अक्षर आकार:

श्रीतारासहस्रनामावली १ तकारादि

shrItArAsahasranAmAvalI 1 takArAdi

श्रीतारासहस्रनामावली १ तकारादि

१. विश्वव्यापकवारिमध्यविलसच्छ्वेताम्बुजन्मस्थिताम् । कर्त्रीखड्गकपालनीलनलिनैः राजत्करां नीलभाम् ॥ काञ्चीकुण्डलहारकङ्कणलसत्केयूरमञ्जीरकाम् । आप्तैर्नागवरैर्विभूषिततनुं चारक्तनेत्रत्रयाम् ॥ पिङ्गैकाग्रजटां लसत्सुरसनां दंष्ट्राकरालाननाम् । हस्तैश्चापि वरं कटौ विदधतीं श्वेतास्थिपट्टालिकाम् ॥ अक्षेभ्येण विराजमानशिरसं स्मेराननाम्भोरुहाम् । तारं शावहृदासनां दृढकुचामम्बां त्रिलोक्यां भजे ॥ २. श्वेताम्बरां शारदचन्द्रकान्तिं सद्भूषणां चन्द्रकलावतंसाम् । कर्त्रीकपालान्वितपादपद्मां तारां त्रिनेत्रां प्रभजेऽखिलर्द्ध्यै ॥ ३. प्रत्यालीढपदार्पिताङ्घ्रिशवहृद्घोराट्टहासा परा । खड्गेन्दीवरकर्त्रिखर्परभुजा हुङ्कारबीजोद्भवा ॥ खर्वा नीलविशालपिङ्गलजटाजूटैकनागैर्युता । जाड्यं न्यस्य कपालके त्रिजगतां हन्त्युग्रतारा स्वयम् ॥ ४. सात्त्विकमूर्तिध्यानम् ॥ श्वेताम्बराढ्यां हंसस्थां मुक्ताभरणभूषिताम् । चतुर्वक्त्रामष्टभुजैर्दधानां कुण्डिकाम्बुजे ॥ वराभये पाशशक्ती अक्षस्रक्पुष्पमालिके । शब्दपाथोनिधेर्मध्ये तारां स्थितिकरीं भजे ॥ ५. राजसमूर्तिध्यानम् ॥ रक्ताम्बरां रक्तसिंहासनस्थां हेमभूषिताम् । एकवक्त्रां वेदसङ्ख्यैर्भुजैः सम्बिभ्रतीं क्रमात् ॥ अक्षमालां पानपात्रमभयं वरमुत्तमम् । श्वेतद्वीपस्थितां वन्दे तारां स्थितिपरायणाम् ॥ ६. तामसमूर्तिध्यानम् ॥ कृष्णाम्बराढ्यां नौसंस्थामस्थ्याभरणभूषिताम् । नववक्त्रां भुजैरष्टादशभिर्दधतीं वरम् ॥ अभयं परशुं दर्वीं खड्गं पाशुपतं हलम् । भिन्दिं शूलं च मुसलं कर्त्रीं शक्तिं त्रिशीर्षकम् ॥ संहारास्त्रं वज्रपाशौ खट्वाङ्गं गदया सह । ॐ तारायै नमः । ॐ तारादि पञ्चार्णायै नमः । ॐ तारान्यावेदवीर्यजायै नमः । ॐ तारायै नमः । ॐ तारहितावर्णायै नमः । ॐ ताराद्यायै नमः । ॐ ताररूपिण्यै नमः । ॐ तारारात्रिसमुत्पन्नायै नमः । ॐ तारारात्रिवरोद्यतायै नमः । ॐ तारारात्रिजपासक्तायै नमः । १० ॐ तारारात्रिस्वरूपिण्यै नमः । ॐ ताराराज्ञीस्वसन्तुष्टायै नमः । ॐ ताराराज्ञीवरप्रदायै नमः । ॐ ताराराज्ञीस्वरूपायै नमः । ॐ ताराराज्ञीप्रसिद्धिदायै नमः । ॐ ताराहृत्पङ्कजागारायै नमः । ॐ ताराहृत्पङ्कजापरायै नमः । ॐ ताराहृत्पङ्कजाधारायै नमः । ॐ ताराहृत्पङ्कजायै नमः । ॐ तारेश्वर्यै नमः । २० ॐ ताराभायै नमः । ॐ तारागणस्वरूपिण्यै नमः । ॐ तारागणसमाकीर्णायै नमः । ॐ तारागणनिषेवितायै नमः । ॐ तारायै नमः । ॐ तारान्वितायै नमः । ॐ तारारत्नान्वितविभूषणायै नमः । ॐ तारागणरणासन्नायै नमः । ॐ ताराकृत्यप्रपूजितायै नमः । ॐ तारागणकृताहारायै नमः । ३० ॐ तारागणकृताश्रयायै नमः । ॐ तारागणकृतागारायै नमः । ॐ तारागणनतत्परायै नमः । ॐ तारागुणगणाकीर्णायै नमः । ॐ तारागुणगणप्रदायै नमः । ॐ तारागुणगणासक्तायै नमः । ॐ तारागुणगणालयायै नमः । ॐ तारेश्वर्यै नमः । ॐ तारपूज्यायै नमः । ॐ ताराजप्यायै नमः । ४० ॐ तारणायै नमः । ॐ तारमुख्यायै नमः । ॐ ताराख्यायै नमः । ॐ तारदक्षायै नमः । ॐ तारिण्यै नमः । ॐ तारागम्यायै नमः । ॐ तारस्थायै नमः । ॐ तारामृततरङ्गिण्यै नमः । ॐ तारभव्यायै नमः । ॐ तारार्णायै नमः । ५० ॐ तारहव्यायै नमः । ॐ तारिण्यै नमः । ॐ तारकायै नमः । ॐ तारकान्तस्थायै नमः । ॐ तारकाराशिभूषणायै नमः । ॐ तारकाहारशोभाढ्यायै नमः । ॐ तारकावेष्टिताङ्गणायै नमः । ॐ तारकाहंसकाकीर्णायै नमः । ॐ तारकाकृतभूषणायै नमः । ॐ तारकाङ्गदशोभाङ्ग्यै नमः । ६० ॐ तारकाश्रितकङ्कणायै नमः । ॐ तारकाञ्चितकाञ्च्यै नमः । ॐ तारकान्वितभक्षणायै नमः । ॐ तारकाचित्रवसनायै नमः । ॐ तारकासनमण्डलायै नमः । ॐ तारकाकीर्णमुकुटायै नमः । ॐ तारकाश्रितकुण्डलायै नमः । ॐ तारकान्वितताटङ्कयुग्मगण्डस्थलोज्ज्वलायै नमः । ॐ तारकाश्रितपादाब्जायै नमः । ॐ तारकावरदायिकायै नमः । ७० ॐ तारकादत्तहृदयायै नमः । ॐ तारकाञ्चितसायकायै नमः । ॐ तारकान्यासकुशलायै नमः । ॐ तारकान्यासविग्रहायै नमः । ॐ तारकान्याससन्तुष्टायै नमः । ॐ तारकान्याससिद्धिदायै नमः । ॐ तारकान्यासनिलयायै नमः । ॐ तारकान्यासपूजितायै नमः । ॐ तारकान्याससंहृष्टायै नमः । ॐ तारकान्याससिद्धिदायै नमः । ८० ॐ तारकान्याससम्मग्नायै नमः । ॐ तारकान्यासवासिन्यै नमः । ॐ तारकान्याससम्पूर्णमन्त्रसिद्धिविधायिन्यै नमः । ॐ तारकोपासकप्राणायै नमः । ॐ तारकोपासकप्रियायै नमः । ॐ तारकोपासकासाध्यायै नमः । ॐ तारकोपासकेष्टदायै नमः । ॐ तारकोपासकासक्तायै नमः । ॐ तारकोपासकार्थिन्यै नमः । ॐ तारकोपासकाराध्यायै नमः । ९० ॐ तारकोपासकाश्रयायै नमः । ॐ तारकासुरसन्तुष्टायै नमः । ॐ तारकासुरपूजितायै नमः । ॐ तारकासुरनिर्माणकर्त्र्यै नमः । ॐ तारकवन्दितायै नमः । ॐ तारकासुरसम्मान्यायै नमः । ॐ तारकासुरमानदायै नमः । ॐ तारकासुरसंसिद्धायै नमः । ॐ तारकासुरदेवतायै नमः । ॐ तारकासुरदेहस्थायै नमः । १०० ॐ तारकासुरस्वर्गदायै नमः । ॐ तारकासुरसंसृष्टायै नमः । ॐ तारकासुरगर्वदायै नमः । ॐ तारकासुरसंहन्त्र्यै नमः । ॐ तारकासुरमर्दिन्यै नमः । ॐ तारकासुरसङ्ग्रामनर्तक्यै नमः । ॐ तारकापहायै नमः । ॐ तारकासुरसङ्ग्रामकारिण्यै नमः । ॐ तारकारिभृते नमः । ॐ तारकासुरसङ्ग्रामकबन्धवृन्दवन्दितायै नमः । ११० ॐ तारकारिप्रसुवे नमः । ॐ तारकारिमात्रे ॐ तारिकायै नमः । ॐ तारकारिमनोहारिवस्त्रभूषानुशासिकायै नमः । ॐ तारकारिविधात्र्यै नमः । ॐ तारकारिनिषेवितायै नमः । ॐ तारकारिवचस्तुष्टायै नमः । ॐ तारकारिसुशिक्षितायै नमः । ॐ तारकारिसुसन्तुष्टायै नमः । ॐ तारकारिविभूषितायै नमः । १२० ॐ तारकारिकृतोत्सङ्ग्यै नमः । ॐ तारकारिप्रहर्षदायै नमः । ॐ तमः सम्पूर्णसर्वाङ्ग्यै नमः । ॐ तमोलिप्तकलेवरायै नमः । ॐ तमोव्याप्तस्थलासङ्गायै नमः । ॐ तमःपटलसन्निभायै नमः । ॐ तमोहन्त्र्यै नमः । ॐ तमःकर्त्र्यै नमः । ॐ तमःसञ्चारकारिण्यै नमः । ॐ तमोगात्र्यै नमः । १३० ॐ तमोदात्र्यै नमः । ॐ तमःपात्र्यै नमः । ॐ तमोऽपहायै नमः । ॐ तमोराशये नमः । ॐ तमोनाशायै नमः । ॐ तमोराशिविनाशिन्यै नमः । ॐ तमोराशिकृतध्वंस्यै नमः । ॐ तमोराशिभयङ्कर्यै नमः । ॐ तमोगुणप्रसन्नास्यायै नमः । ॐ तमोगुणसुसिद्धिदायै नमः । १४० ॐ तमोगुणोक्तमार्गस्थायै नमः । ॐ तमोगुणविराजितायै नमः । ॐ तमोगुणस्तुतिपरायै नमः । ॐ तमोगुणविवर्धिन्यै नमः । ॐ तमोगुणाश्रितपरायै नमः । ॐ तमोगुणविनाशिन्यै नमः । ॐ तमोगुणक्षयकर्यै नमः । ॐ तमोगुणकलेवरायै नमः । ॐ तमोगुणध्वंसतुष्टायै नमः । ॐ तमःपारे प्रतिष्ठितायै नमः । १५० ॐ तमोभवभवप्रीतायै नमः । ॐ तमोभवभवप्रियायै नमः । ॐ तमोभवभवश्रद्धायै नमः । ॐ तमोभवभवाश्रयायै नमः । ॐ तमोभवभवप्राणायै नमः । ॐ तमोभवभवार्चितायै नमः । ॐ तमोभवभवप्रत्यालीढकुम्भस्थलस्थितायै नमः । ॐ तपस्विबृन्दसन्तुष्टायै नमः । ॐ तपस्विबृन्दपुष्टिदायै नमः । ॐ तपस्विबृन्दसंस्तुत्यायै नमः । १६० ॐ तपस्विबृन्दवन्दितायै नमः । ॐ तपस्विबृन्दसम्पन्नायै नमः । ॐ तपस्विबृन्दहर्षदायै नमः । ॐ तपस्विबृन्दसम्पूज्यायै नमः । ॐ तपस्विबृन्दभूषितायै नमः । ॐ तपस्विचित्ततल्पस्थायै नमः । ॐ तपस्विचित्तमध्यगायै नमः । ॐ तपस्विचित्तचित्तार्हायै नमः । ॐ तपस्विचित्तहारिण्यै नमः । ॐ तपस्विकल्पवल्याभायै नमः । १७० ॐ तपस्विकल्पपादप्यै नमः । ॐ तपस्विकामधेनवे नमः । ॐ तपस्विकामपूर्तिदायै नमः । ॐ तपस्वित्राणनिरतायै नमः । ॐ तपस्विगृहसंस्थितायै नमः । ॐ तपस्विगृहराजश्रियै नमः । ॐ तपस्विराज्यदायिकायै नमः । ॐ तपस्विमानसाराध्यायै नमः । ॐ तपस्विमानदायिकायै नमः । ॐ तपस्वितापसंहर्त्र्यै नमः । १८० ॐ तपस्वितापशान्तिकृते नमः । ॐ तपस्विसिद्धिविद्यायै नमः । ॐ तपस्विमन्त्रसिद्धिकृते नमः । ॐ तपस्विमन्त्रतन्त्रेश्यै नमः । ॐ तपस्विमन्त्ररूपिण्यै नमः । ॐ तपस्विमन्त्रनिपुणायै नमः । ॐ तपस्विकर्मकारिण्यै नमः । ॐ तपस्विकर्मसम्भूतायै नमः । ॐ तपस्विकर्मसाक्षिण्यै नमः । ॐ तपस्सेव्यायै नमः । १९० ॐ तपोभव्यायै नमः । ॐ तपोभाव्यायै नमः । ॐ तपस्स्विन्यै नमः । ॐ तपोवश्यायै नमः । ॐ तपोगम्यायै नमः । ॐ तपोगेहनिवासिन्यै नमः । ॐ तपोधन्यायै नमः । ॐ तपोमान्यायै नमः । ॐ तपःकन्यायै नमः । ॐ तपोवृतायै नमः । २०० ॐ तपसे नमः । ॐ तथ्यायै नमः । ॐ तपोगोप्यायै नमः । ॐ तपोजप्यायै नमः । ॐ तपोऽनृतायै नमः । ॐ तपस्साध्यायै नमः । ॐ तपोऽऽराध्यायै नमः । ॐ तपोवन्द्यायै नमः । ॐ तपोमय्यै नमः । ॐ तपस्सन्ध्यायै नमः । २१० ॐ तपोवन्द्यायै नमः । ॐ तपस्सान्निध्यकारिण्यै नमः । ॐ तपोध्येयायै नमः । ॐ तपोगेयायै नमः । ॐ तपस्तप्तायै नमः । ॐ तपोबलायै नमः । ॐ तपोलेयायै नमः । ॐ तपोदेयायै नमः । ॐ तपस्तत्त्वफलप्रदायै नमः । ॐ तपोविघ्नवरघ्न्यै नमः । २२० ॐ तपोविघ्नविनाशिन्यै नमः । ॐ तपोविघ्नचयध्वंस्यै नमः । ॐ तपोविघ्नभयङ्कर्यै नमः । ॐ तपोभूमिवरप्राणायै नमः । ॐ तपोभूमिपतिस्तुतायै नमः । ॐ तपोभूमिपतिध्येयायै नमः । ॐ तपोभूमिपतीष्टदायै नमः । ॐ तपोवनकुरङ्गस्थायै नमः । ॐ तपोवनविनाशिन्यै नमः । ॐ तपोवनगतिप्रीतायै नमः । २३० ॐ तपोवनविहारिण्यै नमः । ॐ तपोवनफलासक्तायै नमः । ॐ तपोवनफलप्रदायै नमः । ॐ तपोवनसुसाध्यायै नमः । ॐ तपोवनसुसिद्धिदायै नमः । ॐ तपोवनसुसेव्यायै नमः । ॐ तपोवननिवासिन्यै नमः । ॐ तपोधनसुसंसेव्यायै नमः । ॐ तपोधनसुसाधितायै नमः । ॐ तपोधनसुसंलीनायै नमः । २४० ॐ तपोधनमनोमय्यै नमः । ॐ तपोधननमस्कारायै नमः । ॐ तपोधनविमुक्तिदायै नमः । ॐ तपोधनधनासाध्यायै नमः । ॐ तपोधनधनात्मिकायै नमः । ॐ तपोधनधनाराध्यायै नमः । ॐ तपोधनफलप्रदायै नमः । ॐ तपोधनधनाढ्यायै नमः । ॐ तपोधनधनेश्वर्यै नमः । ॐ तपोधनधनप्रीतायै नमः । २५० ॐ तपोधनधनालयायै नमः । ॐ तपोधनजनाकीर्णायै नमः । ॐ तपोधनजनाश्रयायै नमः । ॐ तपोधनजनाराध्यायै नमः । ॐ तपोधनजनप्रसुवे ॐ तपोधनजनप्राणायै नमः । ॐ तपोधनजनेष्टदायै नमः । ॐ तपोधनजनासाध्यायै नमः । ॐ तपोधनजनेश्वर्यै नमः । ॐ तरुणासृक्प्रपन्नार्तायै नमः । २६० ॐ तरुणासृक्प्रतर्पितायै नमः । ॐ तरुणासृक्समुद्रस्थायै नमः । ॐ तरुणासृक्प्रहर्षदायै नमः । ॐ तरुणासृक्सुसन्तुष्टायै नमः । ॐ तरुणासृग्विलेपितायै नमः । ॐ तरुणासृङ्नदीप्राणायै नमः । ॐ तरुणासृग्विभूषणायै नमः । ॐ तरुणैणबलिप्रीतायै नमः । ॐ तरुणैणबलिप्रियायै नमः । ॐ तरुणैणबलिप्राणायै नमः । २७० ॐ तरुणैणबलीष्टदायै नमः । ॐ तरुणाजबलिप्रीतायै नमः । ॐ तरुणाजबलिप्रियायै नमः । ॐ तरुणाजबलिघ्राणायै नमः । ॐ तरुणाजबलिप्रभुजे नमः । ॐ तरुणादित्यसङ्काशायै नमः । ॐ तरुणादित्यविग्रहायै नमः । ॐ तरुणादित्यरुचिरायै नमः । ॐ तरुणादित्यनिर्मलायै नमः । ॐ तरुणादित्यनिलयायै नमः । २८० ॐ तरुणादित्यमण्डलायै नमः । ॐ तरुणादित्यललितायै नमः । ॐ तरुणादित्यकुण्डलायै नमः । ॐ तरुणार्कसमज्योत्स्नायै नमः । ॐ तरुणार्कसमप्रभायै नमः । ॐ तरुणार्कप्रतीकाशायै नमः । ॐ तरुणार्कप्रवर्धितायै नमः । ॐ तरुणारुणनेत्रायै नमः । ॐ तरुणारुणलोचनायै नमः । ॐ तरुणारुणगात्रायै नमः । २९० ॐ तरुणारुणभूषणायै नमः । ॐ तरुणीदत्तसङ्केतायै नमः । ॐ तरुणीदत्तभूषणायै नमः । ॐ तरुणीगणसन्तुष्टायै नमः । ॐ तरुण्यै नमः । ॐ तरुणीमण्यै नमः । ॐ तरुणीमणिसंसेव्यायै नमः । ॐ तरुणीमणिवन्दितायै नमः । ॐ तरुणीमणिसन्तुष्टायै नमः । ॐ तरुणीमणिपूजितायै नमः । ३०० ॐ तरुणीबृन्दसंवन्द्यायै नमः । ॐ तरुणीबृन्दवन्दितायै नमः । ॐ तरुणीबृन्दसंस्तुत्यायै नमः । ॐ तरुणीबृन्दमानदायै नमः । ॐ तरुणीबृन्दमध्यस्थायै नमः । ॐ तरुणीबृन्दवेष्टितायै नमः । ॐ तरुणीबृन्दसम्प्रीतायै नमः । ॐ तरुणीबृन्दभूषितायै नमः । ॐ तरुणीजपसंसिद्धायै नमः । ॐ तरुणीजपमोक्षदायै नमः । ३१० ॐ तरुणीपूजकासक्तायै नमः । ॐ तरुणीपूजकार्थिन्यै नमः । ॐ तरुणीपूजकश्रीदायै नमः । ॐ तरुणीपूजकार्तिहायै नमः । ॐ तरुणीपूजकप्राणायै नमः । ॐ तरुणीनिन्दकार्तिदायै नमः । ॐ तरुणीकोटिनिलयायै नमः । ॐ तरुणीकोटिविग्रहायै नमः । ॐ तरुणीकोटिमध्यस्थायै नमः । ॐ तरुणीकोटिवेष्टितायै नमः । ३२० ॐ तरुणीकोटिदुस्साध्यायै नमः । ॐ तरुणीकोटिविग्रहायै नमः । ॐ तरुणीकोटिरुचिरायै नमः । ॐ तरुण्यै नमः । ॐ तरुणीश्वर्यै नमः । ॐ तरुणीमणिहाराढ्यायै नमः । ॐ तरुणीमणिकुण्डलायै नमः । ॐ तरुणीमणिसन्तुष्टायै नमः । ॐ तरुणीमणिमण्डितायै नमः । ॐ तरुणीसरणीप्रीतायै नमः । ३३० ॐ तरुणीसरणीरतायै नमः । ॐ तरुणीसरणीस्थानायै नमः । ॐ तरुणीसरणीमतायै नमः । ॐ तरणीमण्डलश्रीदायै नमः । ॐ तरणीमण्डलेश्वर्यै नमः । ॐ तरणीमण्डलश्रद्धायै नमः । ॐ तरणीमण्डलस्थितायै नमः । ॐ तरणीमण्डलार्घ्याढ्यायै नमः । ॐ तरणीमण्डलार्चितायै नमः । ॐ तरणीमण्डलध्येयायै नमः । ३४० ॐ तरणीभवसागरायै नमः । ॐ तरणीकारणासक्तायै नमः । ॐ तरणीतक्षकार्चितायै नमः । ॐ तरणीतक्षकश्रीदायै नमः । ॐ तरणीतक्षकार्थिन्यै नमः । ॐ तर्यै नमः । ॐ तरणशीलायै नमः । ॐ तरीतरणतारिण्यै नमः । ॐ तरीतरणसंवेद्यायै नमः । ॐ तरीतरणकारिण्यै नमः । ३५० ॐ तरुरूपायै नमः । ॐ तरूपस्थायै नमः । ॐ तरवे नमः । ॐ तरुलतामय्यै नमः । ॐ तरुरूपायै नमः । ॐ तरुस्थायै नमः । ॐ तरुमध्यनिवासिन्यै नमः । ॐ तप्तकाञ्चनगेहस्थायै नमः । ॐ तप्तकाञ्चनभूमिकायै नमः । ॐ तप्तकाञ्चनप्राकारायै नमः । ३६० ॐ तप्तकाञ्चनपादुकायै नमः । ॐ तप्तकाञ्चनदीप्ताङ्ग्यै नमः । ॐ तप्तकाञ्चनसन्निभायै नमः । ॐ तप्तकाञ्चनगौराङ्ग्यै नमः । ॐ तप्तकाञ्चनमञ्चगायै नमः । ॐ तप्तकाञ्चनवस्त्राढ्यायै नमः । ॐ तप्तकाञ्चनरूपिण्यै नमः । ॐ तप्तकाञ्चनमध्यस्थायै नमः । ॐ तप्तकाञ्चनकारिण्यै नमः । ॐ तप्तकाञ्चनमासार्च्यायै नमः । ३७० ॐ तप्तकाञ्चनपात्रभुजे नमः । ॐ तप्तकाञ्चनशैलस्थायै नमः । ॐ तप्तकाञ्चनकुण्डलायै नमः । ॐ तप्तकाञ्चनक्षेत्राढ्यायै नमः । ॐ तप्तकाञ्चनदण्डधृषे नमः । ॐ तप्तकाञ्चनभूषाढ्यायै नमः । ॐ तप्तकाञ्चनदानदायै नमः । ॐ तप्तकाञ्चनदेवेश्यै नमः । ॐ तप्तकाञ्चनचापधृषे नमः । ॐ तप्तकाञ्चनतूणाढ्यायै नमः । ३८० ॐ तप्तकाञ्चनबाणभृते ॐ तलातलविधात्र्यै नमः । ॐ तलातलविधायिन्यै नमः । ॐ तलातलस्वरूपेश्यै नमः । ॐ तलातलविहारिण्यै नमः । ॐ तलातलजनासाध्यायै नमः । ॐ तलातलजनेश्वर्यै नमः । ॐ तलातलजनाराध्यायै नमः । ॐ तलातलजनार्थदायै नमः । ॐ तलातलजयाभाक्ष्यै नमः । ३९० ॐ तलातलजचञ्चलायै नमः । ॐ तलातलजरत्नाढ्यायै नमः । ॐ तलातलजदेवतायै नमः । ॐ तटिनीस्थानरसिकायै नमः । ॐ तटिनीतटवासिन्यै नमः । ॐ तटिन्यै नमः । ॐ तटिनीतीरगामिन्यै नमः । ॐ तटिनीप्रियायै नमः । ॐ तटिनीप्लवनप्रीतायै नमः । ॐ तटिनीप्लवनोद्यतायै नमः । ४०० ॐ तटिनीप्लवनश्लाघ्यायै नमः । ॐ तटिनीप्लवनार्थदायै नमः । ॐ तटलास्यायै नमः । ॐ तटस्थानायै नमः । ॐ तटेश्यै नमः । ॐ तटवासिन्यै नमः । ॐ तटपूज्यायै नमः । ॐ तटाराध्यायै नमः । ॐ तटरोममुखार्थिन्यै नमः । ॐ तटजायै नमः । ४१० ॐ तटरूपायै नमः । ॐ तटस्थायै नमः । ॐ तटचञ्चलायै नमः । ॐ तटसन्निधिगेहस्थासहितायै नमः । ॐ तटशायिन्यै नमः । ॐ तरङ्गिण्यै नमः । ॐ तरङ्गाभायै नमः । ॐ तरङ्गायतलोचनायै नमः । ॐ तरङ्गसमदुर्धर्षायै नमः । ॐ तरङ्गसमचञ्चलायै नमः । ४२० ॐ तरङ्गसमदीर्घाङ्ग्यै नमः । ॐ तरङ्गसमवर्धितायै नमः । ॐ तरङ्गसमसंवृद्धये नमः । ॐ तरङ्गसमनिर्मलायै नमः । ॐ तडागमध्यनिलयायै नमः । ॐ तडागमध्यसम्भवायै नमः । ॐ तडागरचनश्लाघ्यायै नमः । ॐ तडागरचनोद्यतायै नमः । ॐ तडागकुमुदामोद्यै नमः । ॐ तडागेश्यै नमः । ४३० ॐ तडागिन्यै नमः । ॐ तडागनीरसंस्नातायै नमः । ॐ तडागनीरनिर्मलायै नमः । ॐ तडागकमलागारायै नमः । ॐ तडागकमलालयायै नमः । ॐ तडागकमलान्तस्स्थायै नमः । ॐ तडागकमलोद्यतायै नमः । ॐ तडागकमलाङ्ग्यै नमः । ॐ तडागकमलाननायै नमः । ॐ तडागकमलप्राणायै नमः । ४४० ॐ तडागकमलेक्षणायै नमः । ॐ तडागरक्तपद्मस्थायै नमः । ॐ तडागश्वेतपद्मगायै नमः । ॐ तडागनीलपद्माभायै नमः । ॐ तडागनीलपद्मभृते नमः । ॐ तन्वै नमः । ॐ तनुगतायै नमः । ॐ तन्व्यै नमः । ॐ तन्वङ्ग्यै नमः । ॐ तनुधारिण्यै नमः । ४५० ॐ तनुरूपायै नमः । ॐ तनुगतायै नमः । ॐ तनुधृषे नमः । ॐ तनुरूपिण्यै नमः । ॐ तनुस्थायै नमः । ॐ तनुमध्याङ्ग्यै नमः । ॐ तनुकृते नमः । ॐ तनुमङ्गलायै नमः । ॐ तनुसेव्यायै नमः । ॐ तनुजायै नमः । ४६० ॐ तनुजातनुसम्भवायै नमः । ॐ तनुभृते नमः । ॐ तनुसम्भूतायै नमः । ॐ तनुदायै नमः । ॐ तनुकारिण्यै नमः । ॐ तनुभृते नमः । ॐ तनुसंहन्त्र्यै नमः । ॐ तनुसञ्चारकारिण्यै नमः । ॐ तथ्यवाचे नमः । ॐ तथ्यवचनायै नमः । ४७० ॐ तथ्यकृते नमः । ॐ तथ्यवादिन्यै नमः । ॐ तथ्यभृते नमः । ॐ तथ्यचरितायै नमः । ॐ तथ्यधर्मानुवर्तिन्यै नमः । ॐ तथ्यभुजे नमः । ॐ तथ्यगमनायै नमः । ॐ तथ्यभक्तिवरप्रदायै नमः । ॐ तथ्यनीचेश्वर्यै नमः । ॐ तथ्यचित्ताचाराशुसिद्धिदायै नमः । ४८० ॐ तर्क्यायै नमः । ॐ तर्क्यस्वभावायै नमः । ॐ तर्कदायै नमः । ॐ तर्ककृते नमः । ॐ तर्काध्यापनमध्यस्थायै नमः । ॐ तर्काध्यापनकारिण्यै नमः । ॐ तर्काध्यापनसन्तुष्टायै नमः । ॐ तर्काध्यापनरूपिण्यै नमः । ॐ तर्काध्यापनसंशीलायै नमः । ॐ तर्कार्थप्रतिपादितायै नमः । ४९० ॐ तर्काध्यापनसन्तृप्तायै नमः । ॐ तर्कार्थप्रतिपादिन्यै नमः । ॐ तर्कवादाश्रितपदायै नमः । ॐ तर्कवादविवर्धिन्यै नमः । ॐ तर्कवादैकनिपुणायै नमः । ॐ तर्कवादप्रचारिण्यै नमः । ॐ तमालदलश्यामाङ्ग्यै नमः । ॐ तमालदलमालिन्यै नमः । ॐ तमालवनसङ्केतायै नमः । ॐ तमालपुष्पपूजितायै नमः । ५०० ॐ तगर्यै नमः । ॐ तगराराध्यायै नमः । ॐ तगरार्चितपादुकायै नमः । ॐ तगरस्रक्सुसन्तुष्टायै नमः । ॐ तगरस्रग्विराजितायै नमः । ॐ तगराहुतिसन्तुष्टायै नमः । ॐ तगराहुतिकीर्तिदायै नमः । ॐ तगराहुतिसंसिद्धायै नमः । ॐ तगराहुतिमानदायै नमः । ॐ तडिते नमः । ५१० ॐ तडिल्लताकारायै नमः । ॐ तडिच्चञ्चललोचनायै नमः । ॐ तडिल्लतायै नमः । ॐ तडित्तन्व्यै नमः । ॐ तडिद्दीप्तायै नमः । ॐ तडित्प्रभायै नमः । ॐ तद्रूपायै नमः । ॐ तत्स्वरूपेश्यै नमः । ॐ तन्मय्यै नमः । ॐ तत्त्वरूपिण्यै नमः । ५२० ॐ तत्स्थानदाननिरतायै नमः । ॐ तत्कर्मफलदायिन्यै नमः । ॐ तत्त्वकृते नमः । ॐ तत्त्वदायै नमः । ॐ तत्त्वायै नमः । ॐ तत्त्वविदे नमः । ॐ तत्त्वतर्पितायै नमः । ॐ तत्त्वार्च्यायै नमः । ॐ तत्त्वपूज्यायै नमः । ॐ तत्त्वार्घ्यायै नमः । ५३० ॐ तत्त्वरूपिण्यै नमः । ॐ तत्त्वज्ञानप्रदानेश्यै नमः । ॐ तत्त्वज्ञानसुमोक्षदायै नमः । ॐ त्वरितायै नमः । ॐ त्वरितप्रीतायै नमः । ॐ त्वरितार्तिविनाशिन्यै नमः । ॐ त्वरितासवसन्तुष्टायै नमः । ॐ त्वरितासवतर्पितायै नमः । ॐ त्वग्वस्त्रायै नमः । ॐ त्वक्परीधानायै नमः । ५४० ॐ तरलायै नमः । ॐ तरलेक्षणायै नमः । ॐ तरक्षुचर्मवसनायै नमः । ॐ तरक्षुत्वग्विभूषणायै नमः । ॐ तरक्षवे नमः । ॐ तरक्षुप्राणायै नमः । ॐ तरक्षुपृष्ठगामिन्यै नमः । ॐ तरक्षुपृष्ठसंस्थानायै नमः । ॐ तरक्षुपृष्ठवासिन्यै नमः । ॐ उदैस्तर्पितायै नमः । ५५० ॐ तर्पणाशायै नमः । ॐ तर्पणासक्तमानसायै नमः । ॐ तर्पणानन्दहृदयायै नमः । ॐ तर्पणाधिपतये नमः । ॐ ततये नमः । ॐ त्रयीमय्यै नमः । ॐ त्रयीसेव्यायै नमः । ॐ त्रयीपूज्यायै नमः । ॐ त्रयीकथायै नमः । ॐ त्रयीभव्यायै नमः । ५६० ॐ त्रयीभाव्यायै नमः । ॐ त्रयीहव्यायै नमः । ॐ त्रयीयुतायै नमः । ॐ त्र्यक्षर्यै नमः । ॐ त्र्यक्षरेशान्यै नमः । ॐ त्र्यक्षरीशीघ्रसिद्धिदायै नमः । ॐ त्र्यक्षरेश्यै नमः । ॐ त्र्यक्षरीस्थायै नमः । ॐ त्र्यक्षरीपुरुषास्पदायै नमः । ॐ तपनायै नमः । ५७० ॐ तपनेष्टायै नमः । ॐ तपसे नमः । ॐ तपनकन्यकायै नमः । ॐ तपनांशुसमासह्यायै नमः । ॐ तपनकोटिकान्तिभृते नमः । ॐ तपनीयायै नमः । ॐ तल्पगतायै नमः । ॐ तल्पायै नमः । ॐ तल्पविधायिन्यै नमः । ॐ तल्पकृते नमः । ५८० ॐ तल्पगायै नमः । ॐ तल्पदात्र्यै नमः । ॐ तल्पलताश्रयायै नमः । ॐ तपनीयलतारात्र्यै नमः । ॐ तपनीयांशुप्रार्थिन्यै नमः । ॐ तपनीयप्रदायै नमः । ॐ तप्तायै नमः । ॐ तपनीयाद्रिसंस्थितायै नमः । ॐ तल्पेश्यै नमः । ॐ तल्पदायै नमः । ५९० ॐ तल्पसंस्थितायै नमः । ॐ तल्पवल्लभायै नमः । ॐ तल्पप्रियायै नमः । ॐ तल्परतायै नमः । ॐ तल्पनिर्माणकारिण्यै नमः । ॐ तरसापूजनासक्तायै नमः । ॐ तरसावरदायिन्यै नमः । ॐ तरसासिद्धिसन्धात्र्यै नमः । ॐ तरसामोक्षदायिन्यै नमः । ॐ तापस्यै नमः । ६०० ॐ तापसाराध्यायै नमः । ॐ तापसार्तिविनाशिन्यै नमः । ॐ तापसार्तायै नमः । ॐ तापसश्रियै नमः । ॐ तापसप्रियवादिन्यै नमः । ॐ तापसानन्दहृदयायै नमः । ॐ तापसानन्ददायिन्यै नमः । ॐ तापसाश्रितपादाब्जायै नमः । ॐ तापसासक्तमानसायै नमः । ॐ तामस्यै नमः । ६१० ॐ तामसीपूज्यायै नमः । ॐ तामसीप्रणयोत्सुकायै नमः । ॐ तामस्यै नमः । ॐ तामसीप्रीतायै नमः । ॐ तामसीशीघ्रसिद्धिदायै नमः । ॐ तालेश्यै नमः । ॐ तालभुजे नमः । ॐ तालदात्र्यै नमः । ॐ तालोपमस्तन्यै नमः । ॐ तालवृक्षस्थितायै नमः । ६२० ॐ तालवृक्षजायै नमः । ॐ तालरूपिण्यै नमः । ॐ तार्क्ष्यायै नमः । ॐ तार्क्ष्यसमारूढायै नमः । ॐ तार्क्ष्येश्यै नमः । ॐ तार्क्ष्यपूजितायै नमः । ॐ तार्क्ष्येश्वर्यै नमः । ॐ तार्क्ष्यमात्रे नमः । ॐ तार्क्ष्येशीवरदायिन्यै नमः । ॐ ताप्यै नमः । ६३० ॐ तपिन्यै नमः । ॐ तापसंहन्त्र्यै नमः । ॐ तापनाशिन्यै नमः । ॐ तापदात्र्यै नमः । ॐ तापकर्त्र्यै नमः । ॐ तापविध्वंसकारिण्यै नमः । ॐ त्रासकर्त्र्यै नमः । ॐ त्रासदात्र्यै नमः । ॐ त्रासहर्त्र्यै नमः । ॐ त्रासहायै नमः । ६४० ॐ त्रासितायै नमः । ॐ त्रासरहितायै नमः । ॐ त्रासनिर्मूलकारिण्यै नमः । ॐ त्राणकृते नमः । ॐ त्राणसंशीलायै नमः । ॐ तानेश्यै नमः । ॐ तानदायिन्यै नमः । ॐ तानगानरतायै नमः । ॐ तानकारिण्यै नमः । ॐ तानगायिन्यै नमः । ६५० ॐ तारुण्यामृतसम्पूर्णायै नमः । ॐ तारुण्यामृतवारिध्यै नमः । ॐ तारुण्यामृतसन्तुष्टायै नमः । ॐ तारुण्यामृततर्पितायै नमः । ॐ तारुण्यामृतपूर्णाङ्ग्यै नमः । ॐ तारुण्यामृतविग्रहायै नमः । ॐ तारुण्यगुणसम्पन्नायै नमः । ॐ तारुण्योक्तिविशारदायै नमः । ॐ ताम्बूल्यै नमः । ॐ ताम्बुलेशान्यै नमः । ६६० ॐ ताम्बूलचर्वणोद्यतायै नमः । ॐ ताम्बूलपूरितास्यायै नमः । ॐ ताम्बूलारुणिताधरायै नमः । ॐ ताटङ्करत्नविख्यात्यै नमः । ॐ ताटङ्करत्नभूषिण्यै नमः । ॐ ताटङ्करत्नमध्यस्थायै नमः । ॐ ताटङ्कद्वयभूषितायै नमः । ॐ तिथीशायै नमः । ॐ तिथिसम्पूज्यायै नमः । ॐ तिथिस्थायै नमः । ६७० ॐ तिथिरूपिण्यै नमः । ॐ तिथित्रितयवास्तव्यायै नमः । ॐ तिथीशवरदायिन्यै नमः । ॐ तिलोत्तमादिकाराध्यायै नमः । ॐ तिलोत्तमादिकप्रभायै नमः । ॐ तिलोत्तमायै नमः । ॐ तिलप्रेक्षायै नमः । ॐ तिलाराध्यायै नमः । ॐ तिलार्चितायै नमः । ॐ तिलभुजे नमः । ६८० ॐ तिलसन्दात्र्यै नमः । ॐ तिलतुष्टायै नमः । ॐ तिलालयायै नमः । ॐ तिलदायै नमः । ॐ तिलसङ्काशायै नमः । ॐ तिलतैलविधायिन्यै नमः । ॐ तिलतैलोपलिप्ताङ्ग्यै नमः । ॐ तिलतैलसुगन्धिन्यै नमः । ॐ तिलाज्यहोमसन्तुष्टायै नमः । ॐ तिलाज्यहोमसिद्धिदायै नमः । ६९० ॐ तिलपुष्पाञ्जलिप्रीतायै नमः । ॐ तिलपुष्पाञ्जलिप्रियायै नमः । ॐ तिलपुष्पाञ्जलिश्रेष्ठायै नमः । ॐ तिलपुष्पाभनासिन्यै नमः । ॐ तिलकाश्रितसिन्दूरायै नमः । ॐ तिलकाङ्कितचन्दनायै नमः । ॐ तिलकाहृतकस्तूर्यै नमः । ॐ तिलकामोदमोहिन्यै नमः । ॐ त्रिगुणायै नमः । ॐ त्रिगुणाकारायै नमः । ७०० ॐ त्रिगुणान्वितविग्रहायै नमः । ॐ त्रिगुणाकारविख्यातायै नमः । ॐ त्रिमूर्तये नमः । ॐ त्रिगुणात्मिकायै नमः । ॐ त्रिशिरसे नमः । ॐ त्रिपुरेशान्यै नमः । ॐ त्रिपुरायै नमः । ॐ त्रिपुरेश्वर्यै नमः । ॐ त्रिपुरेश्यै नमः । ॐ त्रिलोकस्थायै नमः । ७१० ॐ त्रिपुर्यै नमः । ॐ त्रिपुराम्बिकायै नमः । ॐ त्रिपुरारिसमाराध्यायै नमः । ॐ त्रिपुरारिवरप्रदायै नमः । ॐ त्रिपुरारिशिरोभूषायै नमः । ॐ त्रिपुरारिसुखप्रदायै नमः । ॐ त्रिपुरारीष्टसन्दात्र्यै नमः । ॐ त्रिपुरारीष्टदेवतायै नमः । ॐ त्रिपुरारिकृतार्धाङ्ग्यै नमः । ॐ त्रिपुरारिविलासिन्यै नमः । ७२० ॐ त्रिपुरासुरसंहन्त्र्यै नमः । ॐ त्रिपुरासुरमर्दिन्यै नमः । ॐ त्रिपुरासुरसंसेव्यायै नमः । ॐ त्रिपुरासुरवर्यपायै नमः । ॐ त्रिकूटायै नमः । ॐ त्रिकुटाराध्यायै नमः । ॐ त्रिकूटार्चितविग्रहायै नमः । ॐ त्रिकूटाचलमध्यस्थायै नमः । ॐ त्रिकूटाचलवासिन्यै नमः । ॐ त्रिकूटाचलसञ्जातायै नमः । ७३० ॐ त्रिकूटाचलनिर्गतायै नमः । ॐ त्रिजटायै नमः । ॐ त्रिजटेशान्यै नमः । ॐ त्रिजटावरदायिन्यै नमः । ॐ त्रिनेत्रेश्यै नमः । ॐ त्रिनेत्रायै नमः । ॐ त्रिनेत्रवरवर्णिन्यै नमः । ॐ त्रिवल्यै नमः । ॐ त्रिवलीयुक्तायै नमः । ॐ त्रिशूलवरधारिण्यै नमः । ७४० ॐ त्रिशूलेश्यै नमः । ॐ त्रिशूलीश्यै नमः । ॐ त्रिशूलभृते नमः । ॐ त्रिशूलिन्यै नमः । ॐ त्रिमनवे नमः । ॐ त्रिमनूपास्यायै नमः । ॐ त्रिमनूपासकेश्वर्यै नमः । ॐ त्रिमनुजपसन्तुष्टायै नमः । ॐ त्रिमनोस्तूर्णसिद्धिदायै नमः । ॐ त्रिमनुपूजनप्रीतायै नमः । ७५० ॐ त्रिमनुध्यानमोक्षदायै नमः । ॐ त्रिविधायै नमः । ॐ त्रिविधाभक्त्यै नमः । ॐ त्रिमतायै नमः । ॐ त्रिमतेश्वर्यै नमः । ॐ त्रिभावस्थायै नमः । ॐ त्रिभावेश्यै नमः । ॐ त्रिभावपरिपूरितायै नमः । ॐ त्रितत्त्वात्मने नमः । ॐ त्रितत्त्वेश्यै नमः । ७६० ॐ त्रितत्त्वज्ञायै नमः । ॐ त्रितत्त्वधृषे नमः । ॐ त्रितत्त्वाचमनप्रीतायै नमः । ॐ त्रितत्त्वाचमनेष्टदायै नमः । ॐ त्रिकोणस्थायै नमः । ॐ त्रिकोणेश्यै नमः । ॐ त्रिकोणचक्रवासिन्यै नमः । ॐ त्रिकोणचक्रमध्यस्थायै नमः । ॐ त्रिकोणबिन्दुरूपिण्यै नमः । ॐ त्रिकोणयन्त्रसंस्थानायै नमः । ७७० ॐ त्रिकोणयन्त्ररूपिण्यै नमः । ॐ त्रिकोणयन्त्रसम्पूज्यायै नमः । ॐ त्रिकोणयन्त्रसिद्धिदायै नमः । ॐ त्रिवर्णाढ्यायै नमः । ॐ त्रिवर्णेश्यै नमः । ॐ त्रिवर्णोपासिरूपिण्यै नमः । ॐ त्रिवर्णस्थायै नमः । ॐ त्रिवर्णाढ्यायै नमः । ॐ त्रिवर्णवरदायिन्यै नमः । ॐ त्रिवर्णाद्यायै नमः । ७८० ॐ त्रिवर्णार्च्यायै नमः । ॐ त्रिवर्गफलदायिन्यै नमः । ॐ त्रिवर्गाढ्यायै नमः । ॐ त्रिवर्गेश्यै नमः । ॐ त्रिवर्गाद्यफलप्रदायै नमः । ॐ त्रिसन्ध्यार्च्यायै नमः । ॐ त्रिसन्ध्येश्यै नमः । ॐ त्रिसन्ध्याराधनेष्टदायै नमः । ॐ त्रिसन्ध्यार्चनसन्तुष्टायै नमः । ॐ त्रिसन्ध्याजपमोक्षदायै नमः । ७९० ॐ त्रिपदाराधितपदायै नमः । ॐ त्रिपदायै नमः । ॐ त्रिपदेश्वर्यै नमः । ॐ त्रिपदाप्रतिपाद्येश्यै नमः । ॐ त्रिपदाप्रतिपादिकायै नमः । ॐ त्रिशक्त्यै नमः । ॐ त्रिशक्तीश्यै नमः । ॐ त्रिशक्तेष्टफलप्रदायै नमः । ॐ त्रिशक्तेष्टायै नमः । ॐ त्रिशक्तीष्टायै नमः । ८०० ॐ त्रिशक्तिपरिवेष्टितायै नमः । ॐ त्रिवेण्यै नमः । ॐ त्रिवेणीस्त्रियै नमः । ॐ त्रिवेणीमाधवार्चितायै नमः । ॐ त्रिवेणीजलसन्तुष्टायै नमः । ॐ त्रिवेणीस्नानपुण्यदायै नमः । ॐ त्रिवेणीजलसंस्नातायै नमः । ॐ त्रिवेणीजलरूपिण्यै नमः । ॐ त्रिवेणीजलपूताङ्ग्यै नमः । ॐ त्रिवेणीजलपूजितायै नमः । ८१० ॐ त्रिनाडीस्थायै नमः । ॐ त्रिनाडीश्यै नमः । ॐ त्रिनाडीमध्यगामिन्यै नमः । ॐ त्रिनाडीसन्ध्यसञ्छ्रेयायै नमः । ॐ त्रिनाड्यै नमः । ॐ त्रिकोटिन्यै नमः । ॐ त्रिपञ्चाशते नमः । ॐ त्रिरेखायै नमः । ॐ त्रिशक्तिपथगामिन्यै नमः । ॐ त्रिपथस्थायै नमः । ८२० ॐ त्रिलोकेश्यै नमः । ॐ त्रिकोटिकुलमोक्षदायै नमः । ॐ त्रिरामेश्यै नमः । ॐ त्रिरामार्च्यायै नमः । ॐ त्रिरामवरदायिन्यै नमः । ॐ त्रिदशाश्रितपादाब्जायै नमः । ॐ त्रिदशालयचञ्चलायै नमः । ॐ त्रिदशायै नमः । ॐ त्रिदशप्रार्थ्यायै नमः । ॐ त्रिदशाशुवरप्रदायै नमः । ८३० ॐ त्रिदशैश्वर्यसम्पन्नायै नमः । ॐ त्रिदशेश्वरसेवितायै नमः । ॐ त्रियामार्च्यायै नमः । ॐ त्रियामेश्यै नमः । ॐ त्रियामानन्तसिद्धिदायै नमः । ॐ त्रियामेशाधिकज्योत्स्नायै नमः । ॐ त्रियामेशाधिकाननायै नमः । ॐ त्रियामानाथवत्सौम्यायै नमः । ॐ त्रियामानाथभूषणायै नमः । ॐ त्रियामानाथलावण्यरत्नटियुताननायै नमः । ८४० ॐ त्रिकालस्थायै नमः । ॐ त्रिकालज्ञायै नमः । ॐ त्रिकालज्ञत्वकारिण्यै नमः । ॐ त्रिकालेश्यै नमः । ॐ त्रिकालार्च्यायै नमः । ॐ त्रिकालज्ञत्वदायिन्यै नमः । ॐ तीरभुजे नमः । ॐ तीरगायै नमः । ॐ तीरसरितायै नमः । ॐ तीरवासिन्यै नमः । ८५० ॐ तीरभुग्देशसञ्जातायै नमः । ॐ तीरभुग्देशसंस्थितायै नमः । ॐ तिग्मायै नमः । ॐ तिग्मांशुसङ्काशायै नमः । ॐ तिग्मांशुक्रोडसंस्थितायै नमः । ॐ तिग्मांशुकोटिदीप्ताङ्ग्यै नमः । ॐ तिग्मांशुकोटिविग्रहायै नमः । ॐ तीक्ष्णायै नमः । ॐ तीक्ष्णतरायै नमः । ॐ तीक्ष्णमहिषासुरसंस्थितायै नमः । ८६० तीक्ष्णकर्त्रीलसत्पाणये ॐ तीक्ष्णासिवरधारिण्यै नमः । ॐ तीव्रायै नमः । ॐ तीव्रगतये नमः । ॐ तीव्रासुरसङ्घविनाशिन्यै नमः । ॐ तीव्राष्टनागाभरणायै नमः । ॐ तीव्रमुण्डविभूषणायै नमः । ॐ तीर्थात्मिकायै नमः । ॐ तीर्थमय्यै नमः । ॐ तीर्थेश्यै नमः । ८७० ॐ तीर्थपूजितायै नमः । ॐ तीर्थराजेश्वर्यै नमः । ॐ तीर्थफलदायै नमः । ॐ तीर्थदानदायै नमः । ॐ तुमुल्यै नमः । ॐ तुमुलप्राज्ञ्यै नमः । ॐ तुमुलासुरघातिन्यै नमः । ॐ तुमुलक्षतजप्रीतायै नमः । ॐ तुमुलाङ्गणनर्तक्यै नमः । ॐ तुरग्यै नमः । ८८० ॐ तुरगारूढायै नमः । ॐ तुरङ्गपृष्ठगामिन्यै नमः । ॐ तुरङ्गगमनाह्लादायै नमः । ॐ तुरङ्गवेगगामिन्यै नमः । ॐ तुरीयायै नमः । ॐ तुलनायै नमः । ॐ तुल्यायै नमः । ॐ तुल्यवृत्तये नमः । ॐ तुल्यकृते नमः । ॐ तुलनेश्यै नमः । ८९० ॐ तुलाराज्ञ्यै नमः । ॐ तुलाराज्ञीत्वसूक्ष्मविदे नमः । ॐ तुम्बिकायै नमः । ॐ तुम्बिकापात्रभोजनायै नमः । ॐ तुम्बिकार्थिन्यै नमः । ॐ तुलस्यै नमः । ॐ तुलसीवर्यायै नमः । ॐ तुलजायै नमः । ॐ तुलजेश्वर्यै नमः । ॐ तुषाग्निव्रतसन्तुष्टायै नमः । ९०० ॐ तुषाग्नये नमः । ॐ तुषराशिकृते नमः । ॐ तुषारकरशीताङ्ग्यै नमः । तुषारकरपूर्तिकृते ॐ तुषाराद्रये नमः । ॐ तुषाराद्रिसुतायै नमः । ॐ तुहिनदीधितये नमः । ॐ तुहिनाचलकन्यायै नमः । ॐ तुहिनाचलवासिन्यै नमः । ॐ तुर्यवर्गेश्वर्यै नमः । ९१० ॐ तुर्यवर्गदायै नमः । ॐ तुर्यवेददायै नमः । ॐ तुर्यवर्यात्मिकायै नमः । ॐ तुर्यायै नमः । ॐ तुर्येश्वरस्वरूपिण्यै नमः । ॐ तुष्टिदायै नमः । ॐ तुष्टिकृते नमः । ॐ तुष्ट्यै नमः । ॐ तूणीरद्वयपृष्ठधृषे नमः । ॐ तुम्बुराज्ञानसन्तुष्टायै नमः । ९२० ॐ तुष्टसंसिद्धिदायिन्यै नमः । ॐ तूर्णराज्यप्रदायै नमः । ॐ तूर्णगद्गदायै नमः । ॐ तूर्णपद्यदायै नमः । ॐ तूर्णपाण्डित्यसन्दात्र्यै नमः । ॐ तूर्णायै नमः । ॐ तूर्णबलप्रदायै नमः । ॐ तृतीयायै नमः । ॐ तृतीयेश्यै नमः । ॐ तृतीयातिथिपूजितायै नमः । ९३० ॐ तृतीयाचन्द्रचूडेश्यै नमः । ॐ तृतीयाचन्द्रभूषणायै नमः । ॐ तृप्त्यै नमः । ॐ तृप्तिकर्यै नमः । ॐ तृप्तायै नमः । ॐ तृष्णायै नमः । ॐ तृष्णाविवर्धिन्यै नमः । ॐ तृष्णापूर्णकर्यै नमः । ॐ तृष्णानाशिन्यै नमः । ॐ तृषितायै नमः । ९४० ॐ तृषायै नमः । ॐ त्रेतासंसाधितायै नमः । ॐ त्रेतायै नमः । ॐ त्रेतायुगफलप्रदायै नमः । ॐ त्रैलोक्यपूज्यायै नमः । ॐ त्रैलोक्यदात्र्यै नमः । ॐ त्रैलोक्यसिद्धिदायै नमः । ॐ त्रैलोक्येश्वरतादात्र्यै नमः । ॐ त्रैलोक्यपरमेश्वर्यै नमः । ॐ त्रैलोक्यमोहनेशान्यै नमः । ९५० ॐ त्रैलोक्यराज्यदायिन्यै नमः । ॐ तैत्रिशाखेश्वर्यै नमः । ॐ तैत्रिशाखायै नमः । ॐ तैत्रविवेकविदे नमः । ॐ तोरणान्वितगेहस्थायै नमः । ॐ तोरणासक्तमानसायै नमः । ॐ तोलकास्वर्णसन्दात्र्यै नमः । ॐ तोलकास्वर्णकङ्कणायै नमः । ॐ तोमरायुधरूपायै नमः । ॐ तोमरायुधधारिण्यै नमः । ९६० ॐ तौर्यत्रिकेश्वर्यै नमः । ॐ तौर्यत्रिक्यै नमः । ॐ तौर्यत्रिकोत्सुक्यै नमः । ॐ तन्त्रकृते नमः । ॐ तन्त्रवत्सूक्ष्मायै नमः । ॐ तन्त्रमन्त्रस्वरूपिण्यै नमः । ॐ तन्त्रकृते नमः । ॐ तन्त्रसम्पूज्यायै नमः । ॐ तन्त्रेश्यै नमः । ॐ तन्त्रसम्मतायै नमः । ९७० ॐ तन्त्रज्ञायै नमः । ॐ तन्त्रविदे नमः । ॐ तन्त्रसाध्यायै नमः । ॐ तन्त्रस्वरूपिण्यै नमः । ॐ तन्त्रस्थायै नमः । ॐ तन्त्रजायै नमः । ॐ तन्त्र्यै नमः । ॐ तन्त्रभृते नमः । ॐ तन्त्रमन्त्रदायै नमः । ॐ तन्त्राद्यायै नमः । ९८० ॐ तन्त्रगायै नमः । ॐ तन्त्रायै नमः । ॐ तन्त्रार्च्यायै नमः । ॐ तन्त्रसिद्धिदायै नमः । ॐ तन्त्रविज्ञायै नमः । ॐ तन्त्ररतायै नमः । ॐ तन्त्रगोप्यायै नमः । ॐ तान्त्रिक्यै नमः । ॐ तारस्वरेण महितायै नमः । ॐ तन्त्राचारफलप्रदायै नमः । ९९० अपूर्णा तकारादि श्रीतारासहस्रनामावली नामावलिः । मार्गविद्भिः उपासकैः पूरणीया । Namavai is incomplete to be filled in by those worshippers who are capable of doing so.