अक्षर आकार:

त्रिपुरसुन्दरी पञ्चरत्नस्तोत्रम्

Tripurasundari Pancharatnastotram

त्रिपुरसुन्दरी पञ्चरत्नस्तोत्रम्

नीलालकां शशिमुखीं नवपल्लवोष्ठीं चाम्पेयपुष्पसुषमोज्ज्वलदिव्यनासाम् । पद्मेक्षणां मुकुरसुन्दरगण्डभागां त्वां साम्प्रतं त्रिपुरसुन्दरि! देवि! वन्दे ॥ १॥ श्रीकुन्दकुड्मलशिलोज्ज्वलदन्तवृन्दां मन्दस्मितद्युतितिराहितचारुवाणीम् । नानामणिस्थगितहारसुचारुकण्ठीं त्वां साम्प्रतं त्रिपुरसुन्दरि! देवि! वन्दे ॥ २॥ पीनस्तनीं घनभुजां विपुलाब्जहस्तां भृङ्गावलीजितसुशोभितरोमराजिम् । मत्तेभकुम्भकुचभारसुनम्रमद्ध्यां त्वां साम्प्रतं त्रिपुरसुन्दरि! देवि! वन्दे ॥ ३॥ रम्भोज्ज्वलोरुयुगलां मृगराजपत्रा- मिन्द्रादिदेवमकुटोज्ज्वलपादपद्माम् । हेमाम्बरां करधृताञ्चितखड्गवल्लीं त्वां साम्प्रतं त्रिपुरसुन्दरि! देवि! वन्दे ॥ ४॥ मत्तेभवक्त्रजननीं मृडदेहयुक्तां शैलाग्रमद्ध्यनिलयां वरसुन्दराङ्गीम् । कोटीश्वराख्यहृदिसंस्थितपादपद्मां त्वां साम्प्रतं त्रिपुरसुन्दरि! देवि! वन्दे ॥ ५॥ बाले! त्वत्पादयुगलं ध्यात्वा संप्रति निर्मितम् । नवीनं पञ्चरत्नं च धार्यतां चरणद्वये ॥ ६॥ इति श्रीत्रिपुरसुन्दरीपञ्चरत्नस्तोत्रं सम्पूर्णम् ।