अक्षर आकार:

श्रीताम्रपर्ण्यष्टोत्तरशतनामावलिः

Shri Tamraparni Ashtottarashata Namavali

श्रीताम्रपर्ण्यष्टोत्तरशतनामावलिः

ॐ आदिपराशक्तिस्वरूपिण्यै नमः । ॐ अगस्त्यमुनिसम्भावितायै नमः । ॐ धर्मद्रवायै नमः । ॐ भगवत्यै नमः । ॐ ताम्रायै नमः । ॐ मलयनन्दिन्यै नमः । ॐ परापरायै नमः । ॐ अमृतस्यन्दायै नमः । ॐ तेजिष्ठायै नमः । ॐ सर्वकर्मविच्छेदिन्यै नमः ॥ १० ॐ मुक्तिमुद्रायै नमः । ॐ रुद्रकलायै नमः । ॐ कलिकल्मषनाशिन्यै नमः । ॐ नारायण्यै नमः । ॐ ब्रह्मनादायै नमः । ॐ ओङ्कारनादनिनदायै नमः । ॐ मलयराजतपोफलस्वरूपिण्यै नमः । ॐ मङ्गलालयायै नमः । ॐ मरुद्वत्यै नमः । ॐ अम्बरवत्यै नमः ॥ २० ॐ मणिमात्रे नमः । ॐ महोदयायै नमः । ॐ तापघ्न्यै नमः । ॐ निष्कलायै नमः । ॐ ब्रह्मानन्दायै नमः । ॐ त्रय्यै नमः । ॐ त्रिपथगात्मिकायै नमः । ॐ मायायै नमः । ॐ पुण्यायै नमः । ॐ मुक्ताफलप्रसुवे नमः ॥ ३० ॐ उमायै नमः । ॐ गौर्यै नमः । ॐ मरुद्वृधायै नमः । ॐ गङ्गायै नमः । ॐ शिवचूडायै नमः । ॐ विष्णुललाटायै नमः । ॐ ब्रह्महृदयायै नमः । ॐ शिवोद्भवायै नमः । ॐ सर्वतीर्थेडितायै नमः । ॐ सर्वतीर्थतीर्थताप्रदायिन्यै नमः ॥ ४० ॐ सर्वतीर्थैकरूपिण्यै नमः । ॐ सत्यायै नमः । ॐ सर्वपापप्रणाशिन्यै नमः । ॐ ज्ञानप्रदीपिकायै नमः । ॐ नन्दायै नमः । ॐ कमलायै नमः । ॐ हरिसायुज्यदायिन्यै नमः । ॐ स्मरणादेव मोक्षप्रदायिन्यै नमः । ॐ तीर्थराज्ञै नमः । ॐ हरिपादाब्जभूत्यै नमः ॥ ५० ॐ परमकल्याण्यै नमः । ॐ ब्रह्मविष्ण्वीशपूज्यायै नमः । ॐ शाम्भव्यै नमः । ॐ भक्तिगम्यायै नमः । ॐ भारत्यै नमः । ॐ भुक्तिमुक्तिप्रदायिन्यै नमः । ॐ प्रकृत्यै नमः । ॐ अव्यक्तायै नमः । ॐ निर्गुणायै नमः । ॐ गुणरूपिण्यै नमः ॥ ६० ॐ सूक्ष्माकारायै नमः । ॐ जगत्कारणरूपिण्यै नमः । ॐ विश्वव्यापिन्यै नमः । ॐ सर्वलोकधारिण्यै नमः । ॐ सर्वदेवाधिष्टात्र्यै नमः । ॐ सर्ववेदाधिष्टात्र्यै नमः । ॐ सर्वमन्त्रमय्यै नमः । ॐ दुरत्ययायै नमः । ॐ कल्पितभक्तमोक्षदीक्षितायै नमः । ॐ भवसागरत्रात्र्यै नमः ॥ ७० ॐ अत्रिमहर्षिसेव्यायै नमः । ॐ हयग्रीवसमाराध्यायै नमः । ॐ अमृतवाहिन्यै नमः । ॐ बहुजन्मतपोयोगफलसम्प्राप्तदर्शनायै नमः । ॐ उद्वाहोत्सुकपार्वतीकन्धरामालारूपिण्यै नमः । ॐ गुप्तिश‍ृङ्ग्युद्भवायै नमः । ॐ त्रिकूटपर्वतशिखरवर्तिन्यै नमः । ॐ शिवभक्तिमय्यै नमः । ॐ विष्णुभक्तिप्रवाहिन्यै नमः । ॐ ब्रह्मशक्तिरसायै नमः ॥ ८० ॐ अन्नदायै नमः । ॐ वसुदायै नमः । ॐ चित्रानद्योत्पत्तिहेतवे नमः । ॐ घटनानदीप्रसुवे नमः । ॐ श्रीपुरश्रीदेव्याशिषभूत्यै नमः । ॐ ब्रह्मवृद्धपुरीनायिकायै नमः । ॐ शालिशङ्करकान्तिमती उपासितायै नमः । ॐ शिवकृतबहुदानसाक्षिण्यै नमः । ॐ पुटार्जुनशिवक्षेत्रप्रकाशिकायै नमः । ॐ पापविनाशक्षेत्रशोभायै नमः ॥ ९० ॐ ज्योतिर्वनज्योतिरूपिण्यै नमः । ॐ उग्रश्रीबलधीपूज्यायै नमः । ॐ नादाम्बुजक्षेत्रविराजितायै नमः । ॐ गजेन्द्रमोक्षप्राप्तिहेतुभूत्यै नमः । ॐ दक्षदत्तसोमशापनिवारिण्यै नमः । ॐ जटायुमोक्षतीर्थप्रवाहिन्यै नमः । ॐ सुदर्शनचक्रबाधानिवारिण्यै नमः । ॐ विष्णुवनक्षेत्रमहिम्न्यै नमः । ॐ पाण्ड्यदेशसुमुकुटायै नमः । ॐ समुद्रसङ्गमत्रिधाप्रवाहिन्यै नमः ॥ १०० ॐ सर्वरोगनिवारिण्यै नमः । ॐ ईतिबाधानिवारिण्यै नमः । ॐ बहुशिवविष्णुदेवीक्षेत्रप्रवाहिन्यै नमः । ॐ बहुसुप्रसिद्धतीर्थघट्टप्रभाविन्यै नमः । ॐ निस्सीमितपुण्यप्रदायिन्यै नमः । ॐ व्यासोक्तताम्रपर्णीमाहात्म्यप्रतिपादितायै नमः । ॐ देवगुरुवृश्चिकराशिप्रवेशपुष्करफलदायै नमः । ॐ श्रीताम्रपर्णीमहादेव्यै नमः ॥ १०८ इति श्रीताम्रपर्ण्यष्टोत्तरशतनामावलिः समाप्ता । This can be used in Pujas in Tamraparni during Pushkaram.