अक्षर आकार:

श्रीताराशतनामस्तोत्रम्

shrItArAshatanAmastotram

श्रीताराशतनामस्तोत्रम्

श्रीशिव उवाच ॥ तारिणी तरला तन्वी तारा तरुणवल्लरी । तीररूपा तरी श्यामा तनुक्षीणपयोधरा ॥ १॥ तुरीया तरला तीव्रगमना नीलवाहिनी । उग्रतारा जया चण्डी श्रीमदेकजटाशिराः ॥ २॥ तरुणी शाम्भवीछिन्नभाला च भद्रतारिणी । उग्रा चोग्रप्रभा नीला कृष्णा नीलसरस्वती ॥ ३॥ द्वितीया शोभना नित्या नवीना नित्यनूतना । चण्डिका विजयाराध्या देवी गगनवाहिनी ॥ ४॥ अट्टहास्या करालास्या चरास्या दितिपूजिता । सगुणा सगुणाराध्या हरीन्द्रदेवपूजिता ॥ ५॥ रक्तप्रिया च रक्ताक्षी रुधिरास्यविभूषिता । बलिप्रिया बलिरता दुर्गा बलवती बला ॥ ६॥ बलप्रिया बलरता बलरामप्रपूजिता । अर्धकेशेश्वरी केशा केशवासविभूषिता ॥ ७॥ पद्ममाला च पद्माक्षी कामाख्या गिरिनन्दिनी । दक्षिणा चैव दक्षा च दक्षजा दक्षिणे रता ॥ ८॥ वज्रपुष्पप्रिया रक्तप्रिया कुसुमभूषिता । माहेश्वरी महादेवप्रिया पञ्चविभूषिता ॥ ९॥ इडा च पिङ्गला चैव सुषुम्ना प्राणरूपिणी । गान्धारी पञ्चमी पञ्चाननादि परिपूजिता ॥ १०॥ तथ्यविद्या तथ्यरूपा तथ्यमार्गानुसारिणी । तत्त्वप्रिया तत्त्वरूपा तत्त्वज्ञानात्मिकाऽनघा ॥ ११॥ ताण्डवाचारसन्तुष्टा ताण्डवप्रियकारिणी । तालदानरता क्रूरतापिनी तरणिप्रभा ॥ १२॥ त्रपायुक्ता त्रपामुक्ता तर्पिता तृप्तिकारिणी । तारुण्यभावसन्तुष्टा शक्तिर्भक्तानुरागिणी ॥ १३॥ शिवासक्ता शिवरतिः शिवभक्तिपरायणा । ताम्रद्युतिस्ताम्ररागा ताम्रपात्रप्रभोजिनी ॥ १४॥ बलभद्रप्रेमरता बलिभुग्बलिकल्पिनी । रामरूपा रामशक्ती रामरूपानुकारिणी ॥ १५॥ इत्येतत्कथितं देवि रहस्यं परमाद्भुतम् । श्रुत्वा मोक्षमवाप्नोति तारादेव्याः प्रसादतः ॥ १६॥ य इदं पठति स्तोत्रं तारास्तुतिरहस्यकम् । सर्वसिद्धियुतो भूत्वा विहरेत् क्षितिमण्डले ॥ १७॥ तस्यैव मन्त्रसिद्धिः स्यान्ममसिद्धिरनुत्तमा । भवत्येव महामाये सत्यं सत्यं न संशयः ॥ १८॥ मन्दे मङ्गलवारे च यः पठेन्निशि संयतः । तस्यैव मन्त्रसिद्धिस्स्याद्गाणपत्यं लभेत सः ॥ १९॥ श्रद्धयाऽश्रद्धया वापि पठेत्तारारहस्यकम् । सोऽचिरेणैव कालेन जीवन्मुक्तः शिवो भवेत् ॥ २०॥ सहस्रावर्तनाद्देवि पुरश्चर्याफलं लभेत् । एवं सततयुक्ता ये ध्यायन्तस्त्वामुपासते । ते कृतार्था महेशानि मृत्युसंसारवर्त्मनः ॥ २१॥ इति स्वर्णमालातन्त्रे ताराशतनामस्तोत्रं समाप्तम् ॥