अक्षर आकार:

श्रीताराप्रातःस्मरणम्

shrItArAprAtaHsmaraNam

श्रीताराप्रातःस्मरणम्

प्रातः स्मरामि भवतारिणि तारिणीं त्वां मन्दस्मितां त्रिनयनां घननीलवर्णाम् । कर्त्रीकपालोत्पलखड्गधर्त्रीं धात्रीं सुरासुरनृणामखिलेश्वरीं च ॥ १॥ प्रातः स्मरामि खर्वामपवर्गदात्री- मक्षोभ्यशम्भुसहितामहिभूषणाढ्याम् । प्रत्यर्पिताङ्घ्रशिववक्षसि सुप्रसन्नां भक्तार्तिभयवारणकर्मदक्षाम् ॥ २॥ प्रातः स्मरामि षट्कोणत्रिकोणगेहां वस्वारधरणीगृहशोभमानाम् । शक्रादिसुरसङ्घसुसेव्यमाना- मानन्दकन्दां पञ्चार्णवीं ताम् ॥ ३॥ प्रातर्नमामि नृकरोटिविशालमालां हालाविघूर्णिततरां सुत्रिनेत्रजालाम् । व्याघ्राम्बरावृतकटीतटभासमानां जाड्यापहां त्वरितसिद्धिप्रदां परेशीम् ॥ ४॥ प्रातर्भजामि भवतापविनाशिकाम्बां सद्यः समृद्धिनिधिबुद्धिप्रकाशिकां च । ज्वलच्चितामध्यगतातिघोरां दंष्ट्राकरालामपि भक्तपालाम् ॥ ५॥ यः श्लोकपञ्चकमिदं पठति प्रभाते तारां स्मरन्प्रतिदिनं भुविभारहाराम् । विद्याविभूतिसुखशान्तियशांस्यवाप्य सोऽन्ते प्रयाति सालोक्यपदं जनन्याः ॥ ६॥ इति श्रीताराप्रातःस्मरणं सम्पूर्णम् ।