अक्षर आकार:

श्रीतारातकारादिसहस्रनामस्तोत्रम्

Shri Tara Takaradi Sahasranamastotram

श्रीतारातकारादिसहस्रनामस्तोत्रम्

अथ श्रीतारातकारादिसहस्रनामस्तोत्रम् । वसिष्ठ उवाच - नाम्नां सहस्रन्ताराया मुखाम्भोजाद्विनिर्गतम् । मन्त्रसिद्धिकरम्प्रोक्तन्तन्मे वद पितामह ॥ १॥ ब्रह्मोवाच - श‍ृणु वत्स प्रवक्ष्यामि रहस्यं सर्वसिद्धिदम् । यस्योपदेशमात्रेण तव सिद्धिर्ब्भविष्यति ॥ २॥ महाप्रलयकालादौ नष्टे स्थावरजङ्गमे । महाकारं समाकर्ण्य कृपया संहृतन्तनौ ॥ ३॥ नाम्ना तेन महातारा ख्याता सा ब्रह्मरूपिणी । महाशूलत्रयङ्कृत्वा तत्र चैकाकिनी स्थिता ॥ ४॥ पुनः सृष्टेश्चिकीर्षाभूद्दिव्यसाम्राज्यसञ्ज्ञकम् । नाम्नां सहस्रमस्यास्तु तकाराद्यम्मया स्मृतम् ॥ ५॥ तत्प्रभावेण ब्रह्माण्डन्निर्म्मितं सुदृढम्महत् । आविर्भूता वयन्तत्र यन्त्रैस्तस्याः पुरा द्विज ॥ ६॥ स्वस्य कार्यार्त्थिनस्तत्र भ्रान्ता भूम्याय्यथा वयम् । तयोपदिष्टाः कृपया भवामस्सृष्टिकारकाः ॥ ७॥ तस्याः प्रसादाद्विप्रेन्द्र त्त्रयो ब्रह्माण्डनायकाः । अन्ये सुरगणास्सर्वे तस्याः पादप्रसेवकाः ॥ ८॥ पठनाद्धारणात्सृष्टेः कर्त्ताहम्पालको हरिः । तत्त्वाक्षरोपदेशेन संहर्त्ता शङ्करस्स्वयम् ॥ ९॥ ऋषिच्छन्दादिकध्यानम्मूलवत्परिकीर्त्तितम् । नियोगोमात्रसिद्धौ च पुरुषार्त्थचतुष्टये ॥ १०॥ तारा तारादिपञ्चार्णा तारान्यावेदवीर्यजा । तारातारहितावर्णा ताराद्या ताररूपिणी ॥ ११॥ तारारात्रिसमुत्पन्ना तारारात्रिवरोद्यता । तारारात्रिजपासक्ता तारारात्रिस्वरूपिणी ॥ १२॥ ताराराज्ञीस्वसन्तुष्टा ताराराज्ञीवरप्रदा । ताराराज्ञीस्वरूपा च ताराराज्ञीप्रसिद्धिदा ॥ १३॥ ताराहृत्पङ्कजागारा ताराहृत्पङ्कजापरा । ताराहृत्पङ्कजाधारा ताराहृत्पङ्कजा तथा ॥ १४॥ तारेश्वरी च ताराभा तारागणस्वरूपिणी । तारागणसमाकीर्णा तारागणनिषेविता ॥ १५॥ तारा तारान्विता तारा रत्नान्वितविभूषणा । तारागणरणासन्ना ताराकृत्यप्रपूजिता ॥ १६॥ तारागणकृताहारा तारागणकृताश्रया । तारागणकृतागारा तारागणनतत्परा ॥ १७॥ तारागुणगणाकीर्णा तारागुणगणप्रदा । तारागुणगणासक्ता तारागुणगणालया ॥ १८॥ तारेश्वरी तारपूज्या ताराजप्या तु तारणा । तारमुख्या तु ताराख्या तारदक्षा तु तारिणी ॥ १९॥ तारागम्या तु तारस्था तारामृततरङ्गिणी । तारभव्या तु तारार्णा तारहव्या तु तारिणी ॥ २०॥ तारका तारकान्तस्स्था तारकाराशिभूषणा । तारकाहारशोभाढ्या तारकावेष्टिताङ्गणा ॥ २१॥ तारकाहंसकाकीर्णा तारकाकृतभूषणा । तारकाङ्गदशोभाङ्गी तारकाश्रितकङ्कणा ॥ २२॥ तारकाञ्चितकाञ्ची च तारकान्वितभक्षणा । तारकाचित्रवसना तारकासनमण्डला ॥ २३॥ तारकाकीर्णमुकुटा तारकाश्रितकुण्डला । तारकान्वितताटङ्कयुग्मगण्डस्थलोज्ज्वला ॥ २४॥ तारकाश्रितपादाब्जा तारकावरदायिका । तारकादत्तहृदया तारकाञ्चितसायका ॥ २५॥ तारकान्यासकुशला तारकान्यासविग्रहा । तारकान्याससन्तुष्टा तारकान्याससिद्धिदा ॥ २६॥ तारकान्यासनिलया तारकान्यासपूजिता । तारकान्याससंहृष्टा तारकान्याससिद्धिदा ॥ २७॥ तारकान्याससम्म्मग्ना तारकान्यासवासिनी । तारकान्याससम्पूर्णमन्त्रसिद्धिविधायिनी ॥ २८॥ तारकोपासकप्राणा तारकोपासकप्रिया । तारकोपासकासाध्या तारकोपासकेष्टदा ॥ २९॥ तारकोपासकासक्ता तारकोपासकार्त्थिनी । तारकोपासकाराध्या तारकोपासकाश्रया ॥ ३०॥ तारकासुरसन्तुष्टा तारकासुरपूजिता । तारकासुरनिर्माणकर्त्री तारकवन्दिता ॥ ३१॥ तारकासुरसम्मान्या तारकासुरमानदा । तारकासुरसंसिद्धा तारकासुरदेवता ॥ ३२॥ तारकासुरदेहस्था तारकासुरस्वर्गदा । तारकासुरसंसृष्टा तारकासुरगर्वदा ॥ ३३॥ तारकासुरसंहन्त्री तारकासुरमर्द्दिनी । तारकासुरसङ्ग्रामनर्त्तकी तारकापहा ॥ ३४॥ तारकासुरसङ्ग्रामकारिणी तारकारिभृत् । तारकासुरसङ्ग्रामकबन्धवृन्दवन्दिता ॥ ३५॥ तारकारिप्रसूतारिकारिमाता तु कारिका । तारकारीमनोहारीवस्त्रभूषानुशासिका ॥ ३६॥ तारकारीविधात्री च तारकारिनिषेविता । तारकारीवचस्तुष्टा तारकारीसुशिक्षिता ॥ ३७॥ तारकारीसुसन्तुष्टा तारकारिविभूषिता । तारकारिकृतोत्सङ्गी तारकारिप्रहर्षदा ॥ ३८॥ तमः सम्पूर्णसर्वाङ्गी तमोलिप्तकलेबरा । तमोव्याप्तस्थलासङ्गा तमः पटलसन्निभा ॥ ३९॥ तमोहन्त्री तमः कर्त्री तमःसञ्चारकारिणी । तमोगात्री तमोदात्री तमः पात्री तमोपहा ॥ ४०॥ तमोराशिपूर्णराशिस्तमोराशिविनाशिनी । तमोराशिकृतध्वंसी तमोराशिभयङ्करी ॥ ४१॥ तमोगुणप्रसन्नास्या तमोगुणसुसिद्धिदा । तमोगुणोक्तमार्गस्था तमोगुणविराजिता ॥ ४२॥ तमोगुणस्तुतिपरा तमोगुणविवर्धिनी । तमोगुणाश्रितपरा तमोगुणविनाशिनी ॥ ४३॥ तमोगुणाक्षयकरी तमोगुणकलेवरा । तमोगुणध्वंसतुष्टा तमः पारेप्रतिष्ठिता ॥ ४४॥ तमोभवभवप्रीता तमोभवभवप्रिया । तमोभवभवाश्रद्धा तमोभवभवाश्रया ॥ ४५॥ तमोभवभवप्राणा तमोभवभवार्चिता । तमोभवभवप्रीत्यालीढकुम्भस्थलस्थिता ॥ ४६॥ तपस्विवृन्दसन्तुष्टा तपस्विवृन्दपुष्टिदा । तपस्विवृन्दसंस्तुत्या तपस्विवृन्दवन्दिता ॥ ४७॥ तपस्विवृन्दसम्पन्ना तपस्विवृन्दहर्षदा । तपस्विवृन्दसम्पूज्या तपस्विवृन्दभूषिता ॥ ४८॥ तपस्विचित्ततल्पस्था तपस्विचित्तमध्यगा । तपस्विचित्तचित्तार्हा तपस्विचित्तहारिणी ॥ ४९॥ तपस्विकल्पवल्ल्याभा तपस्विकल्पपादपी । तपस्विकामधेनुश्च तपस्विकामपूर्त्तिदा ॥ ५०॥ तपस्वित्राणनिरता तपस्विगृहसंस्थिता । तपस्विगृहराजश्रीस्तपस्विराज्यदायिका ॥ ५१॥ तपस्विमानसाराध्या तपस्विमानदायिका । तपस्वितापसंहर्त्त्री तपस्वितापशान्तिकृत् ॥ ५२॥ तपस्विसिद्धिविद्या च तपस्विमन्त्रसिद्धिकृत् । तपस्विमन्त्रतन्त्रेशी तपस्विमन्त्ररूपिणी ॥ ५३॥ तपस्विमन्त्रनिपुणा तपस्विकर्मकारिणी । तपस्विकर्मसम्भूता तपस्विकर्मसाक्षिणी ॥ ५४॥ तपस्सेव्या तपोभव्या तपोभाव्या तपस्विनी । तपोवश्या तपोगम्या तपोगेहनिवासिनी ॥ ५५॥ तपोधन्या तपोमान्या तपः कन्या तपोवृता । तपस्तथ्या तपोगोप्या तपोजप्या तपोनृता ॥ ५६॥ तपस्साध्या तपोराध्या तपोवन्द्या तपोमयी । तपस्सन्ध्या तपोवन्ध्या तपस्सान्निध्यकारिणी ॥ ५७॥ तपोध्येया तपोगेया तपस्तप्ता तपोबला । तपोलेया तपोदेया तपस्तत्त्वफलप्रदा ॥ ५८॥ तपोविघ्नवरघ्नी च तपोविघ्नविनाशिनी । तपोविघ्नचयध्वंसी तपोविघ्नभयङ्करी ॥ ५९॥ तपोभूमिवरप्राणा तपोभूमिपतिस्तुता । तपोभूमिपतिध्येया तपोभूमिपतीष्टदा ॥ ६०॥ तपोवनकुरङ्गस्था तपोवनविनाशिनी । तपोवनगतिप्रीता तपोवनविहारिणी ॥ ६१॥ तपोवनफलासक्ता तपोवनफलप्रदा । तपोवनसुसाध्या च तपोवनसुसिद्धिदा ॥ ६२॥ तपोवनसुसेव्या च तपोवननिवासिनी । तपोधनसुसंसेव्या तपोधनसुसाधिता ॥ ६३॥ तपोधनसुसँल्लीना तपोधनमनोमयी । तपोधननमस्कारा तपोधनविमुक्तिदा ॥ ६४॥ तपोधनधनासाध्या तपोधनधनात्मिका । तपोधनधनाराध्या तपोधनफलप्रदा ॥ ६५॥ तपोधनधनाढ्या च तपोधनधनेश्वरी । तपोधनधनप्रीता तपोधनधनालया ॥ ६६॥ तपोधनजनाकीर्णा तपोधनजनाश्रया । तपोधनजनाराध्या तपोधनजनप्रसूः ॥ ६७॥ तपोधनजनप्राणा तपोधनजनेष्टदा । तपोधनजनासाध्या तपोधनजनेश्वरी ॥ ६८॥ तरुणासृक्प्रपानार्ता तरुणासृक्प्रतर्पिता । तरुणासृक्समुद्रस्था तरुणासृक्प्रहर्षदा ॥ ६९॥ तरुणासृक्सुसन्तुष्टा तरुणासृग्विलेपिता । तरुणासृङ्नदीप्राणा तरुणासृग्विभूषणा ॥ ७०॥ तरुणैणबलिप्रीता तरुणैणबलिप्रिया । तरुणैणवलिप्राणा तरुणैणबलीष्टदा ॥ ७१॥ तरुणाजबलिप्रीता तरुणाजबलिप्रिया । तरुणाजबलिघ्राणा तरुणाजबलिप्रभुक् ॥ ७२॥ तरुणादित्यसङ्काशा तरुणादित्यविग्रहा । तरुणादित्यरुचिरा तरुणादित्यनिर्म्मला ॥ ७३॥ तरुणादित्यनिलया तरुणादित्यमण्डला । तरुणादित्यललिता तरुणादित्यकुण्डला ॥ ७४॥ तरुणार्कसमज्योत्स्ना तरुणार्कसमप्रभा । तरुणार्कप्रतीकारा तरुणार्कप्रवर्द्धिता ॥ ७५॥ तरुणा तरुणानेत्रा च तरुणा तरुणलोचना । तरुणा तरुणनेत्रा च तरुणा तरुणभूषणा ॥ ७६॥ तरुणीदत्तसङ्केता तरुणीदत्तभूषणा । तरुणीगणसन्तुष्टा तरुणीतरुणीमणिः ॥ ७७॥ तरुणीमणिसंसेव्या तरुणीमणिवन्दिता । तरुणीमणिसन्तुष्टा तरुणीमणिपूजिता ॥ ७८॥ तरुणीवृन्दसँवाद्या तरुणीवृन्दवन्दिता । तरुणीवृन्दसंस्तुत्या तरुणीवृन्दमानदा ॥ ७९॥ तरुणीवृन्दमध्यस्था तरुणीवृन्दवेष्टिता । तरुणीवृन्दसम्प्रीता तरुणीवृन्दभूषिता ॥ ८०॥ तरुणीजपसंसिद्धा तरुणीजपमोक्षदा । तरुणीपूजकासक्ता तरुणीपूजकार्त्थिनी ॥ ८१॥ तरुणीपूजकश्रीदा तरुणीपूजकार्त्तिहा । तरुणीपूजकप्राणा तरुणीनिन्दकार्त्तिदा ॥ ८२॥ तरुणीकोटिनिलया तरुणीकोटिविग्रहा । तरुणीकोटिमध्यस्था तरुणीकोटिवेष्टिता ॥ ८३॥ तरुणीकोटिदुस्साध्या तरुणीकोटिविग्रहा । तरुणीकोटिरुचिरा तरुणीतरुणीश्वरी ॥ ८४॥ तरुणीमणिहाराढ्या तरुणीमणिकुण्डला । तरुणीमणिसन्तुष्टा तरुणीमणिमण्डिता ॥ ८५॥ तरुणीसरणीप्रीता तरुणीसरणीरता । तरुणीसरणीस्थाना तरुणीसरणीरता ॥ ८६॥ तरणीमण्डलश्रीदा तरणीमण्डलेश्वरी । तरणीमण्डलश्रद्धा तरणीमण्डलस्थिता ॥ ८७॥ तरणीमण्डलार्ग्घाढ्या तरणीमण्डलार्चिता । तरणीमण्डलध्येया तरणीभवसागरा ॥ ८८॥ तरणीकारणासक्ता तरणीतक्षकार्चिता । तरणीतक्षकश्रीदा तरणीतक्षकार्त्थिनी ॥ ८९॥ तरणीतरणशीला च तरीतरणतारिणी । तरीतरणस/व्वेद्या तरीतरणकारिणी ॥ ९०॥ तरुरूपा तरूपस्था तरुस्तरुलतामयी । तरुरूपा तरुस्था च तरुमध्यनिवासिनी ॥ ९१॥ तप्तकाञ्चनगेहस्था तप्तकाञ्चनभूमिका । तप्तकाञ्चनप्राकारा तप्तकाञ्चनपादुका ॥ ९२॥ तप्तकाञ्चनदीप्ताङ्गी तप्तकाञ्चनसन्निभा । तप्तकाञ्चनगौराङ्गी तप्तकाञ्चनमञ्चगा ॥ ९३॥ तप्तकाञ्चनवस्त्राढ्या तप्तकाञ्चनरूपिणी । तप्तकाञ्चनमध्यस्था तप्तकाञ्चनकारिणी ॥ ९४॥ तप्तकाञ्चनमासार्च्च्या तप्तकाञ्चनपात्रभुक् । तप्तकाञ्चनशैलस्था तप्तकाञ्चनकुण्डला ॥ ९५॥ तप्तकाञ्चनक्षत्त्राढ्या तप्तकाञ्चनदण्डधृक् । तप्तकाञ्चनभूषाढ्या तप्तकाञ्चनदानदा ॥ ९६॥ तप्तकाञ्चनदेशेशी तप्तकाञ्चनचापधृक् । तप्तकाञ्चनतूणाढ्या तप्तकाञ्चनबाणभृत् ॥ ९७॥ तलातलविधात्री च तलातलविधायिनी । तलातलस्वरूपेशी तलातलविहारिणी ॥ ९८॥ तलातलजनासाध्या तलातलजनेश्वरी । तलातलजनाराध्या तलातलजनार्थदा ॥ ९९॥ तलातलजयाभाक्षी तलातलजचञ्चला । तलातलजरत्नाढ्या तलातलजदेवता ॥ १००॥ तटिनीस्थानरसिका तटिनी तटवासिनी । तटिनी तटिनीतीरगामिनी तटिनीप्रिया ॥ १०१॥ तटिनीप्लवनप्रीता तटिनीप्लवनोद्यता । तटिनीप्लवनश्लाघ्या तटिनीप्लवनार्त्थदा ॥ १०२॥ तटलास्था तटस्थाना तटेशी तटवासिनी । तटपूज्या तटाराध्या तटरोममुखार्त्थिनी ॥ १०३॥ तटजा तटरूपा च तटस्था तटचञ्चला । तटसन्निधिगेहस्थासहिता तटशायिनी ॥ १०४॥ तरङ्गिणी तरङ्गाभा तरङ्गायतलोचना । तरङ्गसमदुर्द्धर्षा तरङ्गसमचञ्चला ॥ १०५॥ तरङ्गसमदीर्घाङ्गी तरङ्गसमवर्द्धिता । तरङ्गसमसँव्वृद्धिस्तरङ्गसमनिर्मला ॥ १०६॥ तडागमध्यनिलया तडागमध्यासम्भवा । गडागरचनश्लाघ्या तडागरचनोद्यता ॥ १०७॥ तडागकुसुदामोदी तडागेशी तडागिनी । तडागनीरसंस्नाता तडागनीरनिर्मला ॥ १०८॥ तडागकमलागारा तडागकमलालया । तडागकमलान्तस्स्था तडागकमलोद्यता ॥ १०९॥ तडागकमलाङ्गी च तडागकमलानना । तडागकमलप्राणा तडागकमलेक्षणा ॥ ११०॥ तडागरक्तपद्मस्था तडागश्वेतपद्मगा । तडागनीलपद्माभा तडागनीलपद्मभृत् ॥ १११॥ तनुस्तनुगता तन्वी तन्वङ्गी तनुधारिणी । तनुरूपा तनुगता तनुधृक् तनुरूपिणी ॥ ११२॥ तनुस्था तनुमध्याङ्गी तनुकृत्तनुमङ्गला । तनुसेव्या तु तनुजा तनुजातनुसम्भवा ॥ ११३॥ तनुभृत्तनुसम्भूता तनुदातनुकारिणी । तनुभृत्तनुसंहन्त्री तनुसञ्चारकारिणी ॥ ११४॥ तथ्यवाक् तथ्यवचना तथ्यकृत् तथ्यवादिनी । तथ्यभृत्तथ्यचरिता तथ्यधर्मानुवर्त्तिनी ॥ ११५॥ तथ्यभुक् तथ्यगमना तथ्यभक्तिवरप्रदा । तथ्यनीचेश्वरी तथ्यचित्ताचाराशुसिद्धिदा ॥ ११६॥ तर्क्यातर्क्यस्वभावा च तर्कदाया तु तर्ककृत् । तर्काध्यापनमध्यस्था तर्काध्यापनकारिणी ॥ ११७॥ तर्काध्यापनसन्तुष्टा तर्काध्यापनरूपिणी । तर्काध्यापनसंशीला तर्कार्त्थप्रतिपादिता ॥ ११८॥ तर्काध्यापनसन्तृप्ता तर्कार्त्थप्रतिपादिका । तर्कवादाश्रितपदा तर्कवादविवर्द्धिनी ॥ ११९॥ तर्कवादैकनिपुणा तर्कवादप्रचारिणी । तमालदलश्यामाङ्गी तमालदलमालिनी ॥ १२०॥ तमालवनसङ्केता तमालपुष्पपूजिता । तगरी तगराराद्ध्या तगरार्चितपादुका ॥ १२१॥ तगरस्रक्सुसन्तुष्टा तगरस्रग्विराजिता । तगराहुतिसन्तुष्टा तगराहुतिकीर्तिदा ॥ १२२॥ तगराहुतिसंसिद्धा तगराहुतिमानदा । तडित्तडिल्लताकारा तडिच्चञ्चललोचना ॥ १२३॥ तडिल्लता तडित्तन्वी तडिद्दीप्ता तडित्प्रभा । तद्रूपा तत्स्वरूपेशी तन्मयी तत्त्वरूपिणी ॥ १२४॥ तत्स्थानदाननिरता तत्कर्मफलदायिनी । तत्त्वकृत् तत्त्वदा तत्त्वा तत्त्ववित् तत्त्वतर्पिता ॥ १२५॥ तत्त्वार्च्च्या तत्त्वपूजा च तत्त्वार्ग्घ्या तत्त्वरूपिणी । तत्त्वज्ञानप्रदानेशी तत्त्वज्ञानसुमोक्षदा ॥ १२६॥ त्वरिता त्वरितप्रीता त्वरितार्त्तिविनाशिनी । त्वरितासवसन्तुष्टा त्वरितासवतर्पिता ॥ १२७॥ त्वग्वस्त्रा त्वक्परीधाना तरला तरलेक्षणा । तरक्षुचर्मवसना तरक्षुत्वग्विभूषणा ॥ १२८॥ तरक्षुस्तरक्षुप्राणा तरक्षुपृष्ठगामिनी । तरक्षुपृष्ठसंस्थाना तरक्षुपृष्ठवासिनी ॥ १२९॥ तर्पितोदैस्तर्पणाशा तर्पणासक्तमानसा । तर्पणानन्दहृदया तर्पणाधिपतिस्ततिः ॥ १३०॥ त्रयीमयी त्रयीसेव्या त्रयीपूज्या त्रयीकथा । त्रयीभव्या त्रयीभाव्या त्रयीभाव्या त्रयीयुता ॥ १३१॥ त्र्यक्षरी त्र्यक्षरेशानी त्र्यक्षरीशीघ्रसिद्धिदा । त्र्यक्षरेशी त्र्यक्षरीस्था त्र्यक्षरीपुरुषापदा ॥ १३२॥ तपना तपनेष्टा च तपस्तपनकन्यका । तपनांशुसमासह्या तपनकोटिकान्तिकृत् ॥ १३३॥ तपनीया तल्पतल्पगता तल्पविधायिनी । तल्पकृत्तल्पगा तल्पदात्री तल्पतलाश्रया ॥ १३४॥ तपनीयतलारात्री तपनीयांशुप्रार्त्थिनी । तपनीयप्रदातप्ता तपनीयाद्रिसंस्थिता ॥ १३५॥ तल्पेशी तल्पदा तल्पसंस्थिता तल्पवल्लभा । तल्पप्रिया तल्परता तल्पनिर्माणकारिणी ॥ १३६॥ तरसापूजनासक्ता तरसावरदायिनी । तरसासिद्धिसन्धात्री तरसामोक्षदायिनी ॥ १३७॥ तापसी तापसाराध्या तापसार्त्तिविनाशनी । तापसार्त्ता तापसश्रीस्तापसप्रियवादिनी ॥ १३८॥ तापसानन्दहृदया तापसानन्ददायिनी । तापसाश्रितपादाब्जा तापसक्तमानसा ॥ १३९॥ तामसी तामसीपूज्या तामसीप्रणयोत्सुका । तामसी तामसीसीता तामसीशीघ्रसिद्धिदा ॥ १४०॥ तालेशी तालभुक्तालदात्री तालोपमस्तनी । तालवृक्षस्थिता तालवृक्षजा तालरूपिणी ॥ १४१॥ तार्क्क्षा तार्क्क्षसमारूढा तार्क्क्षेशी तार्क्क्षपूजिता । तार्क्क्षेश्वरी तार्क्क्षमाता तार्क्क्षेशीवरदायिनी ॥ १४२॥ तापी तु तपिनी तापसंहन्त्री तापनाशिनी । तापदात्री तापकर्त्री तापविध्वंसकारिणी ॥ १४३॥ त्रासकर्त्री त्रासदात्री त्रासहर्त्री च त्रासहा । त्रासिता त्रासरहिता त्रासनिर्म्मूलकारिणी ॥ १४४॥ त्राणकृत्त्राणसंशीला तानेशी तानदायिनी । तानगानरता तानकारिणी तानगायिनी ॥ १४५॥ तारुण्यामृतसम्पूर्णा तारुण्यामृतवारिधिः । तारुण्यामृतसन्तुष्टा तारुण्यामृततर्पिता ॥ १४६॥ तारुण्यामृतपूर्णाङ्गी तारुण्यामृतविग्रहा । तारुण्यगुणसम्पन्ना तारुण्योक्तिविशारदा ॥ १४७॥ ताम्बूली ताम्बुलेशानी ताम्बूलचर्वणोद्यता । ताम्बूलपूरितास्या च ताम्बूलारुणिताधरा ॥ १४८॥ ताटङ्करत्नविख्यातिस्ताटङ्करत्नभूषिणी । ताटङ्करत्नमध्यस्था ताटङ्कद्वयभूषिता ॥ १४९॥ तिथीशा तिथिसम्पूज्या तिथिस्था तिथिरूपिणी । त्रितिथिवासिनीसेव्या तिथीशवरदायिनी ॥ १५०॥ तिलोत्तमादिकाराध्या तिलोत्तमादिकप्रभा । तिलोत्तमा तिलप्रक्षा तिलाराध्या तिलार्च्चिता ॥ १५१॥ प्। १४४) तिलभुक् तिलसन्दात्री तिलतुष्टा तिलालया । तलदा तिलसङ्काशा तिलतैलविधायिनी ॥ १५२॥ तिलतैलोपलिप्ताङ्गी तिलतैलसुगन्धिनी । तिलाज्यहोमसन्तुष्टा तिलाज्यहोमसिद्धिदा ॥ १५३॥ तिलपुष्पाञ्जलिप्रीता तिलपुष्पाञ्जलिप्रिया । तिलपुष्पाञ्जलिश्रेष्ठा तिलपुष्पाभनाशिनी ॥ १५४॥ तिलकाश्रितसिन्दूरा तिलकाङ्कितचन्दना । तिलकाहृतकस्तूरी तिलकामोदमोहिनी ॥ १५५॥ त्रिगुणा रिगुणाकारा त्रिगुणान्वितविग्रहा । त्रिगुणाकारविख्याता त्रिमूर्त्तिस्त्रिगुणात्मिका ॥ १५६॥ त्रिशिरा त्रिपुरेशानी त्रिपुरा त्रिपुरेश्वरी । त्रिपुरेशी त्रिलोकस्था त्रिपुरी त्रिपुराम्बिका ॥ १५७॥ त्रिपुरारिसमाराध्या त्रिपुरारिवरप्रदा । त्रिपुरारिशिरोभूषा त्रिपुरारिवरप्रदा ॥ १५८॥ त्रिपुरारीष्टसन्दात्री त्रिपुरारीष्टदेवता । त्रिपुरारिकृतार्द्धाङ्गी त्रिपुरारिविलासिनी ॥ १५९॥ त्रिपुरासुरसंहन्त्री त्रिपुरासुरमर्द्दिनी । त्रिपुरासुरसंसेव्या त्रिपुरासुरवर्यया ॥ १६०॥ त्रिकुटा त्रिकुटाराध्या त्रिकूटार्च्चितविग्रहा । त्रिकूटाचलमध्यथा त्रिकूटाचलवासिनी ॥ १६१॥ त्रिकूटाचलसञ्जाता त्रिकूटाचलनिर्ग्गता । त्रिजटा त्रिजटेशानी त्रिजटावरदायिनी ॥ १६२॥ त्रिनेत्रेशी त्रिनेत्रा च त्रिनेत्रवरवर्णिनी । त्रिवली त्रिवलीयुक्ता त्रिशूलवरधारिणी ॥ १६३॥ त्रिशूलेशी त्रिशूलीशी त्रिशूलभृत् त्रिशूलिनी । त्रिमनुस्त्रिमनूपास्या त्रिमनूपासकेश्वरी ॥ १६४॥ त्रिमनुजपसन्तुष्टा त्रिमनुस्तूर्णसिद्धिदा । त्रिमनुपूजनप्रीता त्रिमनुध्यानमोक्षदा ॥ १६५॥ त्रिविधा त्रिविधाभक्तिस्त्रिमता त्रिमतेश्वरी । त्रिभावस्था त्रिभावेशी त्रिभावपरिपूरिता ॥ १६६॥ त्रितत्त्वात्मा त्रितत्त्वेशी त्रितत्त्वज्ञा त्रितत्त्वधृक् । त्रितत्त्वाचमनप्रीता त्रितत्त्वाचमनेष्टदा ॥ १६७॥ त्रिकोणस्था त्रिकोणेशी त्रिकोणचक्रवासिनी । त्रिकोणचक्रमध्यस्था त्रिकोणबिन्दुरूपिणी ॥ १६८॥ त्रिकोणयन्त्रसंस्थाना त्रिकोणयन्त्ररूपिणी । त्रिकोणयन्त्रसम्पूज्या त्रिकोणयन्त्रसिद्धिदा ॥ १६९॥ त्रिवर्णाढ्या त्रिवर्णेशी त्रिवर्णोपासिरूपिणी । त्रिवर्णस्था त्रिवर्णाढ्या त्रिवर्णवरदायिनी ॥ १७०॥ त्रिवर्णाद्या त्रिवर्णार्च्च्या त्रिवर्गफलदायिनी । त्रिवर्गाढ्या त्रिवर्गेशी त्रिवर्गाद्यफलप्रदा ॥ १७१॥ त्रिसन्ध्यार्च्च्या त्रिसन्ध्येशी त्रिसन्ध्याराधनेष्टदा । त्रिसन्ध्यार्च्चनसन्तुष्टा त्रिसन्ध्याजपमोक्षदा ॥ १७२॥ त्रिपदाराधितपदा त्रिपदा त्रिपदेश्वरी । त्रिपदाप्रतिपाद्येशी त्रिपदा प्रतिपादिका ॥ १७३॥ त्रिशक्तिश्च त्रिशक्तेशी त्रिशक्तेष्टफलप्रदा । त्रिशक्तेष्टा त्रिशक्तीष्टा त्रिशक्तिपरिवेष्टिता ॥ १७४॥ त्रिवेणी च त्रिवेणीस्त्री त्रिवेणीमाधवार्च्चिता । त्रिवेणीजलसन्तुष्टा त्रिवेणीस्नानपुण्यदा ॥ १७५॥ त्रिवेणीजलसंस्नाता त्रिवेणीजलरूपिणी । त्रिवेणीजलपूताङ्गी त्रिवेणीजलपूजिता ॥ १७६॥ त्रिनाडीस्था त्रिनाडीशी त्रिनाडीमध्यगामिनी । त्रिनाडीसन्ध्यसञ्छ्रेया त्रिनाडी च त्रिकोटिनी ॥ १७७॥ त्रिपञ्चाशत्त्रिरेखा च त्रिशक्तिपथगामिनी । त्रिपथस्था त्रिलोकेशी त्रिकोटिकुलमोक्षदा ॥ १७८॥ त्रिरामेशी त्रिरामार्च्च्या त्रिरामवरदायिनी । त्रिदशाश्रितपादाब्जा त्रिदशालयचञ्चला ॥ १७९॥ त्रिदशा त्रिदशप्रार्त्थ्या त्रिदशाशुवरप्रदा । त्रिदशैश्वर्यसम्पन्ना त्रिदशेश्वरसेविता ॥ १८०॥ त्रियामार्च्च्या त्रियामेशी त्रियामानन्तसिद्धिदा । त्रियामेशाधिकज्योत्स्ना त्रियामेशाधिकानना ॥ १८१॥ त्रियामानाथवत्सौम्या त्रियामानाथभूषणा । त्रियामानाथलावण्या-रत्नकोटियुतानना ॥ १८२॥ त्रिकालस्था त्रिकालज्ञा त्रिकालज्ञत्वकारिणी । त्रिकालेशी त्रिकालार्च्च्या त्रिकालज्ञत्वदायिनी ॥ १८३॥ तीरभुक् तीरगा तीरसरिता तीरवासिनी । तीरभुग्देशसञ्जाता तीरभुग्देशसंस्थिता ॥ १८४॥ तिग्मातिग्मांशुसङ्काशा तिग्मांशुक्रोडसंस्थिता । तिग्मांशुकोटिदीप्ताङ्गी तिग्मांशुकोटिविग्रहा ॥ १८५॥ तीक्ष्णा तीक्ष्णतरा तीक्ष्णमहिषासुरमर्द्दिनी । तीक्ष्णकर्त्रिलसत्पाणिस्तीक्ष्णासिवरधारिणी ॥ १८६॥ तीव्रा तीव्रगतिस्तीव्रासुरसङ्घविनाशिनी । तीव्राष्टनागाभरणा तीव्रमुण्डविभूषणा ॥ १८७॥ तीर्त्थात्मिका तीर्त्थमयी तीर्त्थेशी तीर्त्थपूजिता । तीर्त्थराजेश्वरी तीर्त्थफलदा तीर्त्थदानदा ॥ १८८॥ तुमुली तुमुलप्राज्ञी तुमुलासुरघातिनी । तुमुलक्षतजप्रीता तुमुलाङ्गणवर्त्तकी ॥ १८९॥ तुरगी तुरगारूढा तुरङ्गपृष्ठगामिनी । तुरङ्गगमनाह्लादा तुरङ्गवेगगामिनी ॥ १९०॥ तुरीया तुलना तुल्या तुल्यवृत्तिस्तु तुल्यकृत् । तुलनेशी तुलाराशिस्तुलाराशी त्वसूक्ष्मवित् ॥ १९१॥ तुम्बिका तुम्बिकापात्रभोजना तुम्बिकार्थिनी । तुलसी तुलसीवर्या तुलजा तुलजेश्वरी ॥ १९२॥ तुषाग्निव्रतसन्तुष्टा तुषाग्निस्तुषराशिकृत् । तुषारकरशीताङ्गी तुषारकरपूर्त्तिकृत् ॥ १९३॥ तुषाराद्रिस्तुषाराद्रिसुता तुहिनदीधितिः । तुहिनाचलकन्या च तुहिनाचलवासिनी ॥ १९४॥ तूर्यवर्गेश्वरी तूर्यवर्गदा तूर्यवेददा । तूर्यवर्यात्मिका तूर्यतूर्येश्वरस्वरूपिणी ॥ १९५॥ तुष्टिदा तुष्टिकृत् तुष्टिस्तूणीरद्वयपृष्ठधृक् । तुम्बुराज्ञानसन्तुष्टा तुष्टसंसिद्धिदायिनी ॥ १९६॥ तूर्णराज्यप्रदा तूर्णगद्गदा तूर्णपद्यदा । तूर्णपाण्डित्यसन्दात्री तूर्णापूर्णबलप्रदा ॥ १९७॥ तृतीया च तृतीयेशी तृतीयातिथिपूजिता । तृतीयाचन्द्रचूडेशी तृतीयाचन्द्रभूषणा ॥ १९८॥ तृप्तिस्तृप्तिकरी तृप्ता तृष्णा तृष्णाविवर्द्धिनी । तृष्णापूर्णकरी तृष्णानाशिनी तृषिता तृषा ॥ १९९॥ त्रेतासंसाधिता त्रेता त्रेतायुगफलप्रदा । त्रैलोक्यपूजा त्रैलोक्यदात्री त्रैलोक्यसिद्धिदा ॥ २००॥ त्रैलोक्येश्वरतादात्री त्रैलोक्यपरमेश्वरी । त्रैलोक्यमोहनेशानी त्रैलोक्यराज्यदायिनी ॥ २०१॥ तैत्रिशाखेश्वरी त्रैत्रीशाखा तैत्रविवेकदा । तोरणान्वितगेहस्था तोरणासक्तमानसा ॥ २०२॥ तोलकास्वर्णसन्दात्री तौलकास्वर्णकङ्कणा । तोमरायुधरूपा च तोमरायुधधारिणी ॥ २०३॥ तौर्यत्रिकेश्वरी तौर्यन्त्रिकी तौर्यन्त्रिकोत्सुकी । तन्त्रकृत्तन्त्रवत्सूक्ष्मा तन्त्रमन्त्रस्वरूपिणी ॥ २०४॥ तन्त्रकृत्तन्त्रसम्पूज्या तन्त्रेशी तन्त्रसम्मता । तन्त्रज्ञा तन्त्रवित्तन्त्रसाध्या तन्त्रस्वरूपिणी ॥ २०५॥ तन्त्रस्था तन्त्रजा तन्त्री तन्त्रभृत्तन्त्रमन्त्रदा । तन्त्राद्या तन्त्रगा तन्त्रा तन्त्रार्च्च्या तत्रसिद्धिदा ॥ २०६॥ इति ते कथितन्दिव्यङ्क्रतुकोटिफलप्रदम् । नाम्नां सहस्रन्तारायास्तकाराद्यं सुगोपितम् ॥ २०७॥ दानय्यज्ञस्तपस्तीर्त्थव्रतञ्चानशनादिकम् । एकैकनामजम्पुण्यं सन्ध्यातुर्गदितम्मया ॥ २०८॥ गुरौ देवे तथा मन्त्रे यस्य स्यान्निश्चला मतिः । तस्यैव स्तोत्रपाठेऽस्मिन्सम्भवेदधिकारिता ॥ २०९॥ महाचीनक्रमाभिन्नषोढान्यस्तकलेवरः । क्रमदीक्षान्वितो मन्त्री पठेदेतन्न चान्यथा ॥ २१०॥ गन्धपुष्पादिभिर्द्द्रव्यैर्मकारैः पञ्चकैर्द्द्विजः । सम्पूज्य ताराव्विधिवत्पठेदेतदनन्यधीः ॥ २११॥ अष्टम्याञ्च चतुर्द्दश्या सङ्क्रान्तौ रविवासरे । शनिभौमदिने रात्रौ ग्रहणे चन्द्रसूर्ययोः ॥ २१२॥ तारारात्रौ कालरात्रौ मोहरात्रौ विशेषतः । पठनान्मन्त्रसिद्धिः स्यात्सर्वज्ञत्वम्प्रजायते ॥ २१३॥ श्मशाने प्रान्तरे रम्ये शून्यागारे विशेषतः । देवागारे गिरौ वापि स्तवपारायणञ्चरेत् ॥ २१४॥ ब्रह्महत्या सुरापानं स्तेयं स्त्रीगमनादिकम् । गुरुतल्पे तथा चान्यत्पातकन्नश्यति ध्रुवम् ॥ २१५॥ लतामध्यगतो मन्त्री श्रद्धया चार्च्चयेद्यदि । आकर्षयेत्तदा रम्भाम्मेनामपि तथोर्वशीम् ॥ २१६॥ सङ्ग्रामसमये वीरस्तारासाम्राज्यकीर्त्तनात् । चतुरङ्गचयञ्जित्वा सर्वसाम्राज्यभाग्भवेत् ॥ २१७॥ निशार्द्धे पूजनान्ते च प्रतिनाम्ना प्रपूजयेत् । एकैककरवीराद्यैर्मन्दौर्नीलवारिजैः ॥ २१८॥ गद्यपद्यमयीवाणी भूभोज्या च प्रवर्त्तते । पाण्डित्यं सर्वशास्त्रेषु वादी त्रस्यति दर्शनात् ॥ २१९॥ वह्निजायान्तकैरेतैस्ताराद्यैः प्रतिनामभिः । राजन्यं सर्वराजेषु परकायप्रवेशनम् ॥ २२०॥ अन्तर्द्धानङ्खेचरत्वम्बहुकायप्रकाशनम् । गुटिका पादुका पद्मावती मधुमती तथा ॥ २२१॥ रसं रसायनाः सर्वाः सिद्धयः समुपस्थिताः । कर्पूरागरुकस्तूरीचन्दनैः स/य्युतैर्ज्जलैः ॥ २२२॥ मूलं सम्पुटितेनैव प्रतिनाम्ना प्रपूजयेत् । यक्षराक्षसगन्धर्वा विद्याधरमहोरगाः ॥ २२३॥ भूतप्रेतपिशाचाद्या डाकिनीशाकिनीगणाः । दुष्टा भैरववेतालाः कूष्माण्डाः किन्नरीगणाः ॥ २२४॥ भयभीताः पलायन्ते तेजसा साधकस्य च । मन्त्रज्ञाने समुत्पन्ने प्रतिनाम्ना विचारयेत् ॥ २२५॥ मन्त्रसम्पुटितेनैव तस्य शान्तिर्ब्भवेद्ध्रुवम् । ललिता वशमायाति दास्यताय्यान्ति पार्त्थिवाः ॥ २२६॥ अग्नयः शीतताय्यान्ति जपाकस्य च भाषणात् । एकावर्त्तनमात्रेण राजभीतिनिवारणम् ॥ २२७॥ वेलावर्तनमात्रेण पशुवृद्धिः प्रजायते । दशावृत्या धनप्राप्तिर्विशत्या राज्यमाप्नुयात् ॥ २२८॥ शतावृत्या गृहे तस्य चञ्चला निश्चला भवेत् । गङ्गाप्रवाहवद्वाणी प्रलापादपि जायते ॥ २२९॥ पुत्रपौत्रान्वितो मन्त्री चिरञ्जीवी तु देववत् । शतद्वयावर्त्तनेन देववत्पूज्यते जनैः ॥ १३०॥ शतपञ्चकमावर्त्त्य स भवेद्भैरवोपमः । सहस्रावर्त्तनेनैव मन्त्रस्तस्य स्वसिद्धिदः ॥ १३१॥ तस्मिन्प्रवर्त्तते सर्वसिद्धिः सर्वार्थसाधिनी । पादुकाञ्चनवेतालापातालगगनादिकम् ॥ २३२॥ विविधा यक्षिणीसिद्धिर्व्वाक्सिद्धिस्तस्य जायते । शोषणं सागराणाञ्च धाराया भ्रमणन्तथा ॥ २३३॥ नवीनसृष्टिनिर्माणं सर्वङ्कर्त्तुङ्क्षमो भवेत् । आयुतावर्त्तनेनैव ताराम्पश्यति चक्षुषा ॥ २३४॥ लक्षावर्त्तनमात्रेण तारापतिसमो भवेत् । न किञ्चिद्दुर्ल्लभन्तस्य जीवन्मुक्तो हि भूतले ॥ २३५॥ कल्पान्तेन तु तत्पश्चात्तारासायुज्यमाप्नुयात् । यद्धि तारासमा विद्या नास्ति तारुण्यरूपिणी ॥ २३६॥ न चैतत्सदृशं स्तोत्रम्भवेद्ब्रह्माण्डमण्डले । वक्त्रकोटिसहस्रैस्तु जिह्वाकोटिशतैरपि ॥ २३७॥ न शक्यते फलव्वक्तुम्मया कल्पशतैरपि । चुम्बके निन्दके दुष्टे पिशुने जीवहिंसके ॥ २३८॥ सङ्गोप्यं स्तोत्रमेतत्तद्दर्शनेनैव कुत्रचित् । राज्यन्देयन्धनन्देयं शिरो देयमथापि वा ॥ २३९॥ न देयं स्तोत्रवर्यन्तु मन्त्रादपि महोद्यतम् । अनुलोमविलोमाभ्याम्मूलसम्पुटितन्त्विदम् ॥ २४०॥ लिखित्वा भूर्ज्जपत्रादौ गन्धाष्टकपुरस्सरैः । धारयेद्दक्षिणे बाहौ कण्ठे वामभुजे तथा ॥ २४१॥ तस्य सर्वार्त्थसिद्धिस्स्याद्वह्निना नैव दह्यते । तद्गात्रं शस्त्रसङ्घैश्च भिद्यते न कदाचन ॥ २४२॥ स भूमिवलये पुत्र विचरेद्भैरवोपमः । वन्ध्यापि लभते पुत्रन्निर्द्धनो धनमाप्नुयात् ॥ निर्विघ्नो लभते विद्यान्तर्कव्याकरणादिकाम् ॥ २४३॥ इति निगदितमस्यास्तादिनाम्नां सहस्रं- व्वरदमनुनिदानन्दिव्यसाम्राज्यसञ्ज्ञम् । विधिहरिगिरिशादौ शक्तिदानैकदक्षं समविधिपठनीयङ्कालितारासमज्ञैः ॥ २४४॥ इति श्रीब्रह्मयामले तारायास्तकारादिसहस्रनामस्तोत्र सम्पूर्णम् ॥ The original text is from Muktabodha Indological Research Institute www.muktabodha.org Dyczkowski. Reprint of edition published in 1892. Revision 0 february 9, 2009 Publisher : Shrivenkateshvara press Publication year : 1949