अक्षर आकार:

ताराकर्पूरस्तोत्रम्

tArAkarpUrastotram

ताराकर्पूरस्तोत्रम्

ॐ नमस्तारिण्यै । श्रीकण्ठामृतकेशवर्णघटितं चन्द्रार्धचूडोज्ज्वलं बीजं यत्परमं गुणत्रयमयं कामप्रदं मुक्तिदम् । मातः ! शङ्करवल्लभे ! प्रतिदिनं ध्यायन्ति ये ये सदा ते ते यान्ति चिदात्मकं हरिहरब्रह्मादिसाम्यं मुदा ॥ १॥ व्योमार्णं वामनेत्रान्वितमनलयुतं बिन्दुचन्द्रार्धयुक्तं बीजं ते गुह्यमेतत्त्रिभुवनजननि ! त्रिक्षणे ये जपन्ति । var त्र्यक्षरं ये जपन्ति तेषां वक्त्रारविन्दे विहरति मधुरा गद्यपद्यावली गी- र्मातश्चन्द्रार्धचूडे ! सकलभयहरे ! सिद्धिभाजां नराणाम् ॥ २॥ शुक्रार्णं पूतनास्थं कलितशशिकलाबिन्दुभूषं सवह्नि भ्राजद्वामाक्षियुक्तं जननि ! तव वधूबीजमेतज्जपन्ति । ते ते लोलेक्षणानां विगलितरसनापीनवक्षोजवासः केशानां चित्तमाशु स्मरहरमहिले ! मोहयन्ति प्रकामम् ॥ ३॥ ईशानं वामकर्णोल्लसितशशिकलाबिन्दुयुक्तं सुगुह्यं ᳚बीजं मातस्त्वदीयं᳚ यदि जपति जनो वारमेकं जडात्मा । var बीजं कूर्चाख्यमन्यद् चञ्चत्पञ्चाशदुग्रग्रथितनरशिरोमालिकाक्रान्तकण्ठे ! मातः शैलेन्द्रपुत्रि ! त्रिभुवनमपि स क्षोभयत्येव शीघ्रम् ॥ ४॥ पश्चादस्त्रं तदन्यत्पुरहरमहिले! बीजमत्यन्तगुह्यं भालोद्यत्पञ्चमुद्रे प्रकटविकटदंष्ट्रोग्रवक्रारविन्दे । नित्यं ये भावयन्ति प्रतिदिनममले! घोररूपाट्टहासे! ते नूनं भावयन्ति त्रिजगदघहरे ! चक्रवद्विश्वमेतत् ॥ ५॥ मायास्त्रीकूर्चबीजैर्नवतपनहरित्सार्धचन्द्रांशुवर्णे मातर्नीलाख्यमेतत्तव मनुमनिशं ये प्रकामं जपन्ति । वित्ते वित्तेशतुल्याः शुकगुरुसदृशास्तर्ककाव्यागमादौ ते ते नीलाम्बुदालीरुचिरुचिरतनो! कामतुल्या भवन्ति ॥ ६॥ भवान्येभिर्बिजैर्हिमगिरिसुते ! चास्त्रसहितै- र्निगूढं ये मातर्मनुमनुजपन्त्येकजटिले!। त्रियामानाथार्धप्रविलसितभाले ! त्रिनयने! गृहे तेषां नित्यं निवसति सदा सिन्धुतनया ॥ ७॥ अमीभिर्बीजैस्ते प्रणवसहितैः शैलतनये ! निजस्वान्ते चास्त्रं परिजपति पञ्चाक्षरमिति । 5 akSharas ॐ ह्रीं स्त्रीं हूं फट् स साक्षात्ते न्यासी स तु पुरहरोऽसौ मुरहरः स धाता यं मुक्तो भवति हि चिदानन्दरसिके ! ॥ ८॥ शवासीनां कण्ठाकलितनृकरोटीं करलसत् कपालासिश्यामोत्पलरुचिरकर्त्रीं त्रिनयनाम् । नवाम्भोदश्यामान्विकटरदभीमान्पृथुकुचां सदैव त्वां ध्यायन् जननि! च जडो वाक्पतिसमः ॥ ९॥ तटे नद्याः सिन्धोर्गिरिशिरसि मालूरगहने श्मशाने गोष्ठे वा गिरिशभवने शून्यसदने । हविष्याशी लक्षं प्रजपति वशी भावनपरः स सर्वज्ञो वाग्मी भवति सुघनापीनजघने! ॥ १०॥ मुदा मातः शुद्धोदकरुचिरगन्धाढ्यसलिलैः स्वयम्भूपुष्पस्रक्कुलतनुभगच्छालन जलैः । var क्षालनं शिवे ! त्वां सन्ध्यायन् हरमहिषि ! सन्तर्पयति यः स दैवस्त्रीवृन्दं वशयति स विद्याधरपतिः ॥ ११॥ जपापुष्पैर्बिल्वैर्मरुबकुलवर्गैश्च कुसुमैः सुगन्धैः कर्पूरैरगरुसहितैर्धूपनिकरैः । प्रदीपैरुज्ज्वालैर्घृतरचितनैवेद्यनिकरै- स्तवार्चां यः कुर्यात्स भवति कवीन्द्रः क्षितितले ॥ १२॥ सदूर्वाभिः पद्मैस्त्रिमधुललितैः श्रीफलदलै- र्घृतैर्गव्यै रक्तैः सुकुलभगलिङ्गामृतरसैः । त्रिकोणे कुण्डे यो हुतवहमखे होमविधिना जुहोति त्वां मातः! स भवति कवीन्द्रः क्षितिपतिः ॥ १३॥ निशीथे कल्याणि ! प्रमुदितमना यः पितृवने बलिं ते मेषाद्यैः सनरमहिषैर्वा परिचरेत् । स राजानं क्षिप्रं वशयति मृगाक्षीसमुदयं त्रिलोकीं वा भूमौ स भवति जनः सत्कविवरः ॥ १४॥ महापूजां मातस्तव वितनुते यस्तु मधुना तथा मांसैर्मत्स्यैर्विविधनवमुद्रादिभिरपि । वरस्त्रीभिः सार्धं निधुवनविनोदेन मुदितो निशीथे संसारात्स भवति विमुक्तः पशुभयात् ॥ १५॥ त्रिकोणे पीठे त्वां वरनिधुवनासङ्गहृदयां महाकालेनोद्यत्पुलकनिचयां स्मेरवदनाम् । स्वयं नक्तं कान्तारतिरससमासक्तहृदयो मनुष्यो यो ध्यायेद्भवति शिवतुल्यः स धरणौ ॥ १६॥ समुत्तुङ्गापीनस्तनजघनराजत्कुलवधू- व्यवायव्यासक्तो जपति तव भक्तो यदि मनुम् । गलद्वासःकेशो जननि ! मनुजो मेदिनितले स सिद्धीशः शक्त्या जयति सुचिरं सर्वसुजनम् ॥ १७॥ भवानि ! श्रीर्मातर्निजगलितवीर्याप्तचिकुर- मथ प्रेम्णा लब्ध्वा वचनभुवनेशीयुतमनुम् । समुच्चार्य क्षोणीतनयदिवसे प्रेतसदने स दीर्घायुर्वाग्मी भवति शतहोमात्क्षितितले ॥ १८॥ अजस्रं यो मन्त्रं तव जपति भूमीधरसुते विचिन्त्याग्रे मातः ! कुसुमललितं मारभवनम् । धरण्यां कन्दर्पप्रतिमतनुभूतः स सकला- न्निजेष्टानाप्नोति प्रविशति मुदा तारिणिपदम् ॥ १९॥ तमोग्रस्ते चन्द्रे यदि जपति लोकस्तव मनुं नवम्यां वा मातर्धरणिधरकन्ये ! वितनुते । तथा सूर्ये पृथ्वीवलयतिलकः काव्यतटिनी पयोधिः सिद्धीनां भवति भवनं सर्वविदितः ॥ २०॥ सदा पादाम्भोजे भजतु हृदयं भृङ्ग इव मे सदा पाणिद्वन्द्वं परिचरतु कर्णस्तव कथाम् । श‍ृणोतु त्वकीर्तिं हरमहिषि ! गीर्गायतु सदा सदा दृष्टिर्भूयाद्भवदनुचरालोकनपरा ॥ २१॥ कदाकाले शैलेश्वरतनुभवे ! पादयुगलं मुदा द्रक्ष्ये ब्रह्मप्रमुखविबुधानां परिणुतम् । कृपापारावारे ! भवजननभीतैकशरणे! शरण्ये ! कारुण्यं मयि वितर दीने भगवति ! ॥ २२॥ सदैव स्तोत्रं यः पठति मुदितः साधकवरो न दारिद्र्यं तस्य प्रभवति कदाचित्क्षितितले । त्रिवर्गो हस्ते स्याज्जगदखिलमेतच्च वशगं चिरं जीवन्नन्ते जननि ! लभते मोक्षपदवीम् ॥ २३॥ इदं स्तोत्रं मातः प्रपठति दिवारात्रिमनिशं स सर्वज्ञो योगीश्वरनिकरचूडामणिसमे ! । जडोऽपि त्वद्रूपं जपति यदि सञ्चित्य मनसा त्वदग्रे भूयोच्चैः क्षितिपतिसमानः क्षितितले ॥ २४॥ महापुण्यं धन्यं सकलपुरुषार्थैकनिलयं यशस्यं चायुष्यं सततभवतापापहमिदम् । रहस्यं प्राकाश्यन्न हि खलु कदाचित्पशुजने पठेत्पूजाकाले जननि ! लभते मोक्षपदवीम् ॥ २५॥ ॥ इति श्रीफेत्कारीतन्त्रे ताराकर्पूरस्तोत्रम् ॥