अक्षर आकार:

श्रीत्रिपुरभैरवीध्यानम्

shrItripurabhairavIdhyAnam

श्रीत्रिपुरभैरवीध्यानम्

उद्यद्भानुसहस्रकान्तिमरुणक्षौमां शिरोमालिकाम् रक्तालिप्तपयोधरां जपपटीं विद्यामभीतिं वरम् । हस्ताब्जैर्दधतीं त्रिनेत्रविलसद्वक्त्रारविन्दश्रियम् देवीं बद्धहिमांशुरत्नमकुटां वन्दे समन्दस्मिताम् ॥ इति श्रीत्रिपुरभैरवीध्यानम् ॥