अक्षर आकार:

श्रीताराध्यानम्

shrItArAdhyAnam

श्रीताराध्यानम्

१. विश्वव्यापकवारिमध्यविलसच्छ्वेताम्बुजन्मस्थिताम् । कर्त्रीखड्गकपालनीलनलिनैः राजत्करां नीलभाम् ॥ काञ्चीकुण्डलहारकङ्कणलसत्केयूरमञ्जीरकाम् । आप्तैर्नागवरैर्विभूषिततनुं चारक्तनेत्रत्रयाम् ॥ पिङ्गैकाग्रजटां लसत्सुरसनां दंष्ट्राकरालाननाम् । हस्तैश्चापि वरं कटौ विदधतीं श्वेतास्थिपट्टालिकाम् ॥ अक्षेभ्येण विराजमानशिरसं स्मेराननाम्भोरुहाम् । तारं शावहृदासनां दृढकुचामम्बां त्रिलोक्यां भजे ॥ २. श्वेताम्बरां शारदचन्द्रकान्तिं सद्भूषणां चन्द्रकलावतंसाम् । कर्त्रीकपालान्वितपादपद्मां तारां त्रिनेत्रां प्रभजेऽखिलर्द्ध्यै ॥ ३. प्रत्यालीढपदार्पिताङ्घ्रिशवहृद्घोराट्टहासा परा । खड्गेन्दीवरकर्त्रिखर्परभुजा हुङ्कारबीजोद्भवा ॥ खर्वा नीलविशालपिङ्गलजटाजूटैकनागैर्युता । जाड्यं न्यस्य कपालके त्रिजगतां हन्त्युग्रतारा स्वयम् ॥ ४. सात्त्विकमूर्तिध्यानम् ॥ श्वेताम्बराढ्यां हंसस्थां मुक्ताभरणभूषिताम् । चतुर्वक्त्रामष्टभुजैर्दधानां कुण्डिकाम्बुजे ॥ वराभये पाशशक्ती अक्षस्रक्पुष्पमालिके । शब्दपाथोनिधेर्मध्ये तारां स्थितिकरीं भजे ॥ ५. राजसमूर्तिध्यानम् ॥ रक्ताम्बरां रक्तसिंहासनस्थां हेमभूषिताम् । एकवक्त्रां वेदसङ्ख्यैर्भुजैः सम्बिभ्रतीं क्रमात् ॥ अक्षमालां पानपात्रमभयं वरमुत्तमम् । श्वेतद्वीपस्थितां वन्दे तारां स्थितिपरायणाम् ॥ ६. तामसमूर्तिध्यानम् ॥ कृष्णाम्बराढ्यां नौसंस्थामस्थ्याभरणभूषिताम् । नववक्त्रां भुजैरष्टादशभिर्दधतीं वरम् ॥ अभयं परशुं दर्वीं खड्गं पाशुपतं हलम् । भिन्दिं शूलं च मुसलं कर्त्रीं शक्तिं त्रिशीर्षकम् ॥ संहारास्त्रं वज्रपाशौ खट्वाङ्गं गदया सह । रक्ताम्भोधौ स्थितां वन्दे देवीं संहारकारिणीम् ॥ इति श्रीताराध्यानम् ॥