अक्षर आकार:

तारास्तोत्रम् अथवा ताराष्टकं

tArAstotram athavA tArAShTakaM

तारास्तोत्रम् अथवा ताराष्टकं

श्रीगणेशाय नमः । मातर्नीलसरस्वति प्रणमतां सौभाग्यसम्पत्प्रदे प्रत्यालीढपदस्थिते शवहृदि स्मेराननाम्भोरुहे । फुल्लेन्दीवरलोचने त्रिनयने कर्त्रीकपालोत्पले खङ्गं चादधती त्वमेव शरणं त्वामीश्वरीमाश्रये ॥ १॥ वाचामीश्वरि भक्तिकल्पलतिके सर्वार्थसिद्धिश्वरि गद्यप्राकृतपद्यजातरचनासर्वार्थसिद्धिप्रदे । नीलेन्दीवरलोचनत्रययुते कारुण्यवारान्निधे सौभाग्यामृतवर्धनेन कृपयासिञ्च त्वमस्मादृशम् ॥ २॥ खर्वे गर्वसमूहपूरिततनो सर्पादिवेषोज्वले व्याघ्रत्वक्परिवीतसुन्दरकटिव्याधूतघण्टाङ्किते । सद्यःकृत्तगलद्रजःपरिमिलन्मुण्डद्वयीमूर्द्धज- ग्रन्थिश्रेणिनृमुण्डदामललिते भीमे भयं नाशय ॥ ३॥ मायानङ्गविकाररूपललनाबिन्द्वर्द्धचन्द्राम्बिके हुंफट्कारमयि त्वमेव शरणं मन्त्रात्मिके मादृशः । मूर्तिस्ते जननि त्रिधामघटिता स्थूलातिसूक्ष्मा परा वेदानां नहि गोचरा कथमपि प्राज्ञैर्नुतामाश्रये ॥ ४॥ त्वत्पादाम्बुजसेवया सुकृतिनो गच्छन्ति सायुज्यतां तस्याः श्रीपरमेश्वरत्रिनयनब्रह्मादिसाम्यात्मनः । संसाराम्बुधिमज्जने पटुतनुर्देवेन्द्रमुख्यासुरान् मातस्ते पदसेवने हि विमुखान् किं मन्दधीः सेवते ॥ ५॥ मातस्त्वत्पदपङ्कजद्वयरजोमुद्राङ्ककोटीरिणस्ते देवा जयसङ्गरे विजयिनो निःशङ्कमङ्के गताः । देवोऽहं भुवने न मे सम इति स्पर्द्धां वहन्तः परे तत्तुल्यां नियतं यथा शशिरवी नाशं व्रजन्ति स्वयम् ॥ ६॥ त्वन्नामस्मरणात्पलायनपरान्द्रष्टुं च शक्ता न ते भूतप्रेतपिशाचराक्षसगणा यक्षश्च नागाधिपाः । दैत्या दानवपुङ्गवाश्च खचरा व्याघ्रादिका जन्तवो डाकिन्यः कुपितान्तकश्च मनुजान् मातः क्षणं भूतले ॥ ७॥ लक्ष्मीः सिद्धिगणश्च पादुकमुखाः सिद्धास्तथा वैरिणां स्तम्भश्चापि वराङ्गने गजघटास्तम्भस्तथा मोहनम् । मातस्त्वत्पदसेवया खलु नृणां सिद्ध्यन्ति ते ते गुणाः क्लान्तः कान्तमनोभवोऽत्र भवति क्षुद्रोऽपि वाचस्पतिः ॥ ८॥ ताराष्टकमिदं पुण्यं भक्तिमान् यः पठेन्नरः । प्रातर्मध्याह्नकाले च सायाह्ने नियतः शुचिः ॥ ९॥ लभते कवितां विद्यां सर्वशास्त्रार्थविद्भवेत् लक्ष्मीमनश्वरां प्राप्य भुक्त्वा भोगान्यथेप्सितान् । कीर्तिं कान्तिं च नैरुज्यं प्राप्यान्ते मोक्षमाप्नुयात् ॥ १०॥ ॥ इति श्रीनीलतन्त्रे तारास्तोत्रं अथवा ताराष्टकं सम्पूर्णम् ॥