अक्षर आकार:

त्रैलोक्यमोहनकालीकवचम्

trailokyamohanakAlIkavacham

त्रैलोक्यमोहनकालीकवचम्

श्रीगणेशाय नमः । श्रीदेव्युवाच । देवदेवमहादेव संसारप्रीतिकारकः । सर्वविद्येश्वरीं विद्यां कालिकां कथयाद्भुताम् ॥ १॥ श्रीशिव उवाच । श‍ृणुदेवि महाविद्यां सर्वविद्योत्तमोत्तमाम् । सर्वेश्वरीं महाविद्यां सर्वदेवप्रपूजिताम् ॥ २॥ यस्याः कटाक्षमात्रेण त्रैलोक्यविजयीहरः । बभूवकमलानाथो विभुब्रह्मा प्रजापति ॥ ३॥ शचीस्वामीदेवनाथो यमोपिधर्मनायकः । त्रैलोक्यपावनी गङ्गा कमला श्रीर्हरिप्रिया ॥ ४॥ दिनस्वामिरविश्चन्द्रो निशापतिर्ग्रहेश्वरः । जलाधिपतिर्वरुणः कुबेरोपिधनेश्वरः ॥ ५॥ अव्याहतगतिर्वायुर्गजास्योविघ्ननायकः । वागीश्वरः सुराचार्यो ?? गुरुः कविः ॥ ६॥ एवं हि सर्वदेवाश्च सर्वसिद्धिश्वराः प्रिये । तस्यास्तु कवचं दिव्यं मातृजारं विभावय ॥ ७॥ अस्य श्रीदक्षिणकालीकवचमन्त्रस्य भैरव ऋषिः, अनुष्टुप् छन्दः, श्मशानकाली देवता, धर्मार्थकाममोक्षार्थे जपे विनियोगः । ललाटं पातु चक्रीं मे हरेणाराधितं सदा । नेत्रेमे रक्षतु क्रीं क्रीं विष्णुना सेविता पुरा ॥ ८॥ क्रीं हूँ ह्रीं नासिकां पातु ब्रह्मणा सेविता पुरा । क्रीं क्रीं क्रीं वदनं पातु शक्रेणाराधिता सदा ॥ ९॥ क्रीं स्वाहा श्रवणं पातु यमेनैवप्रपूजिता । क्रीं हूँ ह्रीं स्वाहा रसना गङ्गयासेवितावतु ॥ १०॥ दन्तपङ्क्ति सदा पातु ॐ क्रीं हूँ ह्रीं स्वाहा मम । भुक्तिमुक्ति प्रदा काली श्रिया नित्यं सुसेविता ॥ ११॥ ओष्टाधरं सदा पातु क्रीं क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं मम सर्वसिद्धिप्रदायिका ॥ १२॥ कण्ठं पातु महाकाली ॐ क्रीं ह्रीं मे स्वाहा मम चन्द्रेणाराधिता चतुर्वर्गफलप्रदा ॥ १३॥ हस्तयुग्मं सदा पातु क्रीं क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं स्वाहा सौख्यदा मोक्षदा काली वरुणेनैवसेविता ॥ १४॥ ॐ क्रीं हूँ ह्रीं फट् स्वाहा हृदयं पातु सर्वदा । सर्वसम्पत्प्रदा काली कुबेरेणोपसेविता ॥ १५॥ ऐं ह्रीं ॐ ऐं हूँ फट् स्वाहा हस्तयुग्मं सदावतु । वायुनोपासिताकाली यशोबल सुखप्रदा ॥ १६॥ क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं फट् पातु जठरं मम । सर्वसिद्धिप्रदा काली गणनाथेन सेविता ॥ १७॥ क्रीं दक्षिणे कालिके ह्रीं स्वाहा नाभिं ममावतु । सिद्धिबुद्धिकरी काली गुरुणा सेविता पुरा ॥ १८॥ लिङ्गं पातु सदा हूँ हूँ दक्षिणे कालिके ह्रीं । शुक्रेणराधिता काली त्रैलोक्यजयदायिनी ॥ १९॥ पात्वण्ड कोशं क्रीं क्रीं दक्षिणे कालिके ह्रीं ह्रीं स्वाहा । धरया सेविता विद्या सर्वरत्न प्रदायिनी ॥ २०॥ पातुं गुदं क्रीं क्रीं दक्षिणे कालिके ह्रीं स्वाहा । द्वादशीचमहाविद्या राघवेणार्चिता सदा ॥ २१॥ जानुनी पातु ॐ क्रीं क्रीं दक्षिणे कालिके स्वाहा । एकादशी महाविद्या मेघनादेन सेविता ॥ २२॥ क्रीं क्रीं दक्षिणे कालिके ह्रीं ह्रीं स्वाहा जङ्घेवतु द्वादशीच महाविद्या प्रह्लादेनचसेविता ॥ २३॥ क्रीं हूँ ह्रीं दक्षिणे कालिके क्रीं हूँ ह्रीं तथाङ्गुलीः पातु मे द्वादशीकाली क्षेत्रपालेन सेविता ॥ २४॥ क्रीं हूँ ह्रीं दक्षिणे कालिके क्रीं हूँ ह्रीं स्वाहा च नखान्सर्वात्सदा पातु पञ्चदशीत् ग्रहेश्वरी ॥ २५॥ क्रीं क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं दक्षिणे कालिके क्रीं क्रीं क्रीं मम पृष्ठे सदा पातु षोडशी परमेश्वरी ॥ २६॥ क्रीं क्रीं क्रीं पातु रोमाणि हूँ हूँ रक्षतु वर्मणि । मांसं पातु सदा ह्रीं ह्रीं रक्तं दक्षिणे कालिके ॥ २७॥ क्रीं क्रीं क्रीं पातु मे अस्थिमज्जां हूँ हूँ सदावतु । ह्रीं ह्रीं शुक्रं सदा पातु रंध्रं स्वाहा ममावतु ॥ २८॥ द्वाविंशत्यक्षरी विद्या सर्वलोकेषु दुर्लभा । महाविद्येश्वरी विद्या सर्वतन्त्रेषु गोपिता ॥ २९॥ सूर्यवंशेन सोमेन रामेणजग्निना । जयन्ते न सुमन्ते न बलिनानारदेन च ॥ ३०॥ बिभीषणेनबाणेन भृगुणाकश्यपेन च । कपिलेन वसिष्ठेन धौम्येन त्रिपुरेण च ॥ ३१॥ मार्कण्डयेन ध्रुवेणैवद्रोणेन सत्यभामया । ऋष्यश‍ृङ्गेन कर्णेन भारद्वाजेन संयुता ॥ ३२॥ सर्वेणाराधिता विद्या जरामृत्यु विनाशिनी । पूर्णविद्या महाकाली विद्याराज्ञी प्रकीर्तिता ॥ ३३॥ काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी । विप्रचित्ता तथोग्रप्रभा दीप्ता घनत्विषा ॥ ३४॥ नीला घना बलाका च मात्रा मुद्रामितापि च । एताः सर्वा खड्गधरा मुण्डमाला विभूषणा ॥ ३५॥ हूँ हूँकारेट्टहासेन सर्वत्र पातु मां सदा । ब्रह्माणी पातु मां पूर्वे आग्नेया वैष्णवी तथा ॥ ३६॥ माहेश्वरी पातु याम्ये चामुण्डा नैऋते सदा । कौमारी वारुणे पातु वायव्ये अपराजिता ॥ ३७॥ वाराहीचोत्तरे पातु ईशान्यां नारसिंहिका । अध ऊर्ध्वे पातु काली पार्श्वेपृष्ठे च कालिका ॥ ३८॥ जलेस्थले च पाताले शयने भोजनेगृहे राजस्थाने कानने च विवादे मरणे रणे ॥ ३९॥ पर्वते प्रान्तरे शून्ये पातु मां कालिका सदा । शवासने श्मशाने वा शून्यागारे चतुष्पथे ॥ ४०॥ यत्र यत्र भय प्राप्तिः सर्वत्र पातु कालिका । नक्षत्र तिथि वारेषु योगं करणयोरपि ॥ ४१॥ मासे पक्षे वत्सरे च दण्डेयामेनिमेषके । दिवारात्रौ सदा पातु सन्ध्ययोः पातु कालिका ॥ ४२॥ सर्वत्र कालिका पातु कालिका पातु सर्वदा । सकृद्यः श‍ृणुयानित्यं कवचं शिव निर्मितम् ॥ ४३॥ सर्वपापं परित्यज्य गच्छेछिवस्यचालयम् । त्रैलोक्यमोहनं दिव्यं देवतानां सुदुर्लभम् ॥ ४४॥ यः पठेत्साधकाधीशः सर्वकर्म जपान्वितः । सर्वधर्मेद्भवद्धर्मी सर्वविद्येश्वरेश्वरः ॥ ४५॥ कुबेर इव वित्ताढ्यः सुवाणी कोकिलस्वरः । कवित्वे व्यास सदृशो गणेशवच्छतीधरः ॥ ४६॥ कामदेव समोरूपे वायुतुल्यः पराक्रमे । महेश इव योगीन्द्र ऐश्वर्ये सुरनायकः ॥ ४७॥ बृहस्पतिसमोधीमां जरामृत्युविवर्जितः । सर्वज्ञः सर्वदर्शी च निःपापः सकलप्रियः ॥ ४८॥ अव्याहतगतिः शान्तो भार्यापुत्र समन्वितः । यो देहे कुरुते नित्यं कवचं देवदुर्लभम् ॥ ४९॥ न शोकोनभय क्लेशो न रोगोन पराजयः । धनहानिर्विषादोय परिवारोभवेन्नहि ॥ ५०॥ सङ्ग्रामेषु जयेच्छत्रून्यथावह्निर्दहेद्वनं । ब्रह्मास्त्रादिनिवास्त्राणि पशवः कण्टकादमः ॥ ५१॥ तस्यदेहं न भिन्दति वज्राधिक भवेद्वपुः । ग्रहभूतपिशाश्च यक्ष राक्षस किन्नराः ॥ ५२॥ सर्वे दूरात्पलायन्ते हिंसको नश्यति ध्रुवम् । तद्देहं न दहेदग्नि न तापयतिभास्करः ॥ ५३॥ न शोषयति वातोपि न क्लेदं कुरुतेपयः । पुत्रवत्पाल्यते काल्या न हिमं कुरु ते शशी ॥ ५४॥ जलसूर्येन्दुवातानां स्तम्भकेनात्र संशयः । बहु किं कथयिष्यामि सर्वसिद्धिमुपा लभेत् ॥ ५५॥ राज्यं भोगं सुखं लब्ध्वा स्वेच्छयापि शिवो भवेत् । मोहन स्तम्भनाकर्षमारणोच्चाटनं भवेत् ॥ ५६॥ काकवन्द्या च यानारी वन्द्या वा मृतपुत्रिका । कण्ठे वा दक्षिणे बाहौ लिखित्वा धारयेद्यदि ॥ ५७॥ तदापुत्रो भवेत्सत्यं चिरायुः पण्डितः शुचिः । स्वामिनो वल्लभासापि धनधान्य सुतान्विता ॥ ५८॥ इदं कवचमज्ञात्वा यो जपेत्कालिकामनुं । ध्यानेनकोटिजप्तेन तस्य विद्या न सिद्ध्यति ॥ ५९॥ पदे पदे भवेद्दुखं लोकानानिन्दतो ध्रुवम् । इहलोके भवेद्दुःखी परे च नरकं व्रजेत् ॥ ६०॥ गुरुं मनुं समं ज्ञात्वा यः पठेत्कवचोत्तमम् । तस्य विद्या भवेत्सिद्धा सत्यं सत्यं वरानने ॥ ६१॥ य इदं कवचं दिव्यं प्रकाश्य शिवहाभवेत् । भक्ताय श्रेष्ठपुत्राय साधकाय य प्रकाशयेत् ॥ ६२॥ ॥ इति श्रीरुद्रयामले देवीशङ्कर संवादे त्रैलोक्यमोहनं नाम कवचं सम्पूर्णम् ॥