दैः दुर्गाकालीभैरवीशक्तिसंङ्घैः । यत्रे(न्त्रे)शि त्वं वर्तते(से) स्तूयमाना न तत्र सूर्यो भाति न चन्द्रतारकम् ॥ ९६॥ भूत्यै भवानि त्वां वन्दे सुराः शतमखादयः । त्वामानम्य समृद्धाः स्युरायो धामानि दिव्यानि ॥ ९७॥ पुष्पवत्फुल्लताटङ्कां प्रातरादित्यपाटलाम् । यस्त्वामन्तः स्मरत्यम्ब तस्य देवा असन्वशे ॥ ९८॥ वश्ये विद्रुमसङ्काशां विद्यायां विशदप्रभाम् । त्वामम्ब भावयेद्भूत्यै सुवर्णां हेममालिनीम् ॥ ९९॥ वामाङ्गस्थामीशितुर्दीप्यमानां भूषाबृन्दैरिन्दुरेखावतंसाम् । यस्त्वां पश्यन् सततं नैव तृप्तः तस्मै च देवि वषडस्तु तुभ्यम् ॥ १००॥ नवनीपवनीवासलालसोत्तममानसे । श‍ृङ्गारदेवते मातः श्रियं वासय मे कुले ॥ १०१॥ भक्त्याभक्त्या वापि पद्यावसान- श्रुत्या स्तुत्या चैतया स्तौति यस्त्वाम् । तस्य क्षिप्रं त्वत्प्रसादेन मातः सत्याः सन्तु यजमानस्य कामाः ॥ १०२॥ बालिशेन मया प्रोक्तमपि वात्सल्यशालिनोः । आनन्दमादिदम्पत्योरिमा वर्धन्तु वाङ्गिरः ॥ १०३॥ माधुरीसौरभावासचापसायकधारिणीम् । देवीं ध्यायन् पठेदेतत्सर्वकामार्थसिद्धये ॥ १०४॥ स्तोत्रमेतत्प्रजपतस्तव त्रिपुरसुन्दरि । अनुद्वीक्ष्य भयाद्दूरं मृत्युर्धावति पञ्चमः ॥ १०५॥ यः पठति स्तुतिमेतां विद्यावन्तं तमम्ब धनवन्तम् । कुरु देवि यशस्वन्तं वर्चस्वन्तं मनुष्येषु ॥ १०६॥ ये श‍ृण्वन्ति स्तुतिमिमां तव देव्यनसूयकाः । तेभ्यो देहि श्रियं विद्यामुद्वर्च उत्तनूबलम् ॥ १०७॥ त्वामेवाहं स्तौमि नित्यं प्रणौमि श्रीविद्येशां वच्मि सञ्चिन्तयामि । अध्यास्ते या विश्वमाता विराजो हृत्पुण्डरीकं विरजं विशुद्धम् ॥ १०८॥ शङ्करेण रचितं स्तवोत्तमं यः पठेज्जगति भक्तिमान्नरः । तस्य सिद्धिरतुला भवेद्ध्रुवा सुन्दरी च सततं प्रसीदति ॥ १०९॥ यत्रैव यत्रैव मनो मदीयं तत्रैव तत्रैव तव स्वरूपम् । यत्रैव यत्रैव शिरो मदीयं तत्रैव तत्रैव पदद्वयं ते ॥ ११०॥ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्षङ्करभगवतः कृतौ त्रिपुरसुन्दरीवेदपादस्तोत्रं सम्पूर्णम् ॥