अक्षर आकार:

त्रिपुरसुन्दरीपुष्पाञ्जलिस्तवः

tripurasundarIpuShpA~njalistavaH

त्रिपुरसुन्दरीपुष्पाञ्जलिस्तवः

श्रीगणेशाय नमः । कल्याणदात्रि कमनीयतनूलते त्वां कं चापि कालमनुचिन्य हृदाब्जमध्ये । कामं प्रहर्षभरितेन मया तवाद्य पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ १॥ एतन्मदीयसुकृत्तं परमं पुराणं यत्त्वामहं प्रतिदिनं मनसा भजामि । साक्षात्कृतेन तव रूपमनेन चाद्य पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ २॥ ईशादिदेवमहनीयमहानुभावे दीनं त्विमं भवभयेन परिस्फुरन्तम् । दीनार्तिहर्त्रि दयया परिपालयाशु पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ ३॥ लज्जां विहाय बहुधा बहवोऽपि देवाः सम्पूजिता जडधिया नतु कोऽपि दृष्टः । लब्धं तवैव रमणीयवपुर्दृशा मे पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ ४॥ ह्रीं‍कारमन्त्रनिलये बहुशो भवाब्धौ मग्नः परं तु न कदापि गतोऽस्मि पारम् । तत्तारणे निपुणयोस्त्रिपुरे मयाद्य पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ ५॥ हस्तेषु पाशमहनीयसितेक्षुचापे पुष्पास्त्रमङ्कुशवरं ललितं दधाने । हेमाद्रितुङ्गतरश‍ृङ्गनिवासशीले पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ ६॥ सर्वेषु देवि समयेषु गतिस्त्वमेव नान्यं कदापि मनसा समनुस्मरामि । सर्वत्र रूपमतुलं तव पश्यताद्य पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ ७॥ कस्ते पुरेशि विधिवत्तु समर्हणायां शक्तः समस्तपरिवर्हयुतोऽपि धीमान् । हृत्पङ्कजेन भवतीं भजता मयाद्य पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ ८॥ हन्तातिस्थभवपावकशोषितेन कुत्राप्यलब्धशरणेन सरोजवक्त्रे । अन्ते मयात्रभवतीं शरणं गतेन पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ ९॥ लक्ष्यासि देवि बहुजन्मतपोबलेन लक्ष्मीशधातृपरिपूज्यपदास्तुजाते । आलक्ष्य रूपमरुणं तव विस्मितेन पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ १०॥ ह्रीङ्कारमेव शरणं जगतां वदन्ति ह्रीङ्कारमेव परमं भुवने रहस्यम् । ह्रीङ्कारमेव सततं स्मरता मयाद्य पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ ११॥ सर्वस्य देवि भुवनस्य निदानभूता त्वय्येव सर्वमनघे विलयं गतं स्यात् । सञ्चिन्त्य चैतदधुना त्रिपुरे मया ते पुष्पाञ्जलिश्चरणयोरमम्ब कीर्णः ॥ १२॥ कश्चिद्यदा भवनिहन्त्रि विचिन्तयेत्त्वां दीनं तदैव हि कटाक्षयसे दृशा त्वम् । एवं विचिन्त्य भवतीं स्मरता मयाद्य युष्पाञ्जलिश्चरणयोरमम्ब कीर्णः ॥ १३॥ लब्ध्वा त्वदीयचरणान्धुजमम्ब जन्तुर्नावर्तते पुनरपि प्रभवाय लोके । वेदोक्तिमेवमसकृत्स्मरता मयाद्य पुष्पालिश्चरणयोरयमम्ब कीर्णः ॥ १४॥ ह्रीङ्कारमेव जपतां प्रतिवासरं च ह्रीङ्कारमेव भजतां सकलेष्टसिद्ध्यै । ह्रीङ्कारमेव परमं शरणं गतेन पुष्पाञ्जलिश्चरणयोरयमप्य कीर्णः ॥ १५॥ श्रीङ्कारमन्त्रकनकाब्जनिवासशीले श्रीरूपधारिणि शिवो श्रितकल्पवल्लि । श्रीमद्गुहस्तुतमहाविभवे पुरेशि पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ १६॥ इति श्रीत्रिपुरसुन्दरीपुष्पाञ्जलिस्तवः सम्पूर्णः ॥