श्रीत्रिपुरभैरवीसहस्रनामस्तोत्रम्
अथ श्रीत्रिपुरभैरवीसहस्रनामस्तोत्रम् महाकालभैरव उवाच अथ वक्ष्ये महेशानि देव्या नामसहस्रकम् । यत्प्रसादान्महादेवि चतुर्वर्गफलल्लभेत् ॥ १ ॥ सर्वरोगप्रशमनं सर्वमृत्युविनाशनम् । सर्वसिद्धिकरं स्तोत्रन्नातः परतः स्तवः ॥ २ ॥ नातः परतरा विद्या तीर्त्थन्नातः परं स्मृतम् । यस्यां सर्वं समुत्पन्नय्यस्यामद्यापि तिष्ठति ॥ ३ ॥ क्षयमेष्यति तत्सर्वं लयकाले महेश्वरि । नमामि त्रिपुरान्देवीम्भैरवीं भयमोचिनीम् । सर्वसिद्धिकरीं साक्षान्महापातकनाशिनीम् ॥ ४ ॥ अस्य श्रीत्रिपुरभैरवीसहस्रनामस्तोत्रस्य भगवान् ऋषिः। पङ्क्तिश्छन्दः। आद्या शक्तिः। भगवती त्रिपुरभैरवी देवता । सर्वकामार्त्थसिद्ध्यर्त्थे जपे विनियोगः ॥ ॐ त्रिपुरा परमेशानी योगसिद्धिनिवासिनी । सर्वमन्त्रमयी देवी सर्वसिद्धिप्रवर्त्तिनी ॥ सर्वाधारमयी देवी सर्वसम्पत्प्रदा शुभा । योगिनी योगमाता च योगसिद्धिप्रवर्त्तिनी ॥ योगिध्येया योगमयी योगयोगनिवासिनी । हेला लीला तथा क्रीडा कालरूपप्रवर्त्तिनी ॥ कालमाता कालरात्रिः काली कामलवासिनी । कमला कान्तिरूपा च कामराजेश्वरी क्रिया ॥ कटुः कपटकेशा च कपटा कुलटाकृतिः । कुमुदा चर्च्चिका कान्तिः कालरात्रिप्रिया सदा ॥ घोराकारा घोरतरा धर्माधर्मप्रदा मतिः । घण्टा घर्ग्घरदा घण्टा घण्टानादप्रिया सदा ॥ सूक्ष्मा सूक्ष्मतरा स्थूला अतिस्थूला सदा मतिः । अतिसत्या सत्यवती सत्यसङ्केतवासिनी ॥ क्षमा भीमा तथाऽभीमा भीमनादप्रवर्त्तिनी । भ्रमरूपा भयहरा भयदा भयनाशिनी ॥ श्मशानवासिनी देवी श्मशानालयवासिनी । शवासना शवाहारा शवदेहा शिवाशिवा ॥ कण्ठदेशशवाहारा शवकङ्कणधारिणी । दन्तुरा सुदती सत्या सत्यसङ्केतवासिनी ॥ सत्यदेहा सत्यहारा सत्यवादिनिवासिनी । सत्यालया सत्यसङ्गा सत्यसङ्गरकारिणी ॥ असङ्गा साङ्गरहिता सुसङ्गा सङ्गमोहिनी । मायामतिर्महामाया महामखविलासिनी ॥ गलद्रुधिरधारा च मुखद्वयनिवासिनी । सत्यायासा सत्यसङ्गा सत्यसङ्गतिकारिणी ॥ असङ्गा सङ्गनिरता सुसङ्गा सङ्गवासिनी । सदासत्या महासत्या मांसपाशा सुमांसका ॥ मांसाहारा मांसधरा मांसाशी मांसभक्षका । रक्तपाना रक्तरुचिरा रक्ता रक्तवल्लभा ॥ रक्ताहारा रक्तप्रिया रक्तनिन्दकनाशिनी । रक्तपानप्रिया बाला रक्तदेशा सुरक्तिका ॥ स्वयंभूकुसुमस्था च स्वयंभूकुसुमोत्सुका । स्वयंभूकुसुमाहारा स्वयंभूनिन्दकासना ॥ स्वयंभूपुष्पकप्रीता स्वयंभूपुष्पसम्भवा । स्वयंभूपुष्पहाराढ्या स्वयंभूनिन्दकान्तका ॥ कुण्डगोलविलासी च कुण्डगोलसदामतिः । कुण्डगोलप्रियकरी कुण्डगोलसमुद्भवा ॥ शुक्रात्मिका शुक्रकरा सुशुक्रा च सुशुक्तिका । शुक्रपूजकपूज्या च शुक्रनिन्दकनिन्दका ॥ रक्तमाल्या रक्तपुष्पा रक्तपुष्पकपुष्पका । रक्तचन्दनसिक्ताङ्गी रक्तचन्दननिन्दका ॥ मत्स्या मत्स्यप्रिया मान्या मत्स्यभक्षा महोदया । मत्स्याहारा मत्स्यकामा मत्स्यनिन्दकनाशिनी ॥ केकराक्षी तथा क्रूरा क्रूरसैन्यविनाशिनी । क्रूराङ्गी कुलिशाङ्गी च चक्राङ्गी चक्रसम्भवा ॥ चक्रदेहा चक्रहारा चक्रकङ्कालवासिनी । निम्ननाभी भीतिहरा भयदा भयहारिका ॥ भयप्रदा भयभीता अभीमा भीमनादिनी । सुन्दरी शोभना सत्या क्षेम्या क्षेमकरी तथा ॥ सिन्दूराञ्चितसिन्दूरा सिन्दूरसदृशाकृतिः । रक्तारञ्जितनासा च सुनासा निम्ननासिका ॥ खर्वा लम्बोदरी दीर्ग्घा दीर्ग्घघोणा महाकुचा । कुटिला चञ्चला चण्डी चण्डनादप्रचण्डिका ॥ अतिचण्डा महाचण्डा श्रीचण्डाचण्डवेगिनी । चाण्डाली चण्डिका चण्डशब्दरूपा च चञ्चला ॥ चम्पा चम्पावती चोस्ता तीक्ष्णा तीक्ष्णप्रिया क्षतिः । जलदा जयदा योगा जगदानन्दकारिणी ॥ जगद्वन्द्या जगन्माता जगती जगतक्षमा । जन्या जयजनेत्री च जयिनी जयदा तथा ॥ जननी च जगद्धात्री जयाख्या जयरूपिणी । जगन्माता जगन्मान्या जयश्रीर्ज्जयकारिणी ॥ जयिनी जयमाता च जया च विजया तथा । खड्गिनी खड्गरूपा च सुखड्गा खड्गधारिणी ॥ खड्गरूपा खड्गकरा खड्गिनी खड्गवल्लभा । खड्गदा खड्गभावा च खड्गदेहसमुद्भवा ॥ खड्गा खड्गधरा खेला खड्गिनी खड्गमण्डिनी । शङ्खिनी चापिनी देवी वज्रिणी शुलिनी मतिः ॥ बलिनी भिन्दिपाली च पाशी च अङ्कुशी शरी । धनुषी चटकी चर्मा दन्ती च कर्णनालिकी ॥ मुसली हलरूपा च तूणीरगणवासिनी । तूणालया तूणहरा तूणसम्भवरूपिणी ॥ सुतूणी तूणखेदा च तूणाङ्गी तूणवल्लभा । नानास्त्रधारिणी देवी नानाशस्त्रसमुद्भवा ॥ लाक्षा लक्षहरा लाभा सुलाभा लाभनाशिनी । लाभहारा लाभकरा लाभिनी लाभरूपिणी ॥ धरित्री धनदा धान्या धन्यरूपा धरा धनुः । धुरशब्दा धुरामान्या धराङ्गी धननाशिनी ॥ धनहा धनलाभा च धनलभ्या महाधनुः । अशान्ता शान्तिरूपा च श्वासमार्गनिवासिनी ॥ गगणा गणसेव्या च गणाङ्गावागवल्लभा । गणदा गणहा गम्या गमनागमसुन्दरी ॥ गम्यदा गणनाशी च गदहा गदवर्द्धिनी । स्थैर्या च स्थैर्यनाशा च स्थैर्यान्तकरणी कुला ॥ दात्री कर्त्री प्रिया प्रेमा प्रियदा प्रियवर्द्धिनी । प्रियहा प्रियभव्या च प्रियप्रेमाङ्घ्रिपातनुः ॥ प्रियजा प्रियभव्या च प्रियस्था भवनस्थिता । सुस्थिरा स्थिररूपा च स्थिरदा स्थैर्यबर्हिणी ॥ चञ्चला चपला चोला चपलाङ्गनिवासिनी । गौरी काली तथा छिन्ना माया मान्या हरप्रिया ॥ सुन्दरी त्रिपुरा भव्या त्रिपुरेश्वरवासिनी । त्रिपुरनाशिनी देवी त्रिपुरप्राणहारिणी ॥ भैरवी भैरवस्था च भैरवस्य प्रिया तनुः । भवाङ्गी भैरवाकारा भैरवप्रियवल्लभा ॥ कालदा कालरात्रिश्च कामा कात्यायनी क्रिया । क्रियदा क्रियहा क्लैब्या प्रियप्राणक्रिया तथा ॥ क्रीङ्कारी कमला लक्ष्मीः शक्तिः स्वाहा विभुः प्रभुः । प्रकृतिः पुरुषश्चैव पुरुषापुरुषाकृतिः ॥ परमः पुरुषश्चैव माया नारायणी मतिः । ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥ वाराही चैव चामुण्डा इन्द्राणी हरवल्लभा । भर्ग्गी माहेश्वरी कृष्णा कात्यायन्यपि पूतना ॥ राक्षसी डाकिनी चित्रा विचित्रा विभ्रमा तथा । हाकिनी राकिनी भीता गंधर्वा गंधवाहिनी ॥ केकरी कोटराक्षी च निर्मांसालूकमांसिका । ललज्जिह्वा सुजिह्वा च बालदा बालदायिनी ॥ चन्द्रा चन्द्रप्रभा चान्द्री चन्द्रकांतिषु तत्परा । अमृता मानदा पूषा तुष्टिः पुष्टी रतिर्धृतिः ॥ शशिनी चन्द्रिका कांतिर्ज्ज्योत्स्ना श्रीः प्रीतिरङ्गदा । पूर्णा पूर्णामृता कल्पलतिका कल्पदानदा ॥ सुकल्पा कल्पहस्ता च कल्पवृक्षकरी हनुः । कल्पाख्या कल्पभव्या च कल्पानन्दकवन्दिता ॥ सूचीमुखी प्रेतमुखी उल्कामुखी महासुखी । उग्रमुखी च सुमुखी काकास्या विकटानना ॥ कृकलास्या च सन्ध्यास्या मुकुलीशा रमाकृतिः । नानामुखी च नानास्या नानारूपप्रधारिणी ॥ विश्वार्च्या विश्वमाता च विश्वाख्या विश्वभाविनी । सूर्या सुर्यप्रभा शोभा सूर्यमण्डलसंस्थिता ॥ सूर्यकांतिः सूर्यकरा सूर्याख्या सूर्यभावना । तपिनी तापिनी धूम्रा मरीचिर्ज्ज्वालिनी रुचिः ॥ सुरदा भोगदा विश्वा बोधिनी धारिणी क्षमा । युगदा योगहा योग्या योग्यहा योगवर्द्धिनी ॥ वह्निमण्डलसंस्था च वह्निमण्डलमध्यगा । वह्निमण्डलरूपा च वह्निमण्डलसञ्ज्ञका ॥ वह्नितेजा वह्निरागा वह्निदा वह्निनाशिनी । वह्निक्रिया वह्निभुजा कला वह्नौ स्थिता सदा ॥ धूम्रार्चिता चोज्ज्वलिनी तथा च विस्फुलिङ्गिनी । शूलिनी च सुरूपा च कपिला हव्यवाहिनी ॥ नानातेजस्विनी देवी परब्रह्मकुटुम्बिनी । ज्योतिर्ब्रह्ममयी देवी प्रब्रह्मस्वरूपिणी ॥ परमात्मा परा पुण्या पुण्यदा पुण्यवर्द्धिनी । पुण्यदा पुण्यनाम्नी च पुण्यगंधा प्रियातनुः ॥ पुण्यदेहा पुण्यकरा पुण्यनिन्दकनिन्दका । पुण्यकालकरा पुण्या सुपुण्या पुण्यमालिका ॥ पुण्यखेला पुण्यकेली पुण्यनामसमा पुरा । पुण्यसेव्या पुण्यखेल्या पुराणपुण्यवल्लभा ॥ पुरुषा पुरुषप्राणा पुरुषात्मस्वरूपिणी । पुरुषाङ्गी च पुरुषी पुरुषस्य कला सदा ॥ सुपुष्पा पुष्पकप्राणा पुष्पहा पुष्पवल्लभा । पुष्पप्रिया पुष्पहारा पुष्पवन्दकवन्दका ॥ पुष्पहा पुष्पमाला च पुष्पनिन्दकनाशिनी । नक्षत्रप्राणहन्त्री च नक्षत्रालक्षवन्दका ॥ लक्ष्यमाल्या लक्षहारा लक्षा लक्षस्वरूपिणी । नक्षत्राणी सुनक्षत्रा नक्षत्राहा महोदया ॥ महामाल्या महामान्या महती मातृपूजिता । महामहाकनीया च महाकालेश्वरी महा ॥ महास्या वन्दनीया च महाशब्दनिवासिनी । महाशङ्खेश्वरी मीना मत्स्यगंधा महोदरी ॥ लम्बोदरी च लम्बोष्ठी लम्बनिम्नतनूदरी । लम्बोष्ठी लम्बनासा च लम्बघोणा ललत्सुका ॥ अतिलम्बा महालम्बा सुलम्बा लम्बवाहिनी । लम्बार्हा लम्बशक्तिश्च लम्बस्था लम्बपूर्विका ॥ चतुर्घण्टा महाघण्टा घण्टानादप्रिया सदा । वाद्यप्रिया वाद्यरता सुवाद्या वाद्यनाशिनी ॥ रमा रामा सुबाला च रमणीयस्वभाविनी । सुरम्या रम्यदा रम्भा रम्भोरू रामवल्लभा ॥ कामप्रिया कामकरा कामाङ्गी रमणी रतिः । रतिप्रिया रति रती रतिसेव्या रतिप्रिया ॥ सुरभिः सुरभी शोभा दिक्षोभाऽशुभनाशिनी । सुशोभा च महाशोभाऽतिशोभा प्रेततापिनी ॥ लोभिनी च महालोभा सुलोभा लोभवर्द्धिनी । लोभाङ्गी लोभवन्द्या च लोभाही लोभभासका ॥ लोभप्रिया महालोभा लोभनिन्दकनिन्दका । लोभाङ्गवासिनी गंधविगंधा गंधनाशिनी ॥ गंधाङ्गी गंधपुष्टा च सुगंधा प्रेमगंधिका । दुर्गंधा पूतिगंधा च विगंधा अतिगंधिका ॥ पद्मान्तिका पद्मवहा पद्मप्रियप्रियङ्करी । पद्मनिन्दकनिन्दा च पद्मसन्तोषवाहना ॥ रक्तोत्पलवरा देवी रक्तोत्पलप्रिया सदा । रक्तोत्पलसुगंधा च रक्तोत्पलनिवासिनी ॥ रक्तोत्पलग्रहामाला रक्तोत्पलमनोहरा । रक्तोत्पलसुनेत्रा च रक्तोत्पलस्वरूपधृक् ॥ वैष्णवी विष्णुपूज्या च वैष्णवाङ्गनिवासिनी । विष्णुपूजकपूज्या च वैष्णवे संस्थिता तनुः ॥ नारायणस्य देहस्था नारायणमनोहरा । नारायणस्वरूपा च नारायणमनःस्थिता ॥ नारायणाङ्गसम्भूता नारायणप्रियातनुः । नारी नारायणीगण्या नारायणगृहप्रिया ॥ हरपूज्या हरश्रेष्ठा हरस्य वल्लभा क्षमा । संहारी हरदेहस्था हरपूजनतत्परा ॥ हरदेहसमुद्भूता हराङ्गवासिनीकुहूः । हरपूजकपूज्या च हरवन्दकतत्परा ॥ हरदेहसमुत्पन्ना हरक्रीडासदागतिः । सुगणासङ्गरहिता असङ्गासङ्गनाशिनी ॥ निर्जना विजना दुर्गा दुर्गक्लेशनिवारिणी । दुर्गदेहान्तका दुर्गारूपिणी दुर्गतस्थिका ॥ प्रेतकरा प्रेतप्रिया प्रेतदेहसमुद्भवा । प्रेताङ्गवासिनी प्रेता प्रेतदेहविमर्द्दका ॥ डाकिनी योगिनी कालरात्रिः कालप्रिया सदा । कालरात्रिहरा काला कृष्णदेहा महातनुः ॥ कृष्णाङ्गी कुटिलाङ्गी च वज्राङ्गी वज्ररूपधृक् । नानादेहधरा धन्या षट्चक्रक्रमवासिनी ॥ मूलाधारनिवासी च मूलाधारस्थिता सदा । वायुरूपा महारूपा वायुमार्गनिवासिनी ॥ वायुयुक्ता वायुकरा वायुपूरकपूरका । वायुरूपधरा देवी सुषुम्नामार्गगामिनी ॥ देहस्था देहरूपा च देहध्येया सुदेहिका । नाडीरूपा महीरूपा नाडीस्थाननिवासिनी ॥ इङ्गला पिङ्गला चैव सुषुम्नामध्यवासिनी । सदाशिवप्रियकरी मूलप्रकृतिरूपधृक् ॥ अमृतेशी महाशाली शृङ्गाराङ्गनिवासिनी । उपत्तिस्थितिसंहन्त्री प्रलयापदवासिनी ॥ महाप्रलययुक्ता च सृष्टिसंहारकारिणी । स्वधा स्वाहा हव्यवाहा हव्या हव्यप्रिया सदा ॥ हव्यस्था हव्यभक्षा च हव्यदेहसमुद्भवा । हव्यक्रीडा कामधेनुस्वरूपा रूपसम्भवा ॥ सुरभी नन्दनी पुण्या यज्ञाङ्गी यज्ञसम्भवा । यज्ञस्था यज्ञदेहा च योनिजा योनिवासिनी ॥ अयोनिजा सती सत्या असती कुटिलातनुः । अहल्या गौतमी गम्या विदेहा देहनाशिनी ॥ गांधारी द्रौपदी दूती शिवप्रिया त्रयोदशी । पञ्चदशी पौर्णमासी चतुर्द्दशी च पञ्चमी ॥ षष्ठी च नवमी चैव अष्टमी दशमी तथा । एकादशी द्वादशी च द्वाररूपीभयप्रदा ॥ सङ्क्रान्त्या सामरूपा च कुलीना कुलनाशिनी । कुलकान्ता कृशा कुम्भा कुम्भदेहविवर्द्धिनी ॥ विनीता कुलवत्यर्त्थी अन्तरी चानुगाप्युषा । नदीसागरदा शान्तिः शान्तिरूपा सुशान्तिका ॥ आशा तृष्णा क्षुधा क्षोभ्या क्षोभरूपनिवासिनी । गङ्गासागरगा कान्तिः श्रुतिः स्मृतिर्द्धृतिर्मही ॥ दिवारात्रिः पञ्चभूतदेहा चैव सुदेहका । तण्डुला च्छिन्नमस्ता च नागयज्ञोपवीतिनी ॥ वर्णिनी डाकिनी शक्तिः कुरुकुल्ला सुकुल्लका । प्रत्यङ्गिराऽपरा देवी अजिता जयदायिनी ॥ जया च विजया चैव महिषासुरघातिनी । मधुकैटभहन्त्री च चण्डमुण्डविनाशिनी ॥ निशुम्भशुम्भहननी रक्तबीजक्षयङ्करी । काशी काशीनिवासी च मधुरा पार्वती परा ॥ अपर्णा चण्डिका देवी मृडानी चाम्बिका कला । शुक्ला कृष्णा वर्णवर्णा शरदिन्दुकलाकृतिः ॥ रुक्मिणी राधिका चैव भैरव्याः परिकीर्त्तितम् । अष्टाधिकसहस्रन्तु देव्या नामानुकीर्त्तनात् ॥ महापातकयुक्तोऽपि मुच्यते नात्र संशयः । ब्रह्महत्या सुरापानं स्तेयङ्गुर्वङ्गनागमः ॥ महापातककोट्यस्तु तथा चैवोपपातकाः । स्तोत्रेण भैरवोक्तेन सर्वन्नश्यति तत्क्षणात् ॥ सर्वव्वा श्लोकमेकव्वा पठनात्स्मरणादपि । पठेद्वा पाठयेद्वापि सद्यो मुच्येत बन्धनात् ॥ राजद्वारे रणे दुर्गे सङ्कटे गिरिदुर्ग्गमे । प्रान्तरे पर्वते वापि नौकायाव्वा महेश्वरि ॥ वह्निदुर्गभये प्राप्ते सिंहव्याघ्रभ्याकुले । पठनात्स्मरणान्मर्त्त्यो मुच्यते सर्वसङ्कटात् ॥ अपुत्रो लभते पुत्रन्दरिद्रो धनवान्भवेत् । सर्वशास्त्रपरो विप्रः सर्वयज्ञफलल्लभेत् ॥ अग्निवायुजलस्तम्भङ्गतिस्तम्भविवस्वतः । मारणे द्वेषणे चैव तथोच्चाटे महेश्वरि ॥ गोरोचनाकुङ्कुमेन लिखेत्स्तोत्रमनन्यधीः । गुरुणा वैष्णवैर्वापि सर्वयज्ञफलल्लभेत् ॥ वशीकरणमत्रैव जायन्ते सर्वसिद्धयः । प्रातःकाले शुचिर्ब्भूत्वा मध्याह्ने च निशामुखे ॥ पठेद्वा पाठयेद्वापि सर्वयज्ञफलल्लभेत् । वादी मूको भवेद्दुष्टो राजा च सेवको यथा ॥ आदित्यमङ्गलदिने गुरौ वापि महेश्वरि । गोरोचनाकुङ्कुमेन लिखेत्स्तोत्रमनन्यधीः ॥ गुरुणा वैष्णवैर्वापि सर्वयज्ञफलल्लभेत् । धृत्वा सुवर्णमध्यस्थं सर्वान्कामानवाप्नुयात् ॥ स्त्रीणाव्वामकरे धार्यम्पुमान्दक्षकरे तथा । आदित्यमङ्गलदिने गुरौ वापि महेश्वरि ॥ शनैश्चरे लिखेद्वापि सर्वसिद्धिं लभेद्ध्रुवम् । प्रान्तरे वा श्मशाने वा निशायामर्द्धरात्रके ॥ शून्यागारे च देवेशि लिखेद्यत्नेन साधकः । सिंहराशौ गुरुगते कर्क्कटस्थे दिवाकरे ॥ मीनराशौ गुरुगते लिखेद्यत्नेन साधकः । रजस्वलाभगन्दृष्ट्वा तत्रस्थो विलिखेत्सदा ॥ सुगंधिकुसुमैः शुक्रैः सुगंधिगंधचन्दनैः । मृगनाभिमृगमदैर्विलिखेद्यत्नपूर्वकम् ॥ लिखित्वा च पठित्वा च धारयेच्चाप्यनन्यधीः । कुमारीम्पूजयित्वा च नारीश्चापि प्रपूजयेत् ॥ पूजयित्वा च कुसुमैर्ग्गन्धचन्दनवस्त्रकैः । सिन्दूररक्तकुसुमैः पूजयेद्भक्तियोगतः ॥ अथवा पूजयेद्देवि कुमारीर्द्दशमावधीः । सर्वाभीष्टफलन्तत्र लभते तत्क्षणादपि ॥ नात्र सिद्धाद्यपेक्षास्ति न वा मित्रारिदूषणम् । न विचार्यञ्च देवेशि जपमात्रेण सिद्धिदम् ॥ सर्वदा सर्वकार्येषु षट्साहस्रप्रमाणतः । बलिन्दत्त्वा विधानेन प्रत्यहम्पूजयेच्छिवाम् ॥ स्वयंभूकुसुमैः पुष्पैर्ब्बलिदानन्दिवानिशम् । पूजयेत्पार्वतीन्देवीम्भैरवीन्त्रिपुरात्मिकाम् ॥ ब्राह्मणान्भोजयेन्नित्यन्दशकन्द्वादशन्तथा । अनेन विधिना देवि बालान्नित्यम्प्रपूजयेत् ॥ मासमेकम्पठेद्यस्तु त्रिसन्ध्यव्विधिनामुना । अपुत्रो लभते पुत्रन्निर्द्धनो धनवान्भवेत् ॥ सदा चानेन विधिना तथा मासत्रयेण च । कृतकार्यं भवेद्देवि तथा मासचतुष्टये ॥ दीर्ग्घरोगात्प्रमुच्येत पञ्चमे कविराड्भवेत् । सर्वैश्वर्यं लभेद्देवि मासषट्के तथैव च ॥ सप्तमे खेचरत्वञ्च अष्टमे च वृहद्द्युतिः । नवमे सर्वसिद्धिः स्याद्दशमे लोकपूजितः ॥ एकादशे राजवश्यो द्वादशे तु पुरन्दरः । वारमेकम्पठेद्यस्तु प्राप्नोति पूजने फलम् ॥ समग्रं श्लोकमेकव्वा यः पठेत्प्रयतः शुचिः । स पूजाफलमाप्नोति भैरवेण च भाषितम् ॥ आयुष्मत्प्रीतियोगे च ब्राह्मैन्द्रे च विशेषतः । पञ्चम्याञ्च तथा षष्ठ्याय्यत्र कुत्रापि तिष्ठति ॥ शङ्का न विद्यते तत्र न च मायादिदूषणम् । वारमेकं पठेन्मर्त्त्यो मुच्यते सर्वसङ्कटात् । किमन्यद्बहुना देवि सर्वाभीष्टफलल्लभेत् ॥ ॥ इति श्रीविश्वसारे महाभैरवविरचितं श्रीमत्त्रिपुरभैरवीसहस्रनामस्तोत्रं समाप्तम् ॥The original text is from Muktabodha Indological Research Institute www.muktabodha.org Dyczkowski. Reprint of edition published in 1892. Revision 0 february 9, 2009 Publisher : Shrivenkateshvara press Publication year : 1949