अक्षर आकार:

तारासहस्रनामस्तोत्रम् बृहन्नीलतन्त्रार्गतम्

tArAsahasranamastotra from Brihannilatantra

तारासहस्रनामस्तोत्रम् बृहन्नीलतन्त्रार्गतम्

श्रीदेव्युवाच । देव देव महादेव सृष्टिस्थित्यन्तकारक । प्रसङ्गेन महादेव्या विस्तरं कथितं मयि ॥ १८-१॥ देव्या नीलसरस्वत्याः सहस्रं परमेश्वर । नाम्नां श्रोतुं महेशान प्रसादः क्रियतां मयि । कथयस्व महादेव यद्यहं तव वल्लभा ॥ १८-२॥ श्रीभैरव उवाच । साधु पृष्टं महादेवि सर्वतन्त्रेषु गोपितम् । नाम्नां सहस्रं तारायाः कथितुं नैव शक्यते ॥ १८-३॥ प्रकाशात् सिद्धिहानिः स्यात् श्रिया च परिहीयते । प्रकाशयति यो मोहात् षण्मासाद् मृत्युमाप्नुयात् ॥ १८-४॥ अकथ्यं परमेशानि अकथ्यं चैव सुन्दरि । क्षमस्व वरदे देवि यदि स्नेहोऽस्ति मां प्रति ॥ १८-५॥ सर्वस्वं श‍ृणु हे देवि सर्वागमविदां वरे । धनसारं महादेवि गोप्तव्यं परमेश्वरि ॥ १८-६॥ आयुर्गोप्यं गृहच्छिद्रं गोप्यं न पापभाग् भवेत् । सुगोप्यं परमेशानि गोपनात् सिद्धिमश्नुते ॥ १८-७॥ प्रकाशात् कार्यहानिश्च प्रकाशात् प्रलयं भवेत् । तस्माद् भद्रे महेशानि न प्रकाश्यं कदाचन ॥ १८-८॥ इति देववचः श्रुत्वा देवी परमसुन्दरी । विस्मिता परमेशानी विषणा तत्र जायते ॥ १८-९॥ श‍ृणु हे परमेशान कृपासागरपारग । तव स्नेहो महादेव मयि नास्त्यत्र निश्चितम् ॥ १८-१०॥ भद्रं भद्रं महादेव इति कृत्वा महेश्वरी । विमुखीभूय देवेशी तत्रास्ते शैलजा शुभा ॥ १८-११॥ विलोक्य विमुखीं देवीं महादेवो महेश्वरः । प्रहस्य परमेशानीं परिष्वज्य प्रियां कथाम् ॥ १८-१२॥ कथयामास तत्रैव महादेव्यै महेश्वरि । मम सर्वस्वरूपा त्वं जानीहि नगनन्दिनि ॥ १८-१३॥ त्वां विनाहं महादेवि पूर्वोक्तशवरूपवान् । क्षमस्व परमानन्दे क्षमस्व नगनन्दिनि ॥ १८-१४॥ यथा प्राणो महेशानि देहे तिष्ठति सुन्दरि । तथा त्वं जगतामाद्ये चरणे पतितोऽस्म्यहम् ॥ १८-१५॥ इति मत्वा महादेवि रक्ष मां तव किङ्करम् । ततो देवी महेशानी त्रैलोक्यमोहिनी शिवा ॥ १८-१६॥ महादेवं परिष्वज्य प्राह गद्गदया गिरा । सदा देहस्वरूपाहं देही त्वं परमेश्वर ॥ १८-१७॥ तथापि वञ्चनां कर्तुं मामित्थं वदसि प्रियम् । महादेवः पुनः प्राह भैरवि प्राणवल्लभे ॥ १८-१८॥ नाम्नां सहस्रं तारायाः श्रोतुमिच्छस्यशेषतः । श्रीदेव्युवाच । न श्रुतं परमेशान तारानामसहस्रकम् । कथयस्व महाभाग सत्यं परमसुन्दरम् ॥ १८-१९॥ श्रीपार्वत्युवाच । कथमीशान सर्वज्ञ लभन्ते सिद्धिमुत्तमाम् । साधकाः सर्वदा येन तन्मे कथय सुन्दर ॥ १८-२०॥ यस्मात् परतरं नास्ति स्तोत्रं तन्त्रेषु निश्चितम् । सर्वपापहरं दिव्यं सर्वापद्विनिवारकम् ॥ १८-२१॥ सर्वज्ञानकरं पुण्यं सर्वमङ्गलसंयुतम् । पुरश्चर्याशतैस्तुल्यं स्तोत्रं सर्वप्रियङ्करम् ॥ १८-२२॥ वश्यप्रदं मारणदमुच्चाटनप्रदं महत् । नाम्नां सहस्रं तारायाः कथयस्व सुरेश्वर ॥ १८-२३॥ श्रीमहादेव उवाच । नाम्नां सहस्रं तारायाः स्तोत्रपाठाद् भविष्यति । नाम्नां सहस्रं तारायाः कथयिष्याम्यशेषतः ॥ १८-२४॥ श‍ृणु देवि सदा भक्त्या भक्तानां परमं हितम् । विना पूजोपहारेण विना जा(प्येन यत् फलम् ॥ १८-२५॥ तत् फलं सकलं देवि कथयिष्यामि तच्छृणु । ॐ अस्य श्रीतारासहस्रनामस्तोत्रमहामन्त्रस्य, अक्षोभ्य ऋषिः, बृहती-उष्णिक् छन्दः, श्री उग्रतारा श्रीमदेकजटा श्रीनीलसरस्वती देवता, पुरुषार्थचतुष्टयसिद्ध्यर्थे विनियोगः ॥ तारा रात्रिर्महारात्रिर्कालरात्रिर्महामतिः । कालिका कामदा माया महामाया महास्मृतिः ॥ १८-२६॥ महादानरता यज्ञा यज्ञोत्सवविभूषिता । चन्द्रव्वज्रा चकोराक्षी चारुनेत्रा सुलोचना ॥ १८-२७॥ त्रिनेत्रा महती देवी कुरङ्गाक्षी मनोरमा । ब्राह्मी नारायणी ज्योत्स्ना चारुकेशी सुमूर्धजा ॥ १८-२८॥ वाराही वारुणी विद्या महाविद्या महेश्वरी । सिद्धा कुञ्चितकेशा च महायज्ञस्वरूपिणी ॥ १८-२९॥ गौरी चम्पकवर्णा च कृशाङ्गी शिवमोहिनी । सर्वानन्दस्वरूपा च सर्वशङ्कैकतारिणी ॥ १८-३०॥ विद्यानन्दमयी नन्दा भद्रकालीस्वरूपिणी । गायत्री सुचरित्रा च कौलव्रतपरायणा ॥ १८-३१॥ हिरण्यगर्भा भूगर्भा महागर्भा सुलोचनी । हिमवत्तनया दिव्या महामेघस्वरूपिणी ॥ १८-३२॥ जगन्माता जगद्धात्री जगतामुपकारिणी । ऐन्द्री सौम्या तथा घोरा वारुणी माधवी तथा ॥ १८-३३॥ आग्नेयी नैरृती चैव ऐशानी चण्डिकात्मिका । सुमेरुतनया नित्या सर्वेषामुपकारिणी ॥ १८-३४॥ ललज्जिह्वा सरोजाक्षी मुण्डस्रक्परिभूषिता । सर्वानन्दमयी सर्वा सर्वानन्दस्वरूपिणी ॥ १८-३५॥ धृतिर्मेधा तथा लक्ष्मीः श्रद्धा पन्नगगामिनी । रुक्मिणी जानकी दुर्गाम्बिका सत्यवती रतिः ॥ १८-३६॥ १८- कामाख्या कामदा नन्दा नारसिंही सरस्वती । महादेवरता चण्डी चण्डदोर्दण्डखण्डिनी ॥ १८-३७॥ दीर्घकेशी सुकेशी च पिङ्गकेशी महाकचा । भवानी भवपत्नी च भवभीतिहरा सती ॥ १८-३८॥ पौरन्दरी तथा विष्णोर्जाया माहेश्वरी तथा । सर्वेषां जननी विद्या चार्वङ्गी दैत्यनाशिनी ॥ १८-३९॥ सर्वरूपा महेशानि कामिनी वरवर्णिनी । महाविद्या महामाया महामेधा महोत्सवा ॥ १८-४०॥ विरूपा विश्वरूपा च मृडानी मृडवल्लभा । कोटिचन्द्रप्रतीकाशा शतसूर्यप्रकाशिनी ॥ १८-४१॥ जह्नुकन्या महोग्रा च पार्वती विश्वमोहिनी । कामरूपा महेशानी नित्योत्साहा मनस्विनी ॥ १८-४२॥ वैकुण्ठनाथपत्नी च तथा शङ्करमोहिनी । काश्यपी कमला कृष्णा कृष्णरूपा च कालिनी ॥ १८-४३॥ माहेश्वरी वृषारूढा सर्वविस्मयकारिणी । मान्या मानवती शुद्धा कन्या हिमगिरेस्तथा ॥ १८-४४॥ अपर्णा पद्मपत्राक्षी नागयज्ञोपवीतिनी । महाशङ्खधरा कान्ता कमनीया नगात्मजा ॥ १८-४५॥ ब्रह्माणी वैष्णवी शम्भोर्जाया गङ्गा जलेश्वरी । भागीरथी मनोबुद्धिर्नित्या विद्यामयी तथा ॥ १८-४६॥ हरप्रिया गिरिसुता हरपत्नी तपस्विनी । महाव्याधिहरा देवी महाघोरस्वरूपिणी ॥ १८-४७॥ महापुण्यप्रभा भीमा मधुकैटभनाशिनी । शङ्खिनी वज्रिणी धात्री तथा पुस्तकधारिणी ॥ १८-४८॥ चामुण्डा चपला तुङ्गा शुम्बदैत्यनिकृन्तनी । शान्तिर्निद्रा महानिद्रा पूर्णनिद्रा च रेणुका ॥ १८-४९॥ कौमारी कुलजा कान्ती कौलव्रतपरायणा । वनदुर्गा सदाचारा द्रौपदी द्रुपदात्मजा ॥ १८-५०॥ यशस्विनी यशस्या च यशोधात्री यशःप्रदा । सृष्टिरूपा महागौरी निशुम्बप्राणनाशिनी ॥ १८-५१॥ पद्मिनी वसुधा पृथ्वी रोहिणी विन्ध्यवासिनी । शिवशक्तिर्महाशक्तिः शङ्खिनी शक्तिनिर्गता ॥ १८-५२॥ दैत्यप्राणहरा देवी सर्वरक्षणकारिणी । क्षान्तिः क्षेमङ्करी चैव बुद्धिरूपा महाधना ॥ १८-५३॥ श्रीविद्या भैरवि भव्या भवानी भवनाशिनी । तापिनी भाविनी सीता तीक्ष्णतेजःस्वरूपिणी ॥ १८-५४॥ दात्री दानपरा काली दुर्गा दैत्यविभूषणा । महापुण्यप्रदा भीमा मधुकैटभनाशिनी ॥ १८-५५॥ पद्मा पद्मावती कृष्णा तुष्टा पुष्टा तथोर्वशी । वज्रिणी वज्रहस्ता च तथा नारायणी शिवा ॥ १८-५६॥ खड्गिनी खड्गहस्ता च खड्गखर्परधारिणी । देवाङ्गना देवकन्या देवमाता पुलोमजा ॥ १८-५७॥ सुखिनी स्वर्गदात्री च सर्वसौख्यविवर्धिनी । शीला शीलावती सूक्ष्मा सूक्ष्माकारा वरप्रदा ॥ १८-५८॥ वरेण्या वरदा वाणी ज्ञानिनी ज्ञानदा सदा । उग्रकाली महाकाली भद्रकाली च दक्षिणा ॥ १८-५९॥ भृगुवंशसमुद्भूता भार्गवी भृगुवल्लभा । शूलिनी शूलहस्ता च कर्त्रीखर्परधारिणी ॥ १८-६०॥ महावंशसमुद्भूता मयूरवरवाहना । महाशङ्खरता रक्ता रक्तखर्परधारिणी ॥ १८-६१॥ रक्ताम्बरधरा रामा रमणी सुरनायिका । मोक्षदा शिवदा श्यामा मदविभ्रममन्थरा ॥ १८-६२॥ परमानन्ददा ज्येष्ठा योगिनी गणसेविता । सारा जाम्बवती चैव सत्यभामा नगात्मजा ॥ १८-६३॥ रौद्रा रौद्रबला घोरा रुद्रसारारुणात्मिका । रुद्ररूपा महारौद्री रौद्रदैत्यविनाशिनी ॥ १८-६४॥ कौमारी कौशिकी चण्डा कालदैत्यविनाशिनी । शम्भुपत्नी शम्भुरता शम्बुजाया महोदरी ॥ १८-६५॥ शिवपत्नी शिवरता शिवजाया शिवप्रिया । हरपत्नी हररता हरजाया हरप्रिया ॥ १८-६६॥ मदनान्तककान्ता च मदनान्तकवल्लभा । गिरिजा गिरिकन्या च गिरीशस्य च वल्लभा ॥ १८-६७॥ भूता भव्या भवा स्पष्टा पावनी परपालिनी । अदृश्या च व्यक्तरूपा इष्टानिष्टप्रवर्द्धिनी ॥ १८-६८॥ अच्युता प्रच्युतप्राणा प्रमदा वासवेश्वरी । अपांनिधिसमुद्भूता धारिणी च प्रतिष्ठिता ॥ १८-६९॥ उद्भवा क्षोभणा क्षेमा श्रीगर्भा परमेश्वरी । कमला पुष्पदेहा च कामिनी कञ्जलोचना ॥ १८-७०॥ शरण्या कमला प्रीतिर्विमलानन्दवर्धिनी । कपर्दिनी कराला च निर्मला देवरूपिणी ॥ १८-७१॥ उदीर्णभूषणा भव्या सुरसेना महोदरी । श्रीमती शिशिरा नव्या शिशिराचलकन्यका ॥ १८-७२॥ सुरमान्या सुरश्रेष्ठा ज्येष्ठा प्राणेश्वरी स्थिरा । तमोघ्नी ध्वान्तसंहन्त्री प्रयतात्मा पतिव्रता ॥ १८-७३॥ प्रद्योतिनी रथारूढा सर्वलोकप्रकाशिनी । मेधाविनी महावीर्या हंसी संसारतारिणी ॥ १८-७४॥ प्रणतप्राणिनामार्तिहारिणी दैत्यनाशिनी । डाकिनी शाकिनीदेवी वरखट्वाङ्गधारिणी ॥ १८-७५॥ कौमुदी कुमुदा कुन्दा कौलिका कुलजामरा । गर्विता गुणसम्पन्ना नगजा खगवाहिनी ॥ १८-७६॥ चन्द्रानना महोग्रा च चारुमूर्धजशोभना । मनोज्ञा माधवी मान्या माननीया सतां सुहृत् ॥ १८-७७॥ ज्येष्ठा श्रेष्ठा मघा पुष्या धनिष्ठा पूर्वफाल्गुनी । रक्तबीजनिहन्त्री च रक्तबीजविनाशिनी ॥ १८-७८॥ चण्डमुण्डनिहन्त्री च चण्डमुण्डविनाशिनी । कर्त्री हर्त्री सुकर्त्री च विमलामलवाहिनी ॥ १८-७९॥ विमला भास्करी वीणा महिषासुरघातिनी । कालिन्दी यमुना वृद्धा सुरभिः बालिका सती ॥ १८-८०॥ कौशल्या कौमुदी मैत्रीरूपिणी चाप्यरुन्धती । पुरारिगृहिणी पूर्णा पूर्णानन्दस्वरूपिणी ॥ १८-८१॥ पुण्डरीकाक्षपत्नी च पुण्डरीकाक्षवल्लभा । सम्पूर्णचन्द्रवदना बालचन्द्रसमप्रभा ॥ १८-८२॥ रेवती रमणी चित्रा चित्राम्बरविभूषणां । सीता वीणावती चैव यशोदा विजया प्रिया ॥ १८-८३॥ नवपुष्पसमुद्भूता नवपुष्पोत्सवोत्सवा । नवपुष्पस्रजामाला माल्यभूषणभूषिता ॥ १८-८४॥ नवपुष्पसमप्राणा नवपुष्पोत्सवप्रिया । प्रेतमण्डलमध्यस्ता सर्वाङ्गसुन्दरी शिवा ॥ १८-८५॥ नवपुष्पात्मिका षष्ठी पुष्पस्तवकमण्डला । नवपुष्पगुणोपेता श्मशानभैरवप्रिया ॥ १८-८६॥ कुलशास्त्रप्रदीपा च कुलमार्गप्रवर्द्धिनी । श्मशानभैरवी काली भैरवी भैरवप्रिया ॥ १८-८७॥ आनन्दभैरवी ध्येया भैरवी कुरुभैरवी । महाभैरवसम्प्रीता भैरवीकुलमोहिनी ॥ १८-८८॥ श्रीविद्याभैरवी नीतिभैरवी गुणभैरवी । सम्मोहभैरवी पुष्टिभैरवी तुष्टिभैरवी ॥ १८-८९॥ संहारभैरवी सृष्टिभैरवी स्थितिभैरवी । आनन्दभैरवी वीरा सुन्दरी स्थितिसुन्दरी ॥ १८-९०॥ गुणानन्दस्वरूपा च सुन्दरी कालरूपिणी । श्रीमायासुन्दरी सौम्यसुन्दरी लोकसुन्दरी ॥ १८-९१॥ श्रीविद्यामोहिनी बुद्धिर्महाबुद्धिस्वरूपिणी । मल्लिका हाररसिका हारालम्बनसुन्दरी ॥ १८-९२॥ नीलपङ्कजवर्णा च नागकेसरभूषिता । जपाकुसुमसङ्काशा जपाकुसुमशोभिता ॥ १८-९३॥ प्रिया प्रियङ्करी विष्णोर्दानवेन्द्रविनाशिनी । ज्ञानेश्वरी ज्ञानदात्री ज्ञानानन्दप्रदायिनी ॥ १८-९४॥ गुणगौरवसम्पन्ना गुणशीलसमन्विता । रूपयौवनसम्पन्ना रूपयौवनशोभिता ॥ १८-९५॥ गुणाश्रया गुणरता गुणगौरवसुन्दरी । मदिरामोदमत्ता च ताटङ्कद्वयशोभिता ॥ १८-९६॥ वृक्षमूलस्थिता देवी वृक्षशाखोपरिस्थिता । तालमध्याग्रनिलया वृक्षमध्यनिवासिनी ॥ १८-९७॥ स्वयम्भूपुष्पसंकाशा स्वयम्भूपुष्पधारिणी । स्वयम्भूकुसुमप्रीता स्वयम्भूपुष्पशोभिनी ॥ १८-९८॥ स्वयम्भूपुष्परसिका नग्ना ध्यानवती सुधा । शुक्रप्रिया शुक्ररता शुक्रमज्जनतत्परा ॥ १८-९९॥ पूर्णपर्णा सुपर्णा च निष्पर्णा पापनाशिनी । मदिरामोदसम्पन्ना मदिरामोदधारिणी ॥ १८-१००॥ सर्वाश्रया सर्वगुणा नन्दनन्दनधारिणी । नारीपुष्पसमुद्भूता नारीपुष्पोत्सवोत्सवा ॥ १८-१०१॥ नारीपुष्पसमप्राणा नारीपुष्परता मृगी । सर्वकालोद्भवप्रीता सर्वकालोद्भवोत्सवा ॥ १८-१०२॥ चतुर्भुजा दशभुजा अष्टादशभुजा तथा । द्विभुजा षड्भुजा प्रीता रक्तपङ्कजशोभिता ॥ १८-१०३॥ कौबेरी कौरवी कौर्या कुरुकुल्ला कपालिनी । सुदीर्घकदलीजङ्घा रम्भोरू रामवल्लभा ॥ १८-१०४॥ निशाचरी निशामूर्तिर्निशाचन्द्रसमप्रभा । चान्द्री चान्द्रकला चन्द्रा चारुचन्द्रनिभानना ॥ १८-१०५॥ स्रोतस्वती स्रुतिमती सर्वदुर्गतिनाशिनी । सर्वाधारा सर्वमयी सर्वानन्दस्वरूपिणी ॥ १८-१०६॥ सर्वचक्रेश्वरी सर्वा सर्वमन्त्रमयी शुभा । सहस्रनयनप्राणा सहस्रनयनप्रिया ॥ १८-१०७॥ सहस्रशीर्षा सुषमा सदम्भा सर्वभक्षिका । यष्टिका यष्टिचक्रस्था षद्वर्गफलदायिनी ॥ १८-१०८॥ षड्विंशपद्ममध्यस्था षड्विंशकुलमध्यगा । हूँकारवर्णनिलया हूँकाराक्षरभूषणा ॥ १८-१०९॥ हकारवर्णनिलया हकाराक्षरभूषणा । हारिणी हारवलिता हारहीरकभूषणा ॥ १८-११०॥ ह्रींकारबीजसहिता ह्रींकारैरुपशोभिता । कन्दर्पस्य कला कुन्दा कौलिनी कुलदर्पिता ॥ १८-१११॥ केतकीकुसुमप्राणा केतकीकृतभूषणा । केतकीकुसुमासक्ता केतकीपरिभूषिता ॥ १८-११२॥ कर्पूरपूर्णवदना महामाया महेश्वरी । कला केलिः क्रिया कीर्णा कदम्बकुसुमोत्सुका ॥ १८-११३॥ कादम्बिनी करिशुण्डा कुञ्जरेश्वरगामिनी । खर्वा सुखञ्जनयना खञ्जनद्वन्द्वभूषणा ॥ १८-११४॥ खद्योत इव दुर्लक्षा खद्योत इव चञ्चला । महामाया ज्गद्धात्री गीतवाद्यप्रिया रतिः ॥ १८-११५॥ गणेश्वरी गणेज्या च गुणपूज्या गुणप्रदा । गुणाढ्या गुणसम्पन्ना गुणदात्री गुणात्मिका ॥ १८-११६॥ गुर्वी गुरुतरा गौरी गाणपत्यफलप्रदा । महाविद्या महामेधा तुलिनी गणमोहिनी ॥ १८-११७॥ भव्या भवप्रिया भाव्या भावनीया भवात्मिका । घर्घरा घोरवदना घोरदैत्यविनाशिनी ॥ १८-११८॥ घोरा घोरवती घोषा घोरपुत्री घनाचला । चर्चरी चारुनयना चारुवक्त्रा चतुर्गुणा ॥ १८-११९॥ चतुर्वेदमयी चण्डी चन्द्रास्या चतुरानना । चलच्चकोरनयना चलत्खञ्जनलोचना ॥ १८-१२०॥ चलदम्भोजनिलया चलदम्भोजलोचना । छत्री छत्रप्रिया छत्रा छत्रचामरशोभिता ॥ १८-१२१॥ छिन्नछदा छिन्नशिराश्छिन्ननासा छलात्मिका । छलाढ्या छलसंत्रस्ता छलरूपा छलस्थिरा ॥ १८-१२२॥ छकारवर्णनिलया छकाराढ्या छलप्रिया । छद्मिनी छद्मनिरता छद्मच्छद्मनिवासिनी ॥ १८-१२३॥ जगन्नाथप्रिया जीवा जगन्मुक्तिकरी मता । जीर्णा जीमूतवनिता जीमूतैरुपशोभिता ॥ १८-१२४॥ जामातृवरदा जम्भा जमलार्जुनभञ्जिनी । झर्झरी झाकृतिर्झल्ली झरी झर्झरिका तथा ॥ १८-१२५॥ टङ्कारकारिणी टीका सर्वटङ्कारकारिणी । ठंकराङ्गी डमरुका डाकारा डमरुप्रिया ॥ १८-१२६॥ ढक्कारावरता नित्या तुलसी मणिभूषिता । तुला च तोलिका तीर्णा तारा तारणिका तथा ॥ १८-१२७॥ तन्त्रविज्ञा तन्त्ररता तन्त्रविद्या च तन्त्रदा । तान्त्रिकी तन्त्रयोग्या च तन्त्रसारा च तन्त्रिका ॥ १८-१२८॥ तन्त्रधारी तन्त्रकरी सर्वतन्त्रस्वरूपिणी । तुहिनांशुसमानास्या तुहिनांशुसमप्रभा ॥ १८-१२९॥ तुषाराकरतुल्याङ्गी तुषाराधारसुन्दरी । तन्त्रसारा तन्त्रकरो तन्त्रसारस्वरूपिणी ॥ १८-१३०॥ तुषारधामतुल्यास्या तुषारांशुसमप्रभा । तुषाराद्रिसुता तार्क्ष्या ताराङ्गी तालसुन्दरी ॥ १८-१३१॥ तारस्वरेण सहिता तारस्वरविभूषिता । थकारकूटनिलया थकाराक्षरमालिनी ॥ १८-१३२॥ दयावती दीनरता दुःखदारिद्र्यनाशिनी । दौर्भाग्यदुःखदलिनी दौर्भाग्यपदनाशिनी ॥ १८-१३३॥ दुहिता दीनबन्धुश्च दानवेन्द्रविनाशिनी । दानपात्री दानरता दानसम्मानतोषिता ॥ १८-१३४॥ दान्त्यादिसेविता दान्ता दया दामोदरप्रिया । दधीचिवरदा तुष्टा दानवेन्द्रविमर्दिनी ॥ १८-१३५॥ दीर्घनेत्रा दीर्घकचा दीर्घनासा च दीर्घिका । दारिद्र्यदुःखसंनाशा दारिद्र्यदुःखनाशिनी ॥ १८-१३६॥ दाम्भिका दन्तुरा दम्भा दम्भासुरवरप्रदा । धनधान्यप्रदा धन्या धनेश्वरधनप्रदा ॥ १८-१३७॥ धर्मपत्नी धर्मरता धर्माधर्मविविवर्द्धिनी । धर्मिणी धर्मिका धर्म्या धर्माधर्मविवर्द्धिनी ॥ १८-१३८॥ धनेश्वरी धर्मरता धर्मानन्दप्रवर्द्धिनी । धनाध्यक्षा धनप्रीता धनाढ्या धनतोषिता ॥ १८-१३९॥ धीरा धैर्यवती धिष्ण्या धवलाम्भोजसंनिभा । धरिणी धारिणी धात्री धूरणी धरणी धरा ॥ १८-१४०॥ धार्मिका धर्मसहिता धर्मनिन्दकवर्जिता । नवीना नगजा निम्ना निम्ननाभिर्नगेश्वरी ॥ १८-१४१॥ नूतनाम्भोजनयना नवीनाम्भोजसुन्दरी । नागरी नगरज्येष्ठा नगराजसुता नगा ॥ १८-१४२॥ नागराजकृततोषा नागराजविभूषिता । नागेश्वरी नागरूढा नागराजकुलेश्वरी ॥ १८-१४३॥ नवीनेन्दुकला नान्दी नन्दिकेश्वरवल्लभा । नीरजा नीरजाक्षी च नीरजद्वन्द्वलोचना ॥ १८-१४४॥ नीरा नीरभवा वाणी नीरनिर्मलदेहिनी । नागयज्ञोपवीताढ्या नागयज्ञोपवीतिका ॥ १८-१४५॥ नागकेसरसंतुष्टा नागकेसरमालिनी । नवीनकेतकीकुन्द ? मल्लिकाम्भोजभूषिता ॥ १८-१४६॥ नायिका नायकप्रीता नायकप्रेमभूषिता । नायकप्रेमसहिता नायकप्रेमभाविता ॥ १८-१४७॥ नायकानन्दनिलया नायकानन्दकारिणी । नर्मकर्मरता नित्यं नर्मकर्मफलप्रदा ॥ १८-१४८॥ नर्मकर्मप्रिया नर्मा नर्मकर्मकृतालया । नर्मप्रीता नर्मरता नर्मध्यानपरायणा ॥ १८-१४९॥ पौष्णप्रिया च पौष्पेज्या पुष्पदामविभूषिता । पुण्यदा पूर्णिमा पूर्णा कोटिपुण्यफलप्रदा ॥ १८-१५०॥ पुराणागमगोप्या च पुराणागमगोपिता । पुराणगोचरा पूर्णा पूर्वा प्रौढा विलासिनी ॥ १८-१५१॥ प्रह्लादहृदयाह्लादगेहिनी पुण्यचारिणी । फाल्गुनी फाल्गुनप्रीता फाल्गुनप्रेधारिणी ॥ १८-१५२॥ फाल्गुनप्रेमदा चैव फणिराजविभूषिता । फणिकाञ्ची फणिप्रीता फणिहारविभूषिता ॥ १८-१५३॥ फणीशकृतसर्वाङ्गभूषणा फणिहारिणी । फणिप्रीता फणिरता फणिकङ्कणधारिणी ॥ १८-१५४॥ फलदा त्रिफला शक्ता फलाभरणभूषिता । फकारकूटसर्वाङ्गी फाल्गुनानन्दवर्द्धिनी ॥ १८-१५५॥ वासुदेवरता विज्ञा विज्ञविज्ञानकारिणी । वीणावती बलाकीर्णा बालपीयूषरोचिका ॥ १८-१५६॥ बालावसुमती विद्या विद्याहारविभूषिता । विद्यावती वैद्यपदप्रीता वैवस्वती बलिः ॥ १८-१५७॥ बलिविध्वंसिनी चैव वराङ्गस्था वरानना । विष्णोर्वक्षःस्थलस्था च वाग्वती विन्ध्यवासिनी ॥ १८-१५८॥ भीतिदा भयदा भानोरंशुजालसमप्रभा । भार्गवेज्या भृगोः पूज्या भरद्वारनमस्कृता ॥ १८-१५९॥ भीतिदा भयसंहन्त्री भीमाकारा च सुन्दरी । मायावती मानरता मानसम्मानतत्परा ॥ १८-१६०॥ माधवानन्ददा माध्वी मदिरामुदितेक्षणा । महोत्सवगुणोपेता महती च महद्गुणा ॥ १८-१६१॥ मदिरामोदनिरता मदिरामज्जने रता । यशोधरी यशोविद्या यशोदानन्दवर्द्धिनी ॥ १८-१६२॥ यशःकर्पूरधवला यशोदामविभूषिता । यमराजप्रिया योगमार्गानन्दप्रवर्द्धिनी ॥ १८-१६३॥ यमस्वसा च यमुना योगमार्गप्रवर्द्धिनी । यादवानन्दकर्त्री च यादवानन्दवर्द्धिनी ॥ १८-१६४॥ यज्ञप्रीता यज्ञमयी यज्ञकर्मविभूषिता । रामप्रीता रामरता रामतोषणतत्परा ॥ १८-१६५॥ राज्ञी राजकुलेज्या च राजराजेश्वरी रमा । रमणी रामणी रम्या रामानन्दप्रदायिनी ॥ १८-१६६॥ रजनीकरपूर्णास्या रक्तोत्पलविलोचना । लाङ्गलिप्रेमसंतुष्टा लाङ्गलिप्रणयप्रिया ॥ १८-१६७॥ लाक्षारुणा च ललना लीला लीलावती लया । लङ्केश्वरगुणप्रीता लङ्केशवरदायिनी ॥ १८-१६८॥ लवङ्गीकुसुमप्रीता लवङ्गकुसुमस्रजा । धाता विवस्वद्गृहिणी विवस्वत्प्रेमधारिणी ॥ १८-१६९॥ शवोपरिसमासीना शववक्षःस्थलस्थिता । शरणागतरक्षित्री शरण्या श्रीः शरद्गुणा ॥ १८-१७०॥ षट्कोणचक्रमध्यस्था सम्पदार्थनिषेविता । हूंकाराकारिणी देवी हूंकाररूपशोभिता ॥ १८-१७१॥ क्षेमङ्करी तथा क्षेमा क्षेमधामविवर्द्धिनी । क्षेमाम्नाया तथाज्ञा च इडा इश्वरवल्लभा ॥ १८-१७२॥ उग्रदक्षा तथा चोग्रा अकारादिस्वरोद्भवा । ऋकारवर्णकूटस्था ॠकारस्वरभूषिता ॥ १८-१७३॥ एकारा च तथा चैका एकाराक्षरवासिता । ऐष्टा चैषा तथा चौषा औकाराक्षरधारिणी ॥ १८-१७४॥ अं अःकारस्वरूपा च सर्वागमसुगोपिता । इत्येतत् कथितं देवि तारानामसहस्रकम् ॥ १८-१७५॥ य इदं पठति स्तोत्रं प्रत्यहं भक्तिभावतः । दिवा वा यदि वा रात्रौ सन्ध्ययोरुभयोरपि ॥ १८-१७६॥ स्तवराजस्य पाठेन राजा भवति किङ्करः । सर्वागमेषु पूज्यः स्यात् सर्वतन्त्रे स्वयं हरः ॥ १८-१७७॥ शिवस्थाने श्मशाने च शून्यागारे चतुष्पथे । य पठेच्छृणुयाद् वापि स योगी नात्र संशयः ॥ १८-१७८॥ यानि नामानि सन्त्यस्मिन् प्रसङ्गाद् मुरवैरिणः । ग्राह्याणि तानि कल्याणि नान्यान्यपि कदाचन ॥ १८-१७९॥ हरेर्नाम न गृह्णीयाद् न स्पृशेत् तुलसीदलम् । नान्यचिन्ता प्रकर्तव्या नान्यनिन्दा कदाचन ॥ १८-१८०॥ सिन्दूरकरवीराद्यैः पुष्पैर्लोहितकैस्तथा । योऽर्चयेद् भक्तिभावेन तस्यासाध्यं न किञ्चन ॥ १८-१८१॥ वातस्तम्भं जलस्तम्भं गतिस्तम्भं विवस्वतः । वह्नेः स्तम्भं करोत्येव स्तवस्यास्य प्रकीर्तनात् ॥ १८- १८२॥ श्रियमाकर्षयेत् तूर्णमानृण्यं जायते हठात् । यथा तृणं दहेद् वह्निस्तथारीन् मर्दयेत् क्षणात् ॥ १८-१८३॥ मोहयेद् राजपत्नीश्च देवानपि वशं नयेत् । यः पठेत् श‍ृणुयाद् वापि एकचित्तेन सर्वदा ॥ १८-१८४॥ दीर्घायुश्च सुखी वाग्मी वाणी तस्य वशङ्करी । सर्वतीर्थाभिषेकेण गयाश्राद्धेन यत् फलम् ॥ १८-१८५॥ तत्फलं लभते सत्यं यः पठेदेकचित्ततः । येषामाराधने श्रद्धा ये तु साधितुमुद्यताः ॥ १८-१८६॥ तेषां कृतित्वं सर्वं स्याद् गतिर्देवि परा च सा । ऋतुयुक्तलतागारे स्थित्वा दण्डेन ताडयेत् ॥ १८-१८७॥ जप्त्वा स्तुत्वा च भक्त्या च गच्छेद् वै तारिणीपदम् । अष्टम्यां च चतुर्दश्यां नवम्यां शनिवासरे ॥ १८-१८८॥ संक्रान्त्यां मण्डले रात्रौ अमावास्यां च योऽर्चयेत् । वर्षं व्याप्य च देवेशि तस्याधीनाश्च सिद्धयः ॥ १८-१८९॥ सुतहीना च या नारी दौर्भाग्यामयपीडिता । वन्ध्या वा काकवन्ध्या वा मृतगर्भा च याङ्गना ॥ १८-१९०॥ धनधान्यविहीना च रोगशोकाकुला च या । सापि चैतद् महादेवि भूर्जपत्रे लिखेत्ततः ॥ १८-१९१॥ सव्ये भुजे च बध्नीयात् सर्वसौख्यवती भवेत् । एवं पुमानपि प्रायो दुःखेन परिपीडितः ॥ १८-१९२॥ सभायां व्यसने घोरे विवादे शत्रुसंकटे । चतुरङ्गे च तथा युद्धे सर्वत्रारिप्रपीडिते ॥ १८-१९३॥ स्मरणादेव कल्याणि संक्षयं यान्ति दूरतः । पूजनीयं प्रयत्नेन शून्यागारे शिवालये ॥ १८-१९४॥ बिल्वमूले श्मशाने च तटे वा कुलमण्डले । शर्करासवसंयुक्तैर्भक्तैर्दुग्धैः सपायसैः ॥ १८-१९५॥ अपूपापिष्टसंयुक्तैर्नैवेद्यैश्च यथोचितैः । निवेदितं च यद्द्रव्यं भोक्तव्यं च विधानतः ॥ १८-१९६॥ तन्न चेद् भुज्यते मोहाद् भोक्तुं नेच्छन्ति देवताः । अनेनैव विधानेन योऽर्चयेत् परमेश्वरीम् ॥ १८-१९७॥ स भूमिवलये देवि साक्षादीशो न संशयः । महाशङ्खेन देवेशि सर्वं कार्यं जपादिकम् ॥ १८-१९८॥ कुलसर्वस्वकस्यैवं प्रभावो वर्णितो मया । न शक्यते समाख्यातुं वर्षकोटिशतैरपि ॥ १८-१९९॥ किञ्चिद् मया च चापल्यात् कथितं परमेश्वरि । जन्मान्तरसहस्रेण वर्णितुं नैव शक्यते ॥ १८-२००॥ कुलीनाय प्रदातव्यं ताराभक्तिपराय च । अन्यभक्ताय नो देयं वैष्णवाय विशेषतः ॥ १८-२०१॥ कुलीनाय महेच्छाय भक्तिश्रद्धापराय च । महात्मने सदा देयं परीक्षितगुणाय च ॥ १८-२०२॥ नाभक्ताय प्रदातव्यं पथ्यन्तरपराय च । न देयं देवदेवेशि गोप्यं सर्वागमेषु च ॥ १८-२०३॥ पूजाजपविहीनाय स्त्रीसुरानिन्दकाय च । न स्तवं दर्शयेत् क्वापि सन्दर्श्य शिवहा भवेत् ॥ १८-२०४॥ पठनीयं सदा देवि सर्वावस्थासु सर्वदा । यः स्तोत्रं कुलनायिके प्रतिदिनं भक्त्या पठेद् मानवः स स्याद्वित्तचयैर्धनेश्वरसमो विद्यामदैर्वाक्पतिः । सौन्दर्येण च मूर्तिमान् मनसिजः कीर्त्या च नारायणः शक्त्या शङ्कर एव सौख्यविभवैर्भूमेः पतिर्नान्यथा ॥ १८-२०५॥ इति ते कथितं गुह्यं तारानामसहस्रकम् । अस्मात् परतरं स्तोत्रं नास्ति तन्त्रेषु निश्चयः ॥ १८-२०६॥ इति श्रीबृहन्नीलतन्त्रे भैरवभैरवीसंवादे तारासहस्रनामनिरूपणं अष्टादशः पटलः ॥ १८॥