अक्षर आकार:

श्रीत्रिपुरसुन्दरी प्रातःश्लोकपञ्चकम्

Shri Tripurasundari Pratah Shloka Panchakam

श्रीत्रिपुरसुन्दरी प्रातःश्लोकपञ्चकम्

प्रातर्नमामि जगतां जनन्याश्चरणाम्बुजम् । श्रीमत्त्रिपुरसुन्दर्या नमिता या हरादिभिः ॥ १॥ var प्रणताया प्रातस्त्रिपुरसुन्दर्या नमामि पदपङ्कजम् । हरिर्हरो विरिञ्चिश्च सृष्ट्यादीन् कुरुते यथा ॥ २॥ प्रातस्त्रिपुरसुन्दर्या नमामि चरणाम्बुजम् । यत्पादमम्बु शिरसि भाति गङ्गा महेशितुः ॥ ३॥ प्रातः पाशाङ्कुशशराञ्चापहस्तां नमाम्यहम् । उदयादित्यसङ्काशां श्रीमत्त्रिपुरसुन्दरीम् ॥ ४॥ प्रातर्नमामि पादाब्जं ययेदं धार्यते जगत् । var भासते जगत् तस्यास्त्रिपुरसुन्दर्या यत्प्रसादान्निवर्तते ॥ ५॥ यः श्लोकपञ्चकमिदं प्रातर्नित्यं पठेन्नरः । तस्मै ददात्यात्मपदं श्रीमत्त्रिपुरसुन्दरी ॥ ६॥ इति श्रीत्रिपुरसुन्दरीप्रातःश्लोकपञ्चकं सम्पूर्णम् ।