अक्षर आकार:

श्रीत्रिपुरार्णवोक्तवर्गान्तस्तोत्रं

Shri Tripurarnavokta Varganta Stotram

श्रीत्रिपुरार्णवोक्तवर्गान्तस्तोत्रं

क्ष्माम्ब्वग्नीरणखार्केन्दुयष्ट्टप्राययुगाक्षरैः । मातृभैरवगां वन्दे देवीं त्रिपुरभैरवीम् ॥ १॥ कादिवर्गाष्टकाकारसमस्ताष्टकविग्रहाम् । अष्टशक्त्यावृतां वन्दे देवीं त्रिपुरभैरवीम् ॥ २॥ स्वरषोडशकानां तु षट् त्रिंशद्भिः परापरैः । षट् त्रिंशत्तत्वगां वन्दे देवीं त्रिपुरभैरवीम् ॥ ३॥ षट् त्रिंशत्तत्वसंस्थाप्यशिवचन्द्रकलास्वपि । कादितत्त्वान्तरां वन्दे देवीं त्रिपुरभैरवीम् ॥ ४॥ आ ई माया द्वयोपाधिविचित्रेन्दुकलावतीम् । सर्वात्मिकां परां वन्दे देवीं त्रिपुरभैरवीम् ॥ ५॥ षडध्वपिण्डयोनिस्थां मण्डलत्रयकुण्डलीम् । लिङ्गत्रयातिगां वन्दे देवीं त्रिपुरभैरवीम् ॥ ६॥ स्वयम्भूहृदयां बाणभ्रूकामान्तःस्थितेतराम् । प्राच्यां प्रत्यक्चितिं वन्दे देवीं त्रिपुरभैरवीम् ॥ ७॥ अक्षरान्तर्गताशेषनामरूपां क्रियापराम् । शक्तिं विश्वेश्वरीं वन्दे देवीं त्रिपुरभैरवीम् ॥ ८॥ वर्गान्ते पठितव्यं स्यात् स्तोत्रमेतत्समाहितैः । सर्वान् कामानवाप्नोति अन्ते सायुज्यमाप्नुयात् ॥ ९॥ इति श्रीत्रिपुरार्णवोक्तवर्गान्तस्तोत्रं सम्पूर्णम् ।