अक्षर आकार:

त्रिपुरसुन्दरीमानसपूजनस्तोत्रम्

tripurasundarImAnasapUjanastotram

त्रिपुरसुन्दरीमानसपूजनस्तोत्रम्

श्रीगणेशाय नमः ॥ अमृतजलधिमध्योल्लासिरत्नान्तरीप- प्रसृमरकिरणालीकल्पितोद्यानशोभे । सुरतरुनिकुरम्बस्पृष्टवातायनान्त- श्चलदलिपटलीभिः कॢप्तधूपादिकृत्ये ॥ १॥ मणिमयभवनेऽन्तःप्रौढमाणिक्यशाला- मधिवसति विशाला कापि ते रत्नवेदी । तदुपरिकृतवासं दत्तबालार्कहासं दिशतु शुभमनन्ते देवि सिंहासनं ते ॥ २॥ तदुपरि धृतनानाहेतिभूषाश्मरश्मि- व्यतिकरपुनरुक्तीभूतरम्योत्तरीयाम् । गलदमलदयाम्भःसिक्तभक्तप्ररोहां प्रणवनलिनभृङ्गीं भावये ज्ञानभङ्गीम् ॥ ३॥ द्रुहिणहरिहराणां मौलिसञ्चारशीलं मणिघटितविभूषारश्मिनिर्णेजितं च । निजमतिदृषदाहं भक्तिगङ्गापयोभिः पदयुगममलं ते देवि निर्णेजयामि ॥ ४॥ गरुडमणिमयूखस्पर्धिदूर्वासनाथैः कुशशिशुपरिजुष्टैः स्फीतसिद्धार्थसार्थैः । उपहितसितगन्धैः साक्षतैर्वारिभिस्ते जननि चरणपद्मे पाद्यमाद्यं ददामि ॥ ५॥ फलकुसुमसनाथं नूत्नरत्नप्ररोहं मलयजरसदिग्धं स्निग्धमुग्धाक्षतं च । दरनियमितभक्तानीकवाञ्छाप्रदाने करसरसिरुहेऽस्मिन्नर्ध्यमर्घ्ये ददामि ॥ ६॥ शिशिरकिरणजातीपत्रदेवप्रसून- स्फुटितदलनवैलाक्रान्तकक्कोलगन्धम् । शिशिरममलमेतद्बद्धपीयूवसख्यं सलिलमखिलमातस्त्वं प्रसन्नाऽऽचमेथाः ॥ ७॥ नवमणिहयपीठे प्रेतपद्मस्थितापि प्रपदतरलशोभास्पृष्टसद्विष्टरश्रि । दधिमधुघृतमिश्रं त्रिर्विराजोपनीतं शशिमुखि मधुपर्कं त्वं मुखान्तर्नयेथाः ॥ ८॥ पुनराचमनं कार्यं जगज्जननि सुव्रते । त्वच्छिक्षितेन मार्गेण यतो लोकः प्रवर्तते ॥ ९॥ त्वरितसहचरीभिर्दत्तहस्तावलम्बं चरणनलिनमेतत्पादुकास्थं विधाय । प्रविश विविधशालं स्नानगेहान्तरालं पशुपतिसहितैवाभ्यङ्गमङ्गीकुरुष्व ॥ १०॥ अपि रसिकविगीतं भक्तचित्तानुमत्यै सदयहृदयभावे स्नाहि पञ्चामृतेन । शशिमृगमदमुस्तागारसिद्धार्थचूर्णैः कुसुमजलविमिश्चैः स्वैरमुद्वर्तयाङ्गम् ॥ ११॥ परिजनपरिमृष्टे त्वच्छरीरे न याव- च्छिशिरसलिलधारां कापि चिक्षप तावत् । उदयिनि जनमातः सीत्कृते बद्धभावै- स्त्रिपुरमथनहासैर्व्रीडितं क्रीडितं ते ॥ १२॥ अथ विमलितरत्नस्वर्णदुर्वर्णकुम्भै- स्त्रिभुवनगततीर्थानीतपानीयपूर्णैः । स्नपयति सुरनारीवृन्दमेतत्तथापि प्रणयजलमिदं नः स्नानकृत्यं करोतु ॥ १३॥ विमलधवलचीनप्रच्छदप्रावृताङ्ग्या- स्तव शिरसिरुहेभ्यो निर्हरेऽम्बाम्बुबिन्दुन् । अगरुशकलधूपैर्धूप्यतां चाङ्गमङ्गं सह पशुपतिना त्वं याहि वासोगृहान्तः ॥ १४॥ नवविमलविचित्रे वाससी नूत्नरत्न- द्युतिकृतपुनरुक्तायामसंशोभिनी ते । अथ कुचपरिणाहाच्छादिनीं शुम्भनेत्र- त्रितयभवदसूयां कञ्चुकीमर्पयामि ॥ १५॥ नहनमपि कचनां कङ्कतीभिर्विधाय ग्रथितमणिविभूषां देवि वेणीं करोमि । निहितनवकिरीटालम्बिमुत्तबालताभि- स्ततबहलमयूखां चन्द्रलेखा विदध्याम् ॥ १६॥ अलिकतलविलम्बिस्फीतसीमन्तमुक्ता- सरणिधटितहीरास्पष्टचन्द्रात्ततन्द्रे । विविधमणिगणाङ्कोत्तंससंश्लिष्यदश्मा श्रवणयुगविभूषा देवि तोषाय भूयात् ॥ १७॥ विविधविरचनाभिर्भिन्नभिन्ना विभूषा जनयतु तव कण्ठे देवि कामप्यभिख्याम् । गुणिनमपि गिरीशश्लेपदत्तान्तरायं कठिनकुचयुगाग्रे हारमारोपयामि ॥ १८॥ दरतरलविलम्बिस्वर्णसूत्रान्तगुच्छे जननि तव दिशेतामङ्गदे शर्मकर्म । अथ वलयमणीनां रश्मिसम्भिन्नमुद्रां जनयतु पुनरुक्तां श‍ृङ्खलामन्तरीणाम् ॥ १९॥ मणिमयरशनाधःक्षुद्रघण्टानिनादा मणितगुणनिकानां स्मारकाः स्युः शिवस्य । मरकतमणिजातं मञ्जुमञ्जीरयुग्मं रचयतु शशिमौले रञ्जनं सिञ्जितेन ॥ २०॥ अरुणमणिकृतानामङ्गुलीभूषणानां प्रभवतु पदमुस्रैर्लाक्षया रञ्जितं ते । मृगमदरचितायां पत्रभङ्गीलताया- मनुभवतु दृगन्तो बन्धनं भूतभर्तुः ॥ २१॥ भज जननि हरिद्रां दत्तहारिद्रमुद्रां कुसुमसलिलतैलाक्रान्तकाश्मीरकोशाम् । अथ नसि कुरु मुक्तां दन्तवासोऽनुषक्तां स्मितरुचिपुनरुक्तां नन्दितानेकभक्ताम् ॥ २२॥ सहजनलिननीले खञ्जने खञ्जनानां भवनिगडगतानां मोचने लोचने ते । जननि गिरिशचेतोरञ्जने मन्दमन्दं मसृणिमसृणितैस्तैरञ्जनैरञ्जनेयम् ॥ २३॥ प्रणतिभिरुपनीतं दीप्तलालाटनेत्र- प्रतिभटमिव शम्भोर्मृत्युबाधाविरोधि । शशिन इव मुखेन्दोर्भेदकः कोऽपि धर्मो जनयतु मुदमुच्चैः कुङ्कुमं रङ्कुनेत्रे ॥ २४॥ युगपदुपगतेन्द्रोपेन्द्ररुद्रादिमौलि- स्थलमुकुटविघट्टच्चण्डदण्डाभिघातैः । कृतसरणिरजस्रक्रुद्धदौवारिकैस्ते जननि भव विभूषा प्रेतपद्मासनस्य ॥ २५॥ अहमहमिकयाधः पातुकानां सुराणां प्रपदमपि शरीरे देवि संयोज्य शीघ्रम् । करुणरसमयीनां लोचनान्तश्छटानां कतिपयवलनाभिर्देहि पूजावकाशम् ॥ २६॥ अगरुघुसृणचोरीशीरगोरोचनाभिः मलयजमृगनाभिस्फीतकर्पूरपूरैः । कुसुमसलिलघृष्टैः कल्पयित्वाङ्गरागं पटुतरपटवासैर्वासये तेऽङ्गकानि ॥ २७॥ कमलकुमुदमल्लीमालतीकुन्दजाती- बकुलकनकनीपाशोकचाम्पेयकाद्यैः । मरुबकतुलसीभिः केतकीबिल्वपत्रैः दमनकशतपत्रैरर्चये त्वत्पदाब्जम् ॥ २८॥ हारशेखरवतंसशाटिकाप्रच्छकातुलितकञ्चुकीमुखैः । मण्डपैर्जवनिकाभिरुच्चकैः कौसुमैस्तव मुदं कदम्बये ॥ २९॥ कनकमयहसन्तीकोटिमध्यस्थितानां मृदुपवनधुतानां दीप्तवैश्वानराणाम् । अगरुमुपरि हुत्वा गुग्गुलुं सर्जखण्डान् घृतजतुपरिमिश्रं त्वां शिवे धूपयामि ॥ ३०॥ धूपवर्तितरमन्तरान्तरा गन्धतैलपरिपूर्णदीपिकाः । आवहन्तु तव पार्श्वयोस्तरामम्बिके जवनिकापटश्रियम् ॥ ३१॥ सुरसुरभिजसर्पिःपूरिते रत्नपात्रे हिमकिरणरजोभिर्लोडितां तूलवर्तीम् । तरुणदहनयुक्तामम्ब कृत्वा ददेयं निरयनिरसनाय प्रस्फुरन्तं प्रदीपम् ॥ ३२॥ रजतकनकहीराद्यश्मपात्रेषु मातः विविधरससनाथैश्चोष्यलेह्यप्रपेयैः । उपाहितबहुभक्ष्यैर्व्यञ्जनैश्चारुखाद्यैः जठरदहनतृप्तिं नित्यतृप्ते चरेथाः ॥ ३३॥ परस्परकुतूहलैः कवलदानरूपैः शिवे पुराणतरुणौ युवां चरतमत्र लीलाशितम् । सुगन्धि सलिलं तथा पिबतमेणनाभीरसैः सकेसरनिशाकरै रचयतं करोद्वर्तनम् ॥ ३४॥ पनसकदलजम्बूकर्कटीहारहूरामलक- बदरनिम्बूदुम्बरैर्बीजपूरैः । अमृतलकुचबिल्वैर्दाडिमीनालिकेरै रुचिरुचितफलैस्ते वर्धतां बद्धरागा ॥ ३५॥ शशिकरधवलानां नागवल्लीदलानां क्रमुककदरजातीचन्द्रसंयोगभाजाम् । मृगमदसुरसूनुस्फीतचूर्णावृतानां भजतु जननि रागं त्वन्मुखाम्भोजमेतत् ॥ ३६॥ कनकभरितपृथ्वीं मानुषानन्दमाहु- स्तदुपरि शतकोटिक्रामुकानन्दमाहुः । जननि तव ददेयं दक्षिणां कां तथापि प्रथय मयि दृगन्तं दक्षिणावीक्षणेन ॥ ३७॥ त्रिभुवनकुहरेऽस्मिन्पूरिते वेणुवीणा- पटुपटहकझिल्लीतालघण्टानिनादैः । उरगसुरवधूभिर्गीयमानं समन्तात् जनयतु पदमुच्चैर्देवि नीराजनं ते ॥ ३८॥ प्राणेषु पञ्चसु निधाय षडात्मवृत्ति- वर्तीश्चिदग्निपरिचुम्बितजातशोभाः । नीराजयामि भवतीं भवतीव्रताप- निर्वापहेतुमधुना मधुनाऽलसाक्षि ॥ ३९॥ उरगतुरगहंसकेकिशालूरभृङ्गी- मदकलकलविङ्कीश्येनपारावतानाम् । गतिभिरुपचितोऽयं मौलितः पादमूलं हरतु दुरितजातं देवि कर्पूरदीपः ॥ ४०॥ जय देवि जय देवि जय विश्वाधारे दीनानाथोद्धरणप्रवणे जनसारे । त्वत्पदपद्मे पद्मे विधृतव्यापारे मयि दीने कुरु करुणां करुणामृतपारे ॥ ४१॥ अमृतोदधिमध्यस्थितनवरत्नद्वीपे विष्वग्विकसितसुरतरुनवचम्पकनीपे । नानाकुसुमामोदिनि विधुतागरुधूपे चिन्तामणिभवनेऽङ्गनतिष्ठत्सुरभूपे ॥ ४२॥ माणिक्योज्ज्वलचत्वरसिंहासनशोभे शवपञ्चकमञ्चेऽञ्चितजनलोचनलोभे । सुश्वेतातपवारणचलचामरदम्भे ध्याये भवतीमनिशं कृतजगदारम्भे ॥ ४३॥ दलितजपाकुसुमोपमवसनच्छन्नाङ्गीं तरुणारुणकरुणप्रदकिरणावलिभङ्गीम् । दधतीं रचनां नयने यमुनातारङ्गीं कलयन्तीं कुचकोशे सुषमां नारङ्गीम् ॥ ४४॥ शरपञ्चकबाणासनसृणिपाशोल्लसितां मलयानिलपरिवाददमुखपद्मश्वसिताम् । बालामृतकरमण्डितचूडातटमीहतां ज्योतिस्त्रितयालङ्कृतनयनत्रयसहिताम् ॥ ४५॥ पशुपतियन्त्रणपटुतररोमावलियूपां मन्मथतस्करगुप्तिक्षमनाभीकूपाम् । प्रपदालम्बिशिखामणिवृन्दारकभूपां कमलासनहरिहरमुखचिन्त्यामितरूपाम् ॥ ४६॥ काली बगला बाला तारा भुवनेशी वाराही मातङ्गी कमला वचनेशी । छिन्ना दुर्गा गङ्गा काशी कामेशी त्वत्तो नान्यत्किञ्चित्त्वं चिद्रसपेशी ॥ ४७॥ त्वं भूमिस्त्वं सलिलं त्वं तेजः प्रबलं त्वं वायुस्त्वं व्योम त्वं चित्तं विमलम् । त्वं जीवस्त्वं चेशस्त्वं ब्रह्मास्यमलं सत्यानृतयोरन्यत्त्वत्तः किं सकलम् ॥ ४८॥ कुलकुण्डे त्वं कुरुषे शयने प्रस्वापं स्वाधिष्ठाने मिहिरायुतदीधितितापम् । नीला नाभौ कण्ठे शशिभा हृतपापं वर्षस्यमृतं बिन्दावानन्दावापम् ॥ ४९॥ त्वत्पदपद्मे चित्तं त्रिपुरे मे रमतां तत्रैव प्रतिवेलं मौलिर्मे नमताम् । यातायातक्लेशः सद्यः संशमतां याचे भूयो भूयो भवता मे भवताम् ॥ ५०॥ नृत्यति गायति सुरसं सुरनारीवृन्दे करतालीदानोत्सुकसुरविततानन्दे । नीराजनकाले तव मुनिजननुतवेदे चरणानतसम्राजः परिहृतभवखेदे ॥ ५१॥ मिलदलिपटलीभिः केवलं घ्रातपूर्वः स्फुटितकुसुमगर्भः स्वैरसञ्चारिणीभिः । उपहितपटवासः पुष्पधूलीकदम्बैः प्रभवतु पदपाती देवि पुष्पाञ्जलिस्ते ॥ ५२॥ सकृदपि विनताङ्घ्रिस्त्वां परिक्रम्य मातः भवति मखफलेषु क्षीणलोभं मनो नः । सरसिजमकरन्दास्वादतृप्तो मिलिन्दः क्वचिदपि पिचुमन्दे चित्तवृत्तिं तनोति ॥ ५३॥ जननि खलकपोतन्यायतः पातुकाना- मधिपदकमलं ते मन्दवृन्दारकाणाम् । भवतु नयनयोस्ते गोचरः क्वानतिर्मे न लसति पुनरुच्चेः स्वैरमुद्ग्रीविका चेत् ॥ ५४॥ विमलमुकुरबिम्बं पुण्डरीकातपत्रं शिशिरकरसमाने चामरे चामरेशि । करितुरगकदम्बं शक्तिभिर्दिश्यमानं जनय सफलमञ्चल्लोचनालोचनाभिः ॥ ५५॥ अथ कृतपरिवाराभ्यर्चनं ते समर्प्य स्तुतिभिरनुपमाभिः पावये स्वां रसज्ञाम् । यदपि न रविरश्मिः स्वोपकारं विधत्ते तदपि कमलमालाम्लानहानिं तनोति ॥ ५६॥ श्रवसि विशति यस्य त्वन्मनोरेकवर्णः सकृदपि विधियोगादम्बिके मानवस्य । लघुतरफलमेतद्यत्त्रिवर्गाश्रयत्वं परिचरति पुरस्तात्पूरुषार्थश्चतुर्थः ॥ ५७॥ हृदयकमलमध्ये त्वां समानीय मातः पवनभरितनाडीरन्ध्रमुद्राविधिज्ञाः । दधति परमधन्याः कुण्डलीस्पर्शहृष्य- च्छशिगलदमृतौघप्लावजन्यप्रमोदम् ॥ ५८॥ वदति विधिकलत्रं त्वां शिवे कोऽपि कश्चित् त्रिपुरमथनपुण्यं श्रीपतेः कोऽपि भाग्यम् । प्रकृतिमिति परेऽपि प्रौढविज्ञानमेके निखिलनिगममूलं मन्महे बोधमेव ॥ ५९॥ कदा तव पदाम्बुजस्मरणजातरोमोद्गमः सदाशिवमदालसे जननि मातरित्युद्गिरन् । निलीनकरणक्रियस्त्रिदशगर्वसर्वङ्कषा- मखर्वपदवीं भजे हरिहरादिभिर्भाविताम् ॥ ६०॥ त्वदीयमुखचन्दिरे चलितलोचनेन्दिन्दिरे प्रसादकुलमन्दिरे स्थगितपद्मचन्देन्दिरे । प्रभापटलतन्तुरे ललितहावकेलीपुरे हृतस्मरहरान्तरे धृतमतिर्भवं सन्तरे ॥ ६१॥ त्वदीयं यद्रूपं जनजननि बिन्दुत्रययुतं स्मरन्नन्तर्योगात्त्रिदिवपतितामाप सुरपः । इदं को जानीते क्षणमपि हरार्धं प्रजपतां हसार्धं व्यालम्ब्य प्रतिफलति हंसः परिणतिः ॥ ६२॥ जननि निभृतं यत्ते रूपं वदत्यतिशाश्वतं लसतु हृदि नो दीपप्रायः स कोऽपि हसात्मकः । स्मरणविषये येन स्वैरं स्वरेण विजृम्भता त्रिपुरमथनः प्रापेशत्वं तदात्मकतां गतः ॥ ६३॥ ऋचामाचार्यासि स्तुतिशतजुषां चापि यजुषां महाधाम्नां साम्नां प्रथितयशसोऽथर्वशिरसः । हरिब्रह्मेशाद्याः प्रपदकिरणोत्तंसमुकुटा- स्तवातस्त्वां स्तोतुं जनजननि को वा प्रभवतु ॥ ६४॥ त्रस्यत्खञ्जनगञ्जनव्यसनिनीमुन्माथिनीं माद्यतो जीवञ्जीवकुलस्य भृङ्गपटलीन्यक्कारबद्धव्रताम् । रङ्कूच्छङ्कुविधायिनीं च नलिनश्रीगर्वसर्वङ्कषां कारुण्यामृतवर्षिणीं मयि शिवे दृष्टिं मनाङ्मोटय ॥ ६५॥ रिङ्गद्भृङ्गकदम्बडम्बरपरिष्वङ्गप्रसङ्गाकुल- प्रत्यूषस्फुरमाणपङ्कजवनीसौभाग्यसर्वङ्कषः । दृक्कोणः करुणाङ्कुराङ्क्षिततनुः कोऽप्यद्रिजे मद्वपुः- पान्थत्वे तरसा भवेत्परिकरी धन्यस्तदा स्यां न किम् ॥ ६६॥ समुद्यन्मार्तण्डप्रसृमरकरालीमसृणया पदद्वन्द्वानन्दप्रणयिजनरिङ्गत्करुणया । ललल्लीलाभाजा परशिवपरिष्वङ्गपरया धिया चेतः कालं नय गतनय त्वं क्षणमपि ॥ ६७॥ वेदैरङ्घ्रिभिरुज्ज्वलोपनिषदां वृन्दैरधःकल्पितैः शास्त्राद्यैरपि तिर्यगूर्ध्वकलितैरोङ्कारमार्गेण च । विष्वङ्मात्रनिबन्धनैः परिचितेऽस्मिन्वाङ्मये पञ्जरे कीरी काचन चेतनैकविभवा चित्ते चकास्ताच्चिरम् ॥ ६८॥ तरुणारुणप्रतिमरम्यरुचिं कुसुमेषुचापसृणिपाशकराम् । त्रिगुणात्परां त्रिगुणरूपमयीं भवतीमहर्निशमहं कलये ॥ ६९॥ इति निजमतिवैभवानुरूपामकृत कविर्भुवि सामराजनामा । समयिजनमुदेऽम्बिकासपर्याममृतसुखात्मकताविकासपर्याम् ॥ ७०॥ इति श्रीसत्यानन्दनाथापरनामधेयसामराजदीक्षितविरचिते पूजारत्नवर्ति त्रिपुरसुन्दरीमानसपूजनस्तोत्रं सम्पूर्णम् ।