अक्षर आकार:

त्रिपुरा भारती लघुस्तवः

Tripura Bharati Laghustavah

त्रिपुरा भारती लघुस्तवः

॥ ॐ नमः त्रिपुरायै ॥ ऐन्द्रस्येव शरासनस्य दधती मध्ये ललाटं प्रभां शौक्लीं कान्तिमनुष्णगोरिव शिरस्यातन्वती सर्वतः । एषाऽसौ त्रिपुरा हृदि द्युतिरिवोष्णांशोः सदाहःस्थिता छिन्द्यान्नः सहसा पदैस्त्रिभिरघं ज्योतिर्मयी वाङ्मयी ॥ १॥ या मात्रा त्रपुसीलतातनुलसत्तन्तूत्थितिस्पर्द्धिनी वाग्बीजे प्रथमे स्थिता तव सदा तां मन्महे ते वयम् । शक्तिः कुण्डलिनीति विश्वजननव्यापारबद्धोद्यमा ज्ञात्वेत्थं न पुनः स्पृशन्ति जननीगर्भेऽर्भकत्वं नराः ॥ २॥ दृष्ट्वा सम्भ्रमकारि वस्तु सहसा ऐ ऐ इति व्याहृतं येनाकूतवशादपीह वरदे ! बिन्दुं विनाऽप्यक्षरम् । तस्यापि ध्रुवमेव देवि ! तरसा जाते तवाऽनुग्रहे वाचः सूक्तिसुधारसद्रवमुचो निर्यान्ति वक्त्राम्बुजात् ॥ ३॥ यन्नित्ये तव कामराजमपरं मन्त्राक्षरं निष्कलं तत् सारस्वतमित्यवैति विरलः कश्चिद् बुधश्चेद् भुवि । आख्यानं प्रतिपर्व सत्यतपसो यत्कीर्तयन्तो द्विजाः प्रारम्भे प्रणवास्पदं प्रणयितां नीत्वोच्चरन्ति स्फुटम् ॥ ४॥ यत्सद्यो वचसां प्रवृत्तिकरणे दृष्टप्रभावं बुधै- स्तार्तीयीकमहं नमामि मनसा तद्बीजमिन्दुप्रभम् । अस्त्वौर्वोऽपि सरस्वतीमनुगतो जाड्याम्बुविच्छित्तये गौःशब्दो गिरि वर्तते स नियतं योगं विना सिद्धिदः ॥ ५॥ एकैकं तव देवि ! बीजमनघं सव्यञ्जनाव्यञ्जनं कूटस्थं यदि वा पृथक्क्रमगतं यद्वा स्थितं व्युत्क्रमात् । यं यं काममपेक्ष्य येन विधिना केनापि वा चिन्तितं जप्तं वा सफलीकरोति तरसा तं तं समस्तं नृणाम् ॥ ६॥ वामे पुस्तकधारिणीमभयदां साक्षस्रजं दक्षिणे भक्तेभ्यो वरदानपेशलकरां कर्पूरकुन्दोज्ज्वलाम् । उज्जृम्भाम्बुजपत्रकान्तनयनस्निग्धप्रभालोकिनीं ये त्वामम्ब ! न शीलयन्ति मनसा तेषां कवित्वं कुतः ॥ ७॥ ये त्वां पाण्डुरपुण्डरीकपटलस्पष्टाभिरामप्रभां सिञ्चन्तीममृतद्रवैरिव शिरो ध्यायन्ति मूर्ध्नि स्थिताम् । अश्रान्तं विकटस्फुटाक्षरपदा निर्याति वक्त्राम्बुजात् तेषां भारति भारती सुरसरित्कल्लोललोलोर्म्मिभिः ॥ ८॥ ये सिन्दूरपरागपुञ्जपिहितां त्वत्तेजसा द्यामिमा- मुर्वी चापि विलीनयावकरसप्रस्तारमग्नामिव । पश्यन्ति क्षणमप्यनन्यमनसस्तेषामनङ्गज्वर- क्लान्तास्त्रस्तकुरङ्गशावकदृशो वश्या भवन्ति स्त्रियः ॥ ९॥ चञ्चत्काञ्चनकुण्डलाङ्गदधरामाबद्धकाञ्चीस्रजं ये त्वां चेतसि तद्गते क्षणमपि ध्यायन्ति कृत्वा स्थिरम् । तेषां वेश्मनि विभ्रमादहरहः स्फारी भवन्त्यश्चिराद् माद्यत्कुञ्जरकर्णतालतरलाः स्थैर्यं भजन्ते श्रियः ॥ १०॥ आर्भट्या शशिखण्डमण्डितजटाजूटां नृमुण्डस्रजं बन्धूकप्रसवारुणाम्बरधरां प्रेतासनाध्यासिनीम् । त्वां ध्यायन्ति चतुर्भुजां त्रिनयनामापीनतुङ्गस्तनीं मध्ये निम्नवलित्रयाङ्किततनुं त्वद्रूपसम्पत्तये ॥ ११॥ जातोऽप्यल्पपरिच्छदे क्षितिभृतां सामान्यमात्रे कुले निःशेषावनिचक्रवर्तिपदवीं लब्ध्वा प्रतापोन्नतः । यद्विद्याधरवृन्दवन्दितपदः श्रीवत्सराजोऽभवद् देवि! त्वच्चरणाम्बुजप्रणतिजः सोऽयं प्रसादोदयः ॥ १२॥ चण्डि ! त्वच्चरणाम्बुजार्चनकृते बिल्वीदलोल्लुण्टन- त्रुट्यत्कण्टककोटिभिः परिचयं येषां न जग्मुः कराः । ते दण्डाङ्कुशचक्रचापकुलिशश्रीवत्समत्स्याङ्कितै- र्जायन्तेपृथिवीभुजः कथमिवाम्भोजप्रभैः पाणिभिः ॥ १३॥ विप्राः क्षोणिभुजो विशस्तदितरे क्षीराज्यमध्वैक्षवै स्त्वां देवि ! त्रिपुरे ! परापरकलां सन्तर्प्य पूजाविधौ । यां यां प्रार्थयते मनः स्थिरधियां तेषां त एव ध्रुवं तां तां सिद्धिमवाप्नुवन्ति तरसा विघ्नैरविघ्नीकृता ॥ १४॥ शब्दानां जननी त्वमत्र भुवने वाग्वादिनीत्युच्यसे त्वत्तः केशववासवप्रभृतयोऽप्याविर्भवन्ति ध्रुवम् । लीयन्ते खलु यत्र कल्पविरतौ ब्रह्मादयस्तेऽप्यमी सा त्वं काचिदचिन्त्यरूपमहिमा शक्तिः परा गीयसे ॥ १५॥ देवानां त्रितयं त्रयी हुतभुजां शक्तित्रयं त्रिस्वरा स्त्रैलोक्यं त्रिपदी त्रिपुष्करमथ त्रिब्रह्म वर्णास्त्रयः । यत्किञ्चिज्जगति त्रिधा नियमितं वस्तु त्रिवर्गादिकं तत्सर्वं त्रिपुरेति नाम भगवत्यन्वेति ते तत्त्वतः ॥ १६॥ लक्ष्मीं राजकुले जयां रणमुखे क्षेमङ्करीमध्वनि क्रव्यादद्विपसर्पभाजि शबरीं कान्तारदुर्गे गिरौ । भूतप्रेतपिशाचजृम्भकभये स्मृत्वा महाभैरवीं व्यामोहे त्रिपुरां तरन्ति विपदस्तारां च तोयप्लवे ॥ १७॥ माया कुण्डलिनी क्रिया मधुमती काली कलामालिनी मातङ्गी विजया जया भगवती देवी शिवा शाम्भवी । शक्तिः शङ्करवल्लभा त्रिनयना वाग्वादिनी भैरवी ह्रीङ्कारी त्रिपुरा परापरमयी माता कुमारीत्यसि ॥ १८॥ आ ई पल्लवितैः परस्परयुतैर्द्वि-त्रिक्रमाद्यक्षरैः काद्यैः क्षान्तगतैः स्वरादिभिरथ क्षान्तैश्च तैः सस्वरैः । नामानि त्रिपुरे! भवन्ति खलु यान्यत्यन्तगुह्यानि ते तेभ्यो भैरवपत्नि विंशतिसहस्रेभ्यः परेभ्यो नमः ॥ १९॥ बोद्धव्या निपुणं बुधैस्तुतिरियं कृत्वा मनस्तद्गतं भारत्यास्त्रिपुरेत्यनन्यमनसो यत्राद्यवृत्ते स्फुटम् । एक-द्वि-त्रिपदक्रमेण कथितस्तत्पादसङ्ख्याक्षरै- र्मन्त्रोद्धारविधिर्विशेषसहितः सत्संप्रदायान्वितः ॥ २०॥ सावद्यं निरवद्यमस्तु यदि वा किंवाऽनया चिन्तया नूनं स्तोत्रमिदं पठिष्यति जनो यस्यास्ति भक्तिस्त्वयि । सञ्चिन्त्यापि लघुत्वमात्मनि दृढं सञ्जायमानं हठात् त्वद्भक्त्या मुखरीकृतेन रचितं यस्मान्मयापि ध्रुवम् ॥ २१॥ इति श्रीसोमतिलकसूरिविरचितः श्रीत्रिपुरा भारती लघुस्तवः समाप्तः ।