अक्षर आकार:

त्रिपुरसुन्दरीप्रातःस्मरणम्

tripurasundarIprAtaHsmaraNam

त्रिपुरसुन्दरीप्रातःस्मरणम्

श्रीगणेशाय नमः । कस्तूरिकाकृतमनोज्ञललामभास्वदर्धेन्दुमुग्धनिटिलाञ्चलनीलकेशीम् । प्रालम्बमाननवमौक्तिकहारभूषां प्रातः स्मरामि ललितां कमलायताक्षीम् ॥ १॥ एणाङ्कचूडसमुपार्जितपुण्यराशिमुत्तप्तहेमतनुकान्तिझरीपरीताम् । एकाग्रचित्तमुनिमानसराजहंसीं प्रातः स्मरामि ललितापरमेश्वरीं ताम् ॥ २॥ ईषद्विकासिनयनान्तनिरीक्षणेन साम्राज्यदानचतुरां चतुराननेड्याम् । ईशाङ्कवासरसिकां रससिद्धिदात्रीं प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ ३॥ लक्ष्मीशपद्मभवनादिपदैश्चतुर्भिः संशोभिते च फलकेन सदाशिवेन । मञ्चे वितानसहिते ससुखं निषण्णां प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ ४॥ ह्रीं‍कारमन्त्रजपतर्पणहोमतुष्टां ह्रीं‍कारमन्त्रजलजातसुराजहंसीम् । ह्रीं‍कारहेमनवपञ्जरसारिकां तां प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ ५॥ हल्लीसलास्यमृदुगीतिरसं पिबन्तीमाकूणिताक्षमनवद्यगुणाम्बुराशिम् । सुप्तोत्थितां श्रुतिमनोहरकीरवाग्भिः प्रातः स्मरामि मनसा ललिताधिनाथाम्॥ ६॥ सच्चिन्मयीं सकललोकहितैषिणी च सम्पत्करीहयमुखीमुखदेवतेड्याम् । सर्वानवद्यसुकुमारशरीररम्यां प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ ७॥ कन्याभिरर्धशशिमुग्धकिरीटभास्वच्चूडाभिरङ्कगतहृद्यविपञ्चिकाभिः । संस्तूयमानचरितां सरसीरुहाक्षीं प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ ८॥ हत्वाऽसुरेन्द्रमतिमात्रबलावलिप्तभण्डासुरं समरचण्डमघोरसैन्यम् । संरक्षितार्तजनतां तपनेन्दुनेत्रां प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ ९॥ लज्जावनम्ररमणीयमुखेन्दुबिम्बां लाक्षारुणाङ्घ्रिसरसीरुहशोभमानाम् । रोलम्बजालसमनीलसुकुन्तलाड्यां प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ १०॥ ह्रीं‍कारिणी हिममहीधरपुण्यराशिं ह्रीं‍कारमन्त्रमहनीयमनोज्ञरूपाम् । ह्रीं‍कारगर्भमनुसाधकसिद्धिदात्रीं प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ ११॥ सञ्जातजन्ममरणादिभयेन देवीं सम्फुल्लपद्मविलयां शरदिन्दुशुभ्राम् । अर्धेन्दुचूडवनितामणिमादिवन्द्यां प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ १२॥ कल्याणशैलशिखरेषु विहारशीलां कामेश्वराङ्कनिलयां कमनीयरूपाम् । काद्यर्णमन्त्रमहनीयमहानुभावां प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ १३॥ लम्बोदरस्य जननीं तनुरोमराजीं बिम्बाधरां च शरदिन्दुमुखीं मृडानीम् । लावण्यपूर्णजलधिं जलजातहस्तां प्रातः स्मरामि मनसा ललीताधिनाथाम् ॥ १४॥ ह्रीं‍कारपूर्णनिगमैः प्रतिपाद्यमानां ह्रीं‍कारपद्मनिलयां हतदानवेन्द्राम् । ह्रीं‍कारगर्भमनुराजनिषेव्यमाणां प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ १५॥ श्रीचक्रराजनिलयां श्रितकामधेनुं श्रीकामराजजननीं शिवभागधेयाम् । श्रीमद्गुहस्य कुल्यमङ्गलदेवतां तां प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ १६॥ इति श्रीत्रिपुरसुन्दरीप्रातःस्मरणं समाप्तम् ॥