अक्षर आकार:

श्रीस्वयंवर पार्वतीस्तोत्रं अथवा मन्त्रमालास्तोत्रं

shrI svayanvara pArvatI stotran evaM mantramAlAstotran

श्रीस्वयंवर पार्वतीस्तोत्रं अथवा मन्त्रमालास्तोत्रं

बन्धूकवर्णामरुणां सुगात्राम् शम्भुं समुद्दिश्य शनैरुपेताम् । अम्भोजमृद्वीमभिलाषदात्रीं सम्भावये निर्जरदारुकल्पाम् ॥ १॥ हीम्मन्थराणि चरणाग्रगतिप्रपाते- ष्वामञ्जुसंक्वणितकङ्कणकिङ्किणीनि । कामं कुमारि! तव तानि शिवे! स्मरामि क्षेमङ्कराणि जनकालयखेलनानि ॥ २॥ योगेन बाल्यवयसो ललितां पुरस्तात् द्रागेव कण्ठविलसत् कनकोर्मिकौघाम् । आकम्रनद्धरशनां भवतीं निरीक्षे श्रीकण्ठभामिनि! कदा प्रपदीनवेणीम् ॥ ३॥ गिर्यल्पमुग्धविशदं नवयौवनं श्री- धुर्यं विलासमयमक्ष्णि कृशं विलग्ने । पर्युच् छ्रितं कुचभरे जघने घनं यत् पर्युत्सुकोऽस्मि सततं जननि प्रसीद ॥ ४॥ निर्धूतकुण्डलमुदञ्चितघर्मलेशं विस्रस्तकेशमभितश्चलदीक्षणान्तम् । निर्ध्वानिकङ्कणमुदग्रकुचान्तमन्तर्- बध्नामि तातगृहकन्दुकखेलनं ते ॥ ५॥ योगेश्वरं प्रचुरभक्ति गिरीशमारा- देकान्तवर्तिनमुपेत्य तपश्चरन्तं । आकांक्षया परिचरिष्णुमनाकुलां त्वां ये केचिदीश्वरि भजन्ति त एव धन्याः ॥ ६॥ गिर्यात्मजे! मदनदाहमहावमान- पर्याकुला पुरहरे हृदयं निधाय । कुर्यास्तपो विदधती कुशलानि भूभृत्- पर्यायपीनकुचकुम्भविशुम्भदङ्गी ॥ ७॥ निध्याय मानसदृशा मुहुरिन्दुचूडं मद्ध्ये स्थिता रहसि पञ्चहुताशनानाम् । तत्तादृशेन तपसा जगदण्ड्भाजां वित्रासदात्रि परिपाहि सदाशिवे! नः ॥ ८॥ योग्यं वटोर्वपुरुपस्थितमात्मभक्तिं दीर्घां परीक्षितुमनुक्षणमाक्षिपन्तम् । साक्षाग्दिरीशमवधूय रुषा प्रयाते द्राक्तेन संश्रितपदां भवतीं भजामः ॥ ९॥ गेहे निजे वरणदामलसत्कराब्जां व्याहारिनूपुरमुदश्चितमन्दहासाम् । नीहारुभानुधरमुच्चलितां वरीतुं मोहावहां त्रिभुवनस्य भजामहे त्वाम् ॥ १०॥ श्वस्ताहि कङ्कणविलोकनभीतभीतं प्रत्यग्ररागविवशं मम तं निधेहि । उत्स्वेदवेपथु पिनाकभृता गृहीतं रुद्राणि दक्षिणकराम्बुजमुत्तमांगे ॥ ११॥ रिष्टापहं भवतु भर्त्तृनखेन्दुबिम्ब- स्पष्टानुबिम्बिततनुं विबुधापगां ताम् । दृष्ट्वाशु रागरभसोदयशोणकोणं दृष्टिद्वयं तव करग्रहणे स्थितं नः ॥ १२॥ योगे नवे तव भवानि शिवानि दद्यात् द्रागेव सत्वरमपत्रपया निवृत्तम् । साकम्पमालिवचनैर्विहिताभिमुख्यं द्रागुत्स्मितं पुरभिदा परिरब्धमंगम् ॥ १३॥ गत्या नितम्बभरमन्थरया सलज्जै- रर्धेक्षणैरसकलाक्षरवाग्विलासैः । हृद्यैश्च विभ्रमगुणैर् मदनारिधैर्य- प्रस्तारद्दारिणि शिवे जननि प्रसीद ॥ १४॥ भद्रा मुखेन्दुनमनादभिवीक्षणेषु प्रत्युक्तिदानविरमान्नवसत्कथासु । उद्वेपनादपि हठात्परिरम्भणेषु पत्युः प्रमोदजननी जननि प्रसीद ॥ १५॥ यं नाथमादिमुनयो निगमोक्तिगुम्भे- ष्वालक्ष्य तान्तमनसो विमुखीभवन्ति । सन्नह्य तेन दयितेन मनोजविद्या- नन्दानुभूतिरसिके जननि प्रसीद ॥ १६॥ कल्याणकुन्तलभरं नवकल्पवल्ली- पुष्पोल्लसद् बहुलसौरभलोभनीयम् । कल्याणदामशशिखण्डमखण्डशोभा- कल्लोलितं तव महेश्वरि संश्रयामः ॥ १७॥ रिञ्चोलिका तव शिवे! निटिलालकानां न्यञ्चत्पटीरतिलके निटिले विभान्ती । मञ्जुप्रसन्नमुखपद्मविहारिलक्ष्मी- पिञ्छातपत्ररुचिरा हृदि नः समिन्धाम् ॥ १८॥ सम्यग्भ्रुवौ तव विलासभुवौ स्मरामः सम्मुग्द्ध मन्मथशरासनचारुरूपे । हृन्मध्यगूढनिहितं हरधैर्यलक्ष्यं यन्मूलयन्त्रितकटाक्षशरैर्विभिन्नम् ॥ १९॥ कम्राः सितासितरुचा श्रवणान्तदीर्घाः बिम्बोकडम्बरभृतो निभृतानुकम्पाः । सम्पातुका मयि भवन्तु पिनाकिवक्त्र- बिम्बाबुजन्ममधुपाः सति! ते कटाक्षाः ॥ २०॥ लग्नाभिराममृगनाभिविचित्रपत्रं मग्नं प्रभासमुदये तव गण्डबिम्बम् । चित्ते विभातु सततं मणिकुण्डलोद्य- द्रत्नानुबिम्बपरिचुम्बितमम्बिके नः ॥ २१॥ स्थाणोः सदा भगवतः प्रियतानिधानं प्राणादपि प्रविरलस्मितलोभनीयम् । स्थानीकुरुष्व गिरिजे! तव बन्धुजीव- श्रेणीसगन्धमधरं धिषणान्तरे नः ॥ २२॥ वन्दामहे कनकमंगलसूत्रशोभा- सन्दीप्तकुङ्कुमवलित्रयभंगि रम्यम् । मन्द्रादिकस्वरविकस्वरनादविद्या- सन्दर्भगर्भमगजे! तव कण्ठनालम् ॥ २३॥ रक्षार्थमत्र मम मूर्धनि धत्स्व नित्यं दक्षारिगाढपरिरम्भरसानुकूलम् । अक्षामहेमकटकांगदरत्नशोभं लाक्षाविलं जननि! पानियुगं त्वदीयम् ॥ २४॥ जम्भारिकुम्भिवरकुम्भनिभामुरोज- कुम्भद्वयीं ललितसम्भृतरत्नमालाम् । शम्भोर्भुजैरनुदिनं निबिडांकपाली- सम्भावितां भुवनसुन्दरि! भावयामः ॥ २५॥ गर्वापहे वटदलस्य तनूदरान्ते निर्व्यूढभासि तव नाभिसरस्यगाधे । शर्वावलोकरुचिमेदुररोमवल्ली- निर्वासिते वसतु मे धिषणामराली ॥ २६॥ मच्चेतसि स्फुरतु माररथांगभंगीं उच्चैर्दधानमतिपीवरतानिधानम् । स्वच्छन्दरत्नरशनाकलितान्तरीय- प्रच्छन्नमम्ब! तव कम्रनितम्बबिम्बम् ॥ २७॥ स्यन्दानुरागमदवारिपुरारिचेत- स्सन्नागबन्धमणिवेणुकमूरुकाण्डम् । बन्दीकृतेन्द्रगजपुष्करमुग्धरम्भं नन्दाम सुन्दरि! शिवे! हृदि सन्दधानाः ॥ २८॥ मुग्धोल्लसत्कनकनूपुरनग्धनाना- रत्नाभयोर्ध्वगतया परितोऽभिरामम् । चित्तप्रसूतिजयकाहलकान्ति जंघा- युग्मं त्वदीयमगनन्दिनि! चिन्तयामः ॥ २९॥ खट्वांगपाणिमकुटेन तदा तदा सं- घृष्टाग्रयोः प्रणतिषु प्रणयप्रकोपे । अष्टांगपातसहितं प्रणतोस्मि लब्धु- मिष्टां गतिं जननि! पादपयोजयोस्ते ॥ ३०॥ हृद्यर्पणं मम मृजन्तु तदा त्वदंग- मुद्यद्रविद्युति भवेदिह सानुबिम्बम् । उत्तुंगदैत्यसुरमौलिभिरुह्यमाना रुद्रप्रिये! तव पदाब्जभवाः परागाः ॥ ३१॥ दद्याः सुखानि मम चक्रकलान्तरस्त्था! रक्ताम्बराभरणमाल्यधरा! जपाभा! । रुद्राणि! पाशसृणिचापशराग्रहस्ता! कस्तूरिकातिलकिनी! नवकुङ्कुमार्दा! ॥ ३२॥ यत्पङ्कजन्मनिलयं करपद्मशुम्भ- दम्भोरुहं भुवनमंगलमाद्रियन्ते । अम्भोरुहाक्ष सुकृतोत्करपाकमेकं सम्भावये हृदि शिवे! तव शक्तिभेदं ॥ ३३॥ मन्दारकुन्दसुषमा करपल्लवोद्यत् पुण्याक्षदामवरपुस्तकपूर्णकुम्भा । चन्द्रार्द्धचारुमकुटा नवपद्मसंस्था सन्देदिवीतु भवती हृदि नस्त्रिणेत्रा ॥ ३४॥ मध्येकदम्बवनमास्थितरत्नडोलां उद्यन्नखाग्रमुखरीकृतरत्नवीणाम् । अत्यन्तनीलकमनीयकलेबरां त्वां उत्संगलालितमनोज्ञशुकीमुपासे ॥ ३५॥ वर्तामहे मनसि सन्दधतीं नितान्त- रक्तां वराभयविराजिकरारविन्दाम् । उद्वेलमध्यवसतिं मधुरांगि! मायां तत्त्वात्मिकां भगवतीं भवतीं भजन्तः ॥ ३६॥ शम्भुप्रियां शशिकलाकलितावतंसां सम्भाविताभयवरां कुशपाशपाणिम् । सम्पात्प्रदाननिरतां भुवनेश्वरीं त्वां शुम्भज्जपारुचमपारकृपामुपासे ॥ ३७॥ आरूढतुंगतुरगां मृदुबाहुवल्लीं आरूढपाशसृणिवेत्रलतां त्रिणेत्राम् । आरोपितामखिलसन्वनने प्रगत्भां आराधयामि भवतीं मनसा मनोज्ञाम् ॥ ३८॥ कर्मात्मिके जय जयाखिलधर्ममूर्ते चिन्मात्रिके, जय जय त्रिगुणस्वरूपे । कल्माषघर्मपिशुनान् करुणामृतार्द्रैः सम्मार्ज्य सम्यगभिषिञ्च दृगञ्चलैर् नः ॥ ३९॥ षणामसि त्वमधिदैवतमक्षराणां वर्णत्रयोदितमनुप्रकृतिस्त्वमेव । त्वन्नाम विश्वमनुशक्तिकलं त्वदन्यत् किन्नाम दैवतमिहास्ति समस्तमूर्त्ते ॥ ४०॥ या कापि विश्वजनमोहनदिव्यमाया श्रीकामवैरिवपुरर्धहरानुभावा । प्राकाश्यते जगदधीश्वरि! सा त्वमस्मान् मूकाननन्यशरणान् परिपाहि दीनान् ॥ ४१॥ कर्त्र्यै नमोऽस्तु जगतोनिखिलस्य भर्त्र्यै हर्त्र्यै नमोऽस्तु विधिविष्णुहरात्मशक्त्यै । भुक्त्यै नमोऽस्तु भुवनाभिमतप्रसूत्यै मुक्त्यै नमोऽस्तु मुनिमण्डलदृश्यमूर्त्यै ॥ ४२॥ षड्वक्त्रहस्तिमुखजुष्टपदस्य भर्तु- रिष्टोपगूहनसुधाप्लुतमानसस्य । दृष्ट्या निपीय वदनेन्दुमदक्षिणाङ्के तुष्ट्या स्थिते! वितर देवि! दयावलोकान् ॥ ४३॥ यन्तान्तरं भवितृभूतभवं मया यत् स्वप्नप्रजागरसुषुप्तिषु वाङ्मनोऽङ्गैः । नित्यं त्वदर्चनकलासु समस्तमेतत् भक्तानुकम्पिनि! ममास्तु तव प्रसादात् ॥ ४४॥ स्वाहेति सागरसुतेति सुरापगेति व्याहाररूपसुषमेति हरिप्रियेति । नीहारशैलतनयेति पृथक्प्रकाश- रूपां परेशमहिषीं भवतीं भजामः ॥ ४५॥ हारस्फुरत्कुचगिरे! हरजीवनाथे! हारिस्वरूपिणि! हरिप्रमुखाभिवन्द्ये! । हेरम्बशक्तिधरनन्दिनि! हेमवर्णे! हे चण्डि! हैमवति! देवि! नमो नमस्ते ॥ ४६॥ ये तु स्वयंवरमहास्तवमन्त्रमेतं प्रातर्नराः सकलसिद्धिकरं जपन्ति । भूतिप्रभावजनरञ्जनकीर्त्तिसौन्द- र्यारोग्यमायुरपि दीर्घममी लभन्ते ॥ ४७॥ शतक्रतुप्रभृत्यमर्त्यतत्यभिप्रणत्युप- क्रमप्रसृत्वरस्मितप्रभाञ्चितास्यपङ्कजे । हरप्रिये! वरप्रदे! धराधरेन्द्रकन्यके हरिद्रया समन्विते दरिद्रतां हर द्रुतं ॥ ४८॥ स्वयंवरमन्त्रम् न्यासं अस्य श्रीस्वयंवरामन्त्रस्य ब्रह्मा ऋषिः देवीगायत्री छन्दः देवी गिरिपुत्री स्वयंवरा देवता । मम अभीष्टसिध्यर्थे जपे विनियोगः ॥ ह्रां इत्यादिना न्यासः । ध्यानं शम्भुं जगन्मोहनरूपपूर्णं विलोक्य लज्जाकुलितां स्मिताढ्याम् । मधूकमालां स्वसखीकराभ्यां सम्बिभ्रतीमद्रिसुतां भजेयम् ॥ -पञ्चपूजां लं इत्यादि- ॐ ह्रीं योगिनि योगिनि योगेश्वरि योगभयंकरि सकलस्थावरजंगमस्य मुखहृदयं मम वशं आकर्षयाकर्षय स्वाहा । ॥ स्वयंवरध्यानम् ॥ हेमाभाम्मतिवागतीतगुणशीलान्तामशिल्पाकृतिं प्रेमारोहमनोहरां करलसत्कल्याणदामान्विताम् । श्यामामीश्वरमुद्यतां वरयितुं त्रैलोक्यसम्मोहिनीं कामापादनकल्पवल्लिमनिशं वन्दे परां देवताम् ॥ १॥ बालार्कायुतसुप्रभां करतले रोलम्बमालाकुलां मालां सन्दधतीं मनोहरतनुं मन्दस्मितोद्यन्मुखीम् । मन्दं मन्दमुपेयुषीं वरयितुं शम्भुं जगन्मोहिनीं वन्दे देवमुनीन्द्रवन्दितपदामिष्टार्थदां पार्वतीं ॥ २॥ विधृतवरणमाल्या सर्वरत्नांगभूषा निखिलनयनचेतोहारिरूपाग्र्यवेषा । भवतु भवदभिष्टप्राप्तये शैलकन्या पुरुषयुवतिवश्याकृष्टिनित्यप्रहर्षा ॥ ३॥