अक्षर आकार:

श्रीत्रिपुरसुन्दर्यपराधक्षमापणस्तोत्रम्

Shri Tripurasundari Aparadhakshamapana Stotram

श्रीत्रिपुरसुन्दर्यपराधक्षमापणस्तोत्रम्

अथ स्तोत्रं प्रवक्ष्यामि त्रिपुरार्णव ईरितम् । किं किं द्वन्द्वं दनुजदलिनि क्षीयते न श्रुतायां का का सिद्धिः कुलकमलिनि प्राप्यते नार्चितायाम् । का का कीर्तिः सुरवरनुते व्याप्यते न स्तुतायां कं कं भोगं त्वयि न चिनुते चित्तमालम्बितायाम् ॥ १॥ सकुसं सकुसं रम्भ स्वारिता मोक्षविभ्रमे । चिच्चन्द्रमण्डलान्तःस्थे नमस्ते हरवल्लभे ॥ २॥ जगदुद्धारणोद्योगयोगभोगवियोगिनि । स्थितिभावस्थिते देवि नमः स्थाणुप्रियेऽम्बिके ॥ ३॥ भावाभावपृथग्भावानुभावे वेदकर्मणि । चैतन्यपञ्चके देवि नमस्तुभ्यं हराङ्गने ॥ ४॥ सृष्टिस्थित्युपसंहारप्रत्युर्जितपदद्वये । चिद्विश्रान्तिमहासत्तामात्रे मातर्नमोऽस्तु ते ॥ ५॥ वह्न्यर्कशीतकिरणब्रह्मचक्रान्तरोदिते । चतुष्पीठेश्वरि शिवे नमस्ते त्रिपुरेश्वरि ॥ ६॥ चराचरमिदं विश्वं प्रकाशयसि तेजसा । मातृकारूपमास्थाय तस्यै मातर्नमोऽस्तु ते ॥ ७॥ स्मृता भवभयं हंसि पूजिताऽसि शुभङ्करि । स्तुता त्वं वाच्छितं वस्तु ददासि करुणावरे ॥ ८॥ भक्तस्य नित्यपूजायां रतस्य मम साम्प्रतम् । वाग्भवादिमहासिद्धिं देहि त्रिपुरसुन्दरि ॥ ९॥ परमानन्दसन्दोहप्रमोदभरनिर्भरे । दुःखत्रयपरिम्लानवदनं पाहि मां शिवे ॥ १०॥ शब्दब्रह्ममयि यच्च देवि त्रिपुरसुन्दरि । यथाशक्ति जपं पूजां गृहाण मदनुग्रहात् ॥ ११॥ अज्ञानादल्पबुद्धित्वादालस्याद् दुष्टभावतः । ममापराधं कार्पण्यं क्षमस्व परदेवते ॥ १२॥ अज्ञानामसमर्थानामस्वस्थाननिवासिनाम् । अशुद्धं बलमस्माकं शिशूनां हरवल्लभे ॥ १३॥ कृपामयि कृपां भद्रे सकृन्मयि निवेशय । तावदहं कृतार्थोऽस्मि न ते किञ्चन हीयते ॥ १४॥ यन्मया क्रियते कर्म जाग्रत्स्वप्नसुषुप्तिषु । तत् सर्वं तावकी पूजा भूयाद् भूत्यै रमे शिवे ॥ १५॥ द्रव्यहीनं क्रियाहीनं विधिहीनञ्च यद् भवेत् । तत् सर्वं कृपया देवि क्षमस्व परदेवते ॥ १६॥ यन्मयोक्तं महाज्ञानं तन्महत् स्वल्पमेव वा । तावत् सर्वं जगद्धात्रि क्षन्तव्यमयमञ्जलिः ॥ १७॥ इति श्रीत्रिपुरसुन्दरी अपराधक्षमापणस्तोत्रं सम्पूर्णम् । (तत्त्वचिन्तामणि एकोनविंशः प्रकाशः त्रिपुरार्णवोक्तं त्रिपुरसुन्दरीस्तोत्रम्)