अक्षर आकार:

श्रीतारासहस्रनामस्तोत्रम् ३

Shri Tara Sahasranama Stotram 3

श्रीतारासहस्रनामस्तोत्रम् ३

श्रीगणेशाय नमः । हिमवदुत्तरे पार्श्वे देवदेवं सदाशिवम् । अम्बाश्चरूपिणं शान्तं नितान्तं योगिनी प्रियम् ॥ १॥ मुदारहसितं प्रीत्या शम्भु पृच्छति कालिका । कालिका उवाचः । अनाद्यन्तं महाकाल कालातीत परात्परः । कलौसिद्धि क्षणार्धेन कथं भवति तद्वदः ॥ २॥ कलौपाय समाकीर्णे सर्वधर्म विवर्जिते । साधकानां कथं सिद्धि चतुर्वर्गार्थसाधनम् ॥ ३॥ गतराज्यं महाराज्यं पदं सर्वार्थसाधनम् । वाञ्च्छासिद्धि कल्पनिकी मनोरथमयी परः ॥ ४॥ शक्तिपाल त्रिकालत्वं अष्टसिद्धिश्वरात्मकम् । कथं भवति विश्वेश तन्मेवद शिवप्रभो ॥ ५॥ शिव उवाचः । देवदेव महादेव सर्वदेव प्रपूजते । भक्तप्राण प्रिये साध्वी ममहं जिवनौषधि ॥ ६॥ रहस्यातिरहस्यं च कथं तत्प्रवदामिते । एतावत्काल पर्यन्तं गोपितं सर्व जन्तुषु ॥ ७॥ तद्रहस्यं महादेवि कथं तव वदाम्यहम् । त्वं च गोपयसिप्राज्ञेततेतर्हि वदाम्यहम् ॥ ८॥ कालिका उवाच । न प्रकाशौ देवेश ममिभ्युवायापिनोप्रभो । शिव उवाचः । विनापुष्पं विनागन्धं विनादानं विनाशिवे ॥ ९॥ विनामन्त्रं विनाजाप्यं विनाध्यानं विनाबलिम् । भूतशुद्धिविना द्रव्यंहोमशुद्धिविना प्रिये ॥ १०॥ येनसिद्धि क्षणार्धेन तदेव कथते महः । महानिलगिरौपूर्वं महाचोलहृदस्थिताः ॥ ११॥ तस्यत्रोत्तर भगेतुरा कुण्डाभिधं स्थितम् । तत्कुण्डे श्रीमहातारा विधाराती प्रतिष्ठिताः ॥ १२॥ कदाचितत्र सदसिसदस्था देवतागणात् । दृष्ट्वा तारामहाविद्या स्वमेवाव शरन्ददौ ॥ १३॥ ब्रह्मविष्णुमहेशानां कोटिनां तत्रकोटयः । कोटिवक्त्र विरञ्चाद्या महेन्द्राणां मनन्तकम् ॥ १४॥ महाविद्या महामन्त्रा हवनताश्चस मागताः । समस्तां स्तांश्च संविक्ष्य महोग्रादर्शनं ददौः ॥ १५॥ अष्टोतत्र स्वरचत्यस्व स्वकर्मपरायणा । अल्पालीठ पदातारा बटुकादैकणैर्युताः ॥ १६॥ स्वावृति देवता मुक्ता सहस्रा तत्र जायते । शब्दोजाते कहत्येव सर्वाश्चर्य करःपर ॥ १७॥ ककारे ब्रह्मरूपत्वं तत्कादिमतमीरितम् । हकारा शिवरूपत्वं तधादिमतमीरितम् ॥ १८॥ कादिः काली तथा हादिः सुन्दरि सावसक्तित । द्वयं मिलीत्वाद्वेवेश कहत्येवं मनुर्भवेत् ॥ १९॥ कहत्येवं महामन्त्रो हंसवह्नी व मात्रके । उत्तरोर्ध्वाम्नापराज्ञा कहत्येवं महामनुः ॥ २०॥ चन्द्राग्नि यक्षषोडारव परानिर्वतत्परा । शाम्भवं च तथा मेधा कदावपितथाद्भूतम् ॥ २१॥ चन्द्राग्नि रसराज्ञी च कामहंसादि वात्घतः । वासिवृका तपाचार्धे पूर्वाचात्र प्रयोजता ॥ २२॥ उभयत्रभवेन्मेधा द्वयीसाम्राज्यरूपिणी । चन्द्राग्निदेवपञ्चार्णा तयानीलाक्रमेणी च ॥ २३॥ हंसतारा तथा नीला कृमान्मेधा भवेच्छिवे । त्रयोक्ता दिव्यसाम्राज्यमेधा दीक्षाक्रमेभवेत् ॥ २४॥ पूर्वोत्तर द्वयोक्ताचेत्साम्राज्य हृदि सिद्धिदा । पतद्युक्तः कहत्यवंसद्वस्तत्र वभूव च ॥ २५॥ महोग्रतारयातत्र स्वस्यनामसहस्रकम् । कृत्वाक्षोश्वमुखादुक्तं कटाक्षोत्प्रेक्षणेन च ॥ २६॥ कलासोपान मानरूठस्तत्र पाठपरायण । वायुनातन्मुखोत्घात स्पर्शेनापि महेश्वरी ॥ २७॥ स्व स्वस्थानपदं प्राप्य स्वशक्तौ ददुतामियु । कोटिवक्त्र विरञाद्या स्व स्वस्थाना निलेभिरे ॥ २८॥ कटाक्ष दर्शनं दत्वा तत्रैतान्तर धायते । सकामनिरतासर्वे स्व स्वसिद्धि परायणा ॥ २९॥ तदेव नाम सहस्रं तवप्रीत्या निगद्यते । दिव्यसाम्राज्यनामाख्यं नामसाहस्रमुत्तमम् ॥ ३०॥ यथादिव्यौत्पतैर्दिव्यः कुसुमैः पूजिता परा । प्रसिदति तदातेन सदा तारा प्रसिदति ॥ ३१॥ पावकश्चैव सिन्दुरैरष्टगन्धैर्लिखैज्जपेत् । मज्जाभिश्च तथा रक्तैस्तर्पयेत्प्रपठेत्सदा ॥ ३२॥ अनन्त महिमाख्यं च नाम साहस्रकं श‍ृणु । दिव्यसाम्राज्यमेधाख्यं नाम साहस्रकस्य च ॥ ३३॥ अक्षोभ्यस्तु ऋषिः प्रोक्तो बृहति छन्द ईरितम् । ऊग्रतारा देवतास्या कूर्चबीजं प्रकीर्तितम् ॥ ३४॥ कालीतारा महाबीजं तथा छिन्नामयं शिवे । तारा बीजं तथा काल्या शक्ति छिन्नामनुर्भवेत् ॥ ३५॥ अत एव भवेत्कूर्चं चण्डघण्टामयं शिवे । अस्त्र शक्तिश्च भुवना कीलकं नचाङ्गुयक् ॥ ३६॥ प्रत्यक्ष दर्शनाद्यर्थे विनियोग प्रकीर्तितः । ध्यानं मन्त्रवदासाद्य नामसाहस्रकं पठेत् ॥ ३७॥ ॐ अस्य श्रीमहोग्रतारा दिव्य साम्राज्य मेधा नाम सहस्रकस्य अक्षोभ्यऋषिः बृहति छन्दः । उग्रतारादित्रिशक्ति देवता हं बीजं फट् शक्तिः हं कीलकं श्रीमहोग्रतारा प्रत्यक्ष दर्शनाद्यर्थे विनियोगः ॥ ३८॥ क्रां तारा स्त्रीहृदयमहातारा क्रमुग्रतारा तारिणी तरिः । महोग्रतारा स्त्रीतारा त्रिकटैकजटाधरा ॥ ३९॥ ततथैय्या भिनपगा तालताण्ड्वरूपिणी । ताण्डवाल्हाद निरत तहणी तहणाकृतिः ॥ ४०॥ तन्त्री वाद्यरता तन्त्रा तन्त्रशास्त्र परायणा । तारूण्यातकल्लोला तारूण्यामृतकन्यका ॥ ४१॥ तारूण्यामृत चान्द्री च तत्वदर्शनतत्परा । तीर्थसेवापरातुष्टा त्रां त्रीं त्रूं त्रैं स्वरूपिणी ॥ ४२॥ त्रोङ्कारात्रः स्वरूपा च त्रसा त्रस्तगतीस्तह । तनिम्रालालवृक्षस्था तालीपान परायणा ॥ ४३॥ तरूणीकुण्डनिरता तरूणीकुण्डरूपिणी । तरूणीकुसुमाल्हादा तरूणीबीजरूपिणी ॥ ४४॥ तरूणीगर्भसम्भूता तरूणीध्यानतत्परा । तरूणीपूजनिरता तरूणीभक्ततत्परा ॥ ४५॥ तरूणीलोचनानन्दलहरी तार्क्श्यवाहना । ताररूपा तामपर्णी ताम्रपत्रसमस्थिता ॥ ४६॥ तरूणीकुसुमामोहा तरूणीपुष्परूपिणी । तरूणीताडिकान्नाथा तरूणीमुखगोचरा ॥ ४७॥ तरूणीकेशसंस्था च तरूणीमुखमध्यगा । तरूणीवाक्यमध्या च तरूणीताण्डवर्णवा ॥ ४८॥ तरूणीगानसन्तुष्टा तरूणीभक्ततत्परा । तरूणीमुक्तीमाला च तरूणीभक्तरूपिणी ॥ ४९॥ तरूणीगमनप्रीत्या च तरूणीहास्यतत्परा । तरूणीनामिकानन्ता तरूणीरत्नरूपिणी ॥ ५०॥ तरूणीगमनप्रीत्या तरूणीयोगरूपिणी । तरूणीचुम्बनरता तरूणीलिङ्गरूपिणी ॥ ५१॥ तुला च तुलातल्पा तुलजापूरवासिनी । तनाननास्वरूपा च तथैरूपप्रधारिणी ॥ ५२॥ तोतला तैलसंप्रीता तृप्यतिमार्गपरायणा । तृसिदा तृणरूपा च तार्तीयगुणभूषिता ॥ ५३॥ तार्तीयबीजरूपा च तार्तीयाक्षररूपिणी । तत्वज्ञाना तत्वबुद्धि तत्वनाथा तथामति ॥ ५४॥ तौलिती च त्ववापी च तरस्थारूपिणी । तमातरमध्यस्वरूपा च तरदन्नर तामति ॥ ५५॥ तरूमूलस्थिता तद्रा तुष्टिस्त्रैकाल्यरूपिणी । त्रिकाल्यदा च त्रैर्पक्षताराणापकभूषणा ॥ ५६॥ त्वरिता त्वरितप्रीता तत्वदर्शी तमस्विनी । ताराक्षहारिणी तीर्णा तारूण्यकुण्डभोगिनी ॥ ५७॥ थकारवर्णनिलया थकाराक्षररूपिणी । थैथैरूपा थरिग्रूपा थौङ्गदादिकरूपिणी ॥ ५८॥ स्थूलवुध्नी स्थूलतनु स्थातध्यानपरायणा । थेथकुटाक्शरौप्यां थीन्थूङ्काराक्षरमालिनि ॥ ५९॥ थररूपादक्षणा च दानसन्मानदायिनि । दक्षपुत्री दक्षयज्ञनाशिनी दानवी दया ॥ ६०॥ दयाईहृदयादान्ता दैत्यनाशनकारिणी । दयालु दैत्यशमनी द्रव्यहाद्रव्यवत्साली ॥ ६१॥ द्रव्यगीता द्रव्यमाता दान्ता दारिद्र्य नाशिनी । दयार्ता दीपिनी दिशा दीपमार्गपरायणा ॥ ६२॥ दीनप्रीता दीर्घजीव्हा दारिद्र्यनाशिनीदित्ति । दुःखसंहारिणी दुष्टदैत्यविध्वंसनक्षमा ॥ ६३॥ दाडीमिपुष्परूपा च दाडीमिपुष्पपूजिता । दाडीमिवाजदत्ता च दाडीरूपा दरस्थिता ॥ ६४॥ दीर्घाक्षी दीर्घनासा च दीक्षिता दीक्षितेश्वरी । दुर्गा दुर्गविहंत्रि च दुःखप्रणाशिनी दरी ॥ ६५॥ दौर्गासुरविहंत्रि च दुर्गदारणतत्परा । दानदक्षा दानपूजा दानतुष्टा दयातति ॥ ६६॥ दासी दासीकुण्डरति दासीपुष्पपरायणा । दासीबीजरता दाना दीनारदायिनी द्रुती ॥ ६७॥ द्रुतसिद्धकरी दीर्घा दीर्घाका दीक्षितप्रिया । दासीचुम्बनसन्तुष्टा दासीमथनतत्परा ॥ ६८॥ दासीकुण्डप्रीतप्राणा दान्दीन्दून्दैं स्वरूपिणी । दूं बीजजपसन्तुष्टा दूंवुस्वाहा स्वरूपिणी ॥ ६९॥ धनदा धननाथा च धनधान्यविवर्धिनी । धूं बीजनिलया धूम्रा धूधून्धूमावति धृति ॥ ७०॥ धैर्यदा धारिणी धैर्या धरित्री च धराधरा । धर्मिष्ठा धर्मनिरता धर्ममार्गपरायणा ॥ ७१॥ धर्मप्राण धर्मगति धारासम्पातरूपिणी । धिमिथरिहवरूपा च धर्मतारा धनार्चिता ॥ ७२॥ धी धीषणा धीरगति धीराधीरस्वरूपिणी । धात्रीप्रसुनसन्तुष्टा धात्रीफलकुचद्वया ॥ ७३॥ धात्रीध्यानरता ध्याना ध्यानतत्वपरायणा । ध्यानदात्री ध्यानगात्रा ध्यानस्था ध्यानरूपिणी ॥ ७४॥ ध्येयरूपा ध्येयगम्या ध्येयचक्रसमस्थिता । ध्यानपरायणप्रीता ध्यानध्येयस्वरूपिणी ॥ ७५॥ ध्यानगम्या ध्यानतुष्टाः ध्यानगानपरायणा । धिकतान्धिस्वरूपा च धैधैशब्दपरायणा ॥ ७६॥ धर्मिनी धर्मपक्षाङ्गा धर्मकर्मपरायणा । धर्मग्रामरताङ्घ्रिं च ध्रीन्ध्रीन्धून्धौं स्वरूपिणी ॥ ७७॥ नररूपा नरप्रीता नरनाथा नरात्मिका । नारसिंही नतिर्नारी नरपुष्पस्वरूपिणी ॥ ७८॥ नरपुष्पप्रियप्राणा नरपुष्पप्रतर्पिता । नरपुष्पार्चनपुष्पा नरपुष्पक्रियामति ॥ ७९॥ नरपुष्पार्चनानन्दा नरपुष्पाम्बरा नदि । नरयज्ञा नरानन्दा नरयज्ञपरायणा ॥ ८०॥ नरनापूरतानाना नतनानास्वरूपिणी । नानामाना ननननास्वरूपा नाप्रर्विता ॥ ८१॥ नाप्रीता नाप्रशाला नाटिकानन्दतोषिता । नानाभाषाप्ररूढा च नानावर्णश्चरूपिणी ॥ ८२॥ नागिनी नागभूषा च नागार्हार्नागरूपिणी । नगज्वानगसम्भूता नगवंश प्रतोषिता ॥ ८३॥ नादरूपा नादगतिर्नादब्रह्म परायणा । नारदप्रियसन्तुष्टा नारदप्रियमानसा ॥ ८४॥ नारदा नारदेशी च नदीनिम्नस्वरूपिणी । निम्ननाभी निश्चयोनि निम्ननेत्रा नरोत्तमा ॥ ८५॥ नरवाहनसन्तुष्टा नरवाहनतत्परा । नान्नीन्नून्नैन्नौं स्वरूपा च नमोरूपा नमोनमः ॥ ८६॥ नमस्कारप्रिया नित्या नित्यानन्दस्वरूपिणी । नित्यपूजार्चनप्रीता नित्यपूजापरायणा ॥ ८७॥ नित्योत्सवपरानन्दा नीररूपा नीराकृती । नर्मदा नर्मरूपा च नर्मकुण्डवीकानी ॥ ८८॥ नर्मकुण्डलेलिहाना नर्मनटप्रिया । नैमित्तिकार्चनप्रीता नैमित्तिकपरायणा ॥ ८९॥ नर्मदा नर्मदात्री च नर्मकर्मपरायणा । नीवीमोचनसन्तुष्टा नीवीमोचनतत्परा ॥ ९०॥ नारीपुष्पप्रियाप्राणा नारीपुष्पपरायणा । नारीपुष्पमतीप्रीता नारीपुष्पस्वरूपिणी ॥ ९१॥ नैर्यापिका नववीणा च नाडीनादपरायणा । नाडीनादपरानन्दा नाडीनादपरागती ॥ ९२॥ नाडीनादात्मिका नौका नौकाक्रीडापरायणा । पद्मपूजनसन्तुष्टा पद्महोमपरायणा ॥ ९३॥ परमानन्दसन्दोहा परमाकाशरूपिणी । परातीता परागम्या परमात्मा परागति ॥ ९४॥ पम्पातीरनिवासा च प्रद्युम्नाप्रीतिरूपिणी । प्राणवा प्राणवेज्या च परतत्वा परायणा ॥ ९५॥ पद्मपत्रा पद्मतुष्टा तुष्टीपावनरूपिणी । पापसंहारिणी तुष्टा पुण्यदात्री परातरी ॥ ९६॥ पुरी पुरारी गृहिणी पुराणागमरूपिणी । पुराणगम्या पानाट्या पानतोषणतत्परा ॥ ९७॥ पानानन्दा पीततनुस्था तैवपि रसस्वनी । पीनयोनी पीतजङ्घा पीताम्बरधरावति ॥ ९८॥ पीताम्बरा पीतगर्भा पीतपुष्पार्चनप्रिया । पीतपुष्पाञ्जलिरता पीतद्रदनिवासिनी ॥ ९९॥ पीठस्था पीठरूपा च पीठवासपरायणा । परदारप्रिया पत्राधरधार प्रहर्षिणी ॥ १००॥ परदारप्रहरसि परदारविरोधिनी । परदारप्रियापात्रा पात्रतोषणतत्परा ॥ १०१॥ पात्ररूपा पात्रतुष्टी पात्रदानपरायणा । पात्रपुष्पप्रिया पात्रकुण्डानन्दपरेश्वरी ॥ १०२॥ पात्राराधनसन्तुष्टा पात्रप्रासादरूपिणी । पवित्रा पुण्यचारित्रा पवित्रारोपणात्मिका ॥ १०३॥ पवित्ररोपणरता पात्रगानपरायणा । पात्रगीत पात्रनपा पात्रसंयोगरूपिणी ॥ १०४॥ पात्रकुण्डविकसता पात्रकुण्डविलोहिनी । पात्रकुण्डध्वनिरता पात्रकुण्डध्वनिप्रिया ॥ १०५॥ परनिद्राविनिर्मुक्ता परद्रव्यविमोचनी । परस्वनाशिनीप्रीता पार्वती पर्वतात्मजा ॥ १०६॥ पर्वतेज्या पर्वरता पर्वतप्रियरूपिणी । परायणा पारची च पतिधर्मविधारिणी ॥ १०७॥ पतिप्रिया प्रीतिरता पतिगम्या पतिव्रता । पतिव्रतधरा पीनवक्षोजद्वयधारिणी ॥ १०८॥ पिशाचप्रेमसन्तुष्टा प्रेतकोटिसमाकुला । प्रेतगर्भा प्रेतरूपा प्रेतभूषणभूषणी ॥ १०९॥ प्रेतमालाकण्ठभूषा प्रेतलेहनतत्परा । प्रेतशी प्रेतराज्ञी च प्रेतव्रतपरायणा ॥ ११०॥ पिशाचानन्दसन्तोषा पार्थप्रीतिपरायणा । पार्थिवा पार्थवेज्या च पृथुला पृथुरूपिणी । १११॥। पृथ्वी च पृथिवी पिङ्गा पिङ्गनेत्रा च पिङ्कटा । पापान् विनाशिनी पद्या गद्यपद्यपरायणा ॥ ११२॥ पद्यात्मिका पद्यरता पाम्पीम्पूम्पौं स्वरूपिणी । पाम्पीङ्काररता प्राणा प्राणदात्री प्रतापिनी ॥ ११३॥ प्रभावती प्रभाप्रेमा प्रेमयोगपरायणा । प्रज्ञा प्रज्ञावतीप्रज्ञा प्रज्ञानप्रतिभावती ॥ ११४॥ प्रतिभा प्रणतीप्राणा प्रज्ञापतिग्रहस्थिता । प्रजापति प्रियापारा पुरीन्द्रध्वजशोभिता ॥ ११५॥ प्रमतीप्राणधर्तृ च प्रतिज्ञापारगामिनी । फुम्फुङ्कारा च फट्कारा फट्काररूपधारिणी ॥ ११६॥ फ्रीङ्कार फूत्कृतिः फ्रूं च स्फङ्कारारूपधारिणी । फ्रोङ्काराफेरवी फ्राम्फ्रूम्फेत्कारी फणधारिणी ॥ ११७॥ फेणिप्रीता फणेरता फणदर्शनतोषिणी । फणिभूषणसम्भूषा फणिनाथप्रियार्चिता ॥ ११८॥ फणिबन्धसमुद्भूता फणिवंशसुशोभिनी । पशुहस्ता पशुमति परशुरामप्रसादिनी ॥ ११९॥ फेत्कारभैरवी फ्रौण्टा फ्रेत्कारारवभाषिणी । फ्रेत्कारा फाल्गुनानन्दा फली फुल्लप्रिया फुला ॥ १२०॥ फलदात्री फलरता फलरूपा फलात्मिका । फलहोमप्रियस्फाला फलनामपरायणा ॥ १२१॥ बृहस्पतिमुखस्था च बृहतीछन्दरूपिणी । बृहत्सेवा बृहत्ब्रह्मी ब्रह्मीब्रह्मप्रपूजिता ॥ १२२॥ ब्रह्मवृत्तधरावीणा बाण्सन्धानकारिणी । बाणासुरार्चिता ब्रूं च ब्राम्ब्रीम्ब्रैम्ब्रौं स्वरूपिणी ॥ १२३॥ बर्हिपिछुमिया बर्हा बर्हपछविभूषणा । बटुका बटुकेज्या च बटुकप्राणमानसा ॥ १२४॥ बटूकाभैरवरता बटुकार्चनतोषिणी । बटुकार्चनसन्तुष्टा बलीदानप्रियाबली ॥ १२५॥ बलिपूज्या बलिरता बलिदाननिवासिनी । बलिद्वारस्थिता बाला बालां वा बालभैरवी ॥ १२६॥ बालक्रीडामयप्राणा बालकप्रियकारिणी । बलितुष्टा बलिरता बलितोषणकारिणी ॥ १२७॥ बलिमाता बलिमयि बलितत्वात्मिकाबली । बला बलार्चनप्रीता बलधारणतत्परा ॥ १२८॥ बटुकाराधनरता बटुकेज्या बटुप्रिया । बटुकाराधनप्रीता बटुकार्यवतारिणी ॥ १२९॥ बटुतारा बटुछिन्ना बटुकाली बृहन्मयी । बृहत्कुक्षि बृहत्तारा बृहत्तन्त्रागमेश्वरी ॥ १३०॥ बृहद्रुणा बृहद्यन्त्रा बृहत्तन्त्रा बृहत्कला । बृहन्माता बृहज्वाला बृहन्मानमयीबृहत् ॥ १३१॥ बृहत्ताण्डवरूपा च बृहत्तारूण्यरूपिणी । बृहदारण्यसंसेव्या बालचन्द्रकिरीटिनी ॥ १३२॥ बलदा बाहुभूषा च बाहुमालाविभूषणा । बाहुला बाहुलेयेसी बाहुलेयस्वरूपिणी ॥ १३३॥ बहुभाषामयी बुद्ध्या बुद्धिदा बुद्धिदायिनी । बुद्धि बुद्धिमता बौद्धा बौद्धाचारपरायणा ॥ १३४॥ बौद्धमार्गप्रियाप्रीता बौद्धमार्गपवर्तिनी । बृहस्पतिसुताराध्या बुद्धिमाता बुधेश्वरी ॥ १३५॥ बौद्धावारूपिणी भार्या भानवी भानुरूपिणी । भानुमत्ता भानुमयी भानुभार्या भवेश्वरी ॥ १३६॥ भवपत्नी भयहरा भवदानवनाशिनी । भवमाता भवरताश्रवतारणतारिणी ॥ १३७॥ भर्तप्रिया भर्तरता भर्तभावप्रकाशिनी । भर्तनीतिकरी भार्या भर्तदा भीमभीषणी ॥ १३८॥ भीक्षूपूज्या भिक्षूमाता भिक्षूमानसतोषिणी । भीमसेनप्रिया भीमा भीमाक्षी भीमभीतिदा ॥ १३९॥ भ्रान्तहन्त्री भयहरा भवपाशविमोचिनी । भवदावानलघ्नी च भक्तपूज्या भवार्तिहा ॥ १४०॥ भक्ततुष्टा भौममाता भोपा भोपप्रताशिनी । भृगरूपा भृगोपत्नी भृगुताण्डवकारिणी ॥ १४१॥ भृगुत्सेवरता भ्रान्तीहारिणी भारतप्रिया । भारती भानवेश्या च भाषा भीमामयी भवा ॥ १४२॥ भानमती भुक्तिमयी भ्रूं बीजाक्षररूपिणी । भ्राम्भ्रीम्भ्रूम्भ्रैं स्वरूपिणी भ्रमतीवविनाशिनी ॥ १४३॥ भङ्गा भङ्गाप्रिया भृङ्गी भृङ्गध्वनिपरायणा । भ्रातृजाया भगवती भवानी भक्तवत्सला ॥ १४४॥ भवसिद्धा भगेज्या च भगमाला भवेश्वरी । भ्रान्ता भ्रमरिका भीति भ्राजिश्णु भक्तरूपिणी ॥ १४५॥ भक्तमानसन्तुष्टा भवती भ्रमराम्बिका । भ्रामरी भ्रान्तमाला च भवेज्या भवसिद्धिदा ॥ १४६॥ भगरूपा भगरता भगगीतीमयी भगा । भङ्काररूपिणी भ्रामा भगमालाविभूषणा ॥ १४७॥ भगलिङ्गस्वरूपा च भगलिङ्गपरायणा । भगलिङ्गामृतान्दोला भगाविलोलुपा ॥ १४८॥ भगार्चनरतानन्दी भगभाग्यपरायणा । भगतत्वा भगाव्हा च भगलिङ्गध्वनी भगा ॥ १४९॥ भगनी भार्गवेज्या च भगमाला भगाङ्कुरा । भगकुण्डाल्हादरता भगकुण्डविकासिनी ॥ १५०॥ भवित्री भविता भूता भूतमाता च भूपति । भूपेज्या भूपसन्तुष्टा भैक्ष्यचर्वणतत्परा ॥ १५१॥ भगनामस्मृतिपरा भगजापपरायणा । भगतन्त्रा भगामोहा भगगन्धपरायणा ॥ १५२॥ भगवापीस्नानरता भगतीर्थनिवासिनी । भगदर्शनसन्तुष्टा भगचुम्बनतोषिणी ॥ १५३॥ भगजिव्हा भगमुखा भगचक्षु भगाम्बुजा । भूतेशी भूतदुर्गस्था भूपतित्वप्रदायिनी ॥ १५४॥ भूम्भूङ्कारस्वरूपा च भद्रशब्दपरायणा । भहभहारकामहा भाष्यकर्ता भयापहा ॥ १५५॥ भरता भरतेशी च भरताप्राणदायिनी । भरताप्रेमसन्तुष्टा भरताधाररूपिणी ॥ १५६॥ भूभारा भूधराधीशा भूधरा भूधरप्रिया । मामीपानन्दना माया मद्यपानपरायणा ॥ १५७॥ मधुप्रीता मधुरता मधुरा मधुरामधु । मदिरा मदिरोन्मत्ता माननीया मदोद्धता ॥ १५८॥ माध्वीपानरता माता मायाबीजव्हयामती । निमाता मालिनी मात्रा मदनीमृतदर्पिका ॥ १५९॥ मानाक्षी मातुलानी च मोदिनी मदनातुरा । म्राम्म्रीम्म्रूम्रैं स्वरूपा च म्रौम्म्रः सर्वस्वरूपिणी ॥ १६०॥ मिताक्षरा मिताहारा मिताचार मनोमयी । मलिना मलिनी मैत्रा मैत्रवारूणतारुणी ॥ १६१॥ मायावती मानवती महामधुमतिमयी । महीधरसक्ता मात्रा मात्रास्वरविभेदिनी ॥ १६२॥ मीनरूपा मीननाथा मालती मधुलोलुपा । मधुपानरता मारी महामारी महीपति ॥ १६३॥ महाकाली महातारा महाछिन्ना महेश्वरी । माहेशी च मदस्था च मदनस्थानरूपिणी ॥ १६४॥ मदनप्रियकान्ता च महायोगेश्वरी मखी । महामदनसन्तुष्टा महामदनभूषिता ॥ १६५॥ महिता महिला माया मकाराक्षररूपिणी । मकाररूपिणी मुद्रा मुद्रामोदपरायणा ॥ १६६॥ मेहस्था मेहमाता च मेहमित्रा महत्प्रिया । महता मोजसाकारा महतानन्ददायिनी ॥ १६७॥ मधुमांसा मेहतारा मेहप्रस्ताररूपिणी । मेहपुत्री च मीनाक्षी मितभाषा मितार्थवित् ॥ १६८॥ मदनान्तककान्ता च मदनान्तकरूपिणी । महोरगा महोशुषा महती महिषापहा ॥ १६९॥ महिषासुरनिर्नाशी मुण्डमालाविभूषणा । मुण्डप्राकारसंरूपा मुण्डासुरविमर्दिनी ॥ १७०॥ मानसा मानसेसी च मुद्रिण्यम्बास्वरूपिणी । मुद्रिणी मन्त्रिणी मन्त्रा महामन्त्रा महार्णवा ॥ १७१॥ महार्णवस्थिता मोहा मोहिनीनाशिनी मरुत् । मनुर्मनुमयी माद्री मद्रकुञ्जरवासिनी ॥ १७२॥ मद्रकुम्भस्थलारूढा मद्मुक्ताविभूषणा । मुक्ताहारविभूषाढ्या मुक्तकेशी महूर्तदा ॥ १७३॥ मोहकर्ती मोहहीना महामोहपरायणा । मन्त्रप्राणार्पणप्रीता मन्त्रप्राणार्पणार्चिता ॥ १७४॥ महौघानन्दा मन्दगन्धा मद्यपूजनतत्परा । मकारवर्णसर्वाङ्गी मितभोगा मितान्मिता ॥ १७५॥ महाधूम्रावती मुक्ता महामुक्ताविभूषणा । मुक्तारजन्तनासा च मुक्ताछत्रविभूषणा ॥ १७६॥ मुक्तदानरता मध्या मध्यमा मध्यमेश्वरी । मितीर्मीतीमती मीनकेतु मकररूपिणी ॥ १७७॥ मकरस्था महादेवी महादेव मनोमयी । महोत्सवादुर्गा माया महापूजारमेत्यदा ॥ १७८॥ महाग्रहस्वरूपा च मघानक्षत्ररूपिणी । मद्यमांसवृतरता माघस्नानपरायणा ॥ १७९॥ मार्गशीर्षप्रियानन्दा मार्गदर्शनतत्परा । मार्गमार्गामात्रका च मातृकालिपिरूपिणी ॥ १८०॥ मातृकान्याससन्तुष्टा मातृकान्यासरूपिणी । मालिनीन्याससन्तुष्टा मालिनीमोक्षदायिनी ॥ १८१॥ मोक्षदात्री मोक्षगर्ती मोक्षमार्गपरायणा । मुक्ता मुक्तिप्रियकरी मुक्तिस्था मुक्तिताण्डवा ॥ १८२॥ महानन्दा महाकाली महाभुवनतारिणी । महेन्द्रपूज्या माहेशी मतिसागरदायिनी ॥ १८३॥ यक्षा यक्षस्वरूपा च यक्षणी यक्षपूजिता । यादेवी यादवाराध्या यदुवंशसमुद्भवा ॥ १८४॥ यमुना च यजुर्वेदा यजुर्वेदपरायणा । यामिनी यमपूज्या च यममातापतिप्रिया ॥ १८५॥ यात्रा यात्रयशोदा च यशोवर्धनतत्परा । यशकर्पूरधवला योगिनी च यशस्विनी ॥ १८६॥ यांयींयूं याकिनीरूपा यैंयौं यङ्काररूपिणी । योगमाता योगगम्या योगमार्गपरायणा ॥ १८७॥ योगीशा योजना यामा योजनायुतविस्तरा । यथोक्ताचारनिरता यथोक्तफलदायिनी ॥ १८८॥ यक्षकर्दमसम्भूषा यवर्गरूपिणीपति । रमणी रमणीप्रीता रमा रत्नेश्वरी रती ॥ १८९॥ रतिप्रिया रतिरता रतितोषणतत्परा । रत्नगर्भा रत्नबीजा राजीवलोचना रमा ॥ १९०॥ राम्बीजा रींस्वरूपा च रांरींरूंरैं स्वरूपिणी । रौंरः वर्णस्वरूपा च राज्यदातृ रसातुला ॥ १९१॥ रसतुष्टा रसगति रघुवंशसमुद्भवा । रतिरूपा रतान्ता च रतिगर्भपरायणा ॥ १९२॥ राजीवनेत्रा राज्ञी च रमणासुरकन्यका । राजराजेश्वरीद्रष्टा रौद्री रूद्रप्रिया च हट् ॥ १९३॥ हद्रकन्या हद्रजाया हद्रमातारतानन्दा । हद्रेज्या च त्रिरूपा च रात्रिञ्चरविभेदिनी ॥ १९४॥ राक्षसघ्नी रक्षणा च रक्षोविद्रावणी रता । हचिरा हचिरूपा च रोचिषा रोमरूपिणी ॥ १९५॥ रोमगर्भा रोमदेहा रोमभूषणतत्परा । रसा रसवती राज्यलक्ष्मी रावणनाशिनी ॥ १९६॥ रावणेज्या रवदता रावणप्रियदायिनी । रजोवती रजःप्राणा रजोगुणमयी रवा ॥ १९७॥ रतिपुष्पप्रिया रूंरूं राकिणी रेणुका रया । रैं बीजनिलया रैण्णा रेणुरूपा च हाकिनी ॥ १९८॥ हक्वाङ्गदस्यभगिनी हक्यरूपा च रूपभू । रौप्यपरा रौप्यरौप्या रौप्यगेहविभूषणा ॥ १९९॥ रौप्यसिंहासनरता रौप्यदानपरायणा ॥ २००॥ इति श्रीदिव्यसाम्राज्यमेधानामसहस्रकम् । महोग्रानामसाहस्रं तारण्या गदितं पुरा ॥ २०१॥ अक्षोभ्यस्ववरोदत्तप्रसादेन प्रकीर्तितम् । इदमेवपुरादेवी कालेनापि प्रकीर्तितम् ॥ २०२॥ अष्टाधिकसहस्रन्तु नमः स्वाहास्रमेवतु । तवर्गान्तुरकारान्तं तेनतारामयं शिवे ॥ २०३॥ सर्वसिद्धिमयं साक्षात् सर्वापत्तारणं परम् । पूजाकाले विशेषेण सन्ध्यायोभययोरपि ॥ २०४॥ यः पठेत्प्रयतोनित्यं ताराप्रत्यक्षतामियात् । एककालं द्विकालं वा त्रिकालं यः पठेन्नरः ॥ २०५॥ अर्धरात्रे विशेषेण सर्वसिद्धिप्रदं शिवे । कुलका स्मरणं तारा ध्यानं नामप्रकीर्तितम् ॥ २०६॥ भक्तस्य कृत्यमेतावदन्यदभ्युदयं विदुः । सर्व सङ्कट विनिर्मुक्त सर्व सत्व समन्वितः ॥ २०७॥ सर्वसिद्दिश्वरोभूयान्नात्र कार्या विचारणात् । यः पठेद्वापाठयेद्वापि श‍ृणोतिश्रावयैदपि ॥ २०८॥ सर्वपापविनिर्मुक्तसयाति तारणीपदम् । सर्वशास्त्रार्थवेत्ता च महाश्रुत्यधर कविः ॥ २०९॥ शून्यागारे शवे मुण्डे श्मशाने रणमण्डले । राजमञ्चे नदीकुले शय्यायामेकलिङ्गके ॥ २१०॥ चतुष्पथे तडागे चनङ्गागर्भेशिवालये । प्रान्तरेसर्वतेघोरे योनौऋतु पतिगृहे ॥ २११॥ वेश्यावासे पीठमध्ये सूतिकाया गृहे तथा । यः स्मरेत्परया भक्त्या ताराभक्तिपरायणा ॥ २१२॥ नान्यनामस्मरेदेवि नान्यचित्तञ्चरेत्क्वचित् । सिन्दूरतिलकोन्नित्यं रक्तचन्दन त्रिपुण्ड्रधृत् ॥ २१३॥ ताराध्यायनपिस्तोत्रं सिद्धिनामधिपो भवेत् । खड्गस्तम्भं जगत्स्तम्भं सैन्यस्तम्भं विवस्वत ॥ २१४॥ ऋतुमत्या भगन्दृष्ट्वा ताराध्यानपरायणः । प्रजपेत् परमेशानि सर्वैश्वर्यमयो भवेत् ॥ २१५॥ अष्टोत्तरशतञ्जप्त्वा भगमामन्त्र पार्वति । भगं विकसितं कृत्वा जपेत् सिद्धिश्वरो भवेत् ॥ २१६॥ तूर्णमाकर्षयेद्रव्यं लक्षपऽचकजापतः । मेष माहिष मार्जार शूकरा सर्व मुख्यकैः ॥ २१७॥ दुग्धैसुक्तिश्चपूजान्ते तारां सन्तपर्येत्पठेत् । तारायादर्शनं प्राप्य त्रैलोक्ये विजयी भवेत् ॥ २१८॥ दिवाशक्तिमुखं तस्यचेस्मालय परायणा । प्रजपेद्यत्नतो देवि सुरेन्द्रसदृशो भवेत् । २१९॥ दूतीयागविधायाथ दूतीसन्तोषभक्तितः । मन्त्रमादौजपे देवि मध्ये नाम सहस्रकम् ॥ २२०॥ पुनर्मन्त्रं जपे देवि शक्तियोगं समेश्वरी । मासमात्र प्रयोगेण सर्व कार्यक्षमो भवेत् ॥ २२१॥ भोगेच्छयान कर्तव्यं ममछायो भवेद्ध्रुवम् । स्वयम्भुः कुसुमैः शुक्रैः जपापावकसंयुतैः ॥ २२२॥ रक्तचन्दनस्यन्दुरैः मत्स्यमांसादिभिः प्रिये । अनन्यभुक्त स्थिरधी मुक्तकेशो दिगम्बरः ॥ २२३॥ केशात्संवर्धये देवि तारा भव परायणा । शिवस्थो वा श्मशानस्थ शून्यालय गतो शिवा ॥ २२४॥ तारिणीं पूजयेदित्या धूपदीपादिभिः शिवे । जप्त्वा तारा महामन्त्रं पठेन्नामसहस्रकम् ॥ २२५॥ सुदर्शनोभवेद्यासु देव गन्धर्व सेवितः । स भवेत्तारिणीं पुत्र इति ख्याति भवेच्छिवे ॥ २२६॥ इति श्री महोग्राताराक्शोभ्य संवादे अक्षोभ्यसंहितायां शतार्धसहस्रां ताराविरचितं दिव्यसाम्राज्यमेधाख्यं नामसहस्रं विंशति पटलः ।