अक्षर आकार:

श्रीसुगन्धिकुन्तलाम्बास्तवराजः

Shri Sugandhikuntalambastavarajah

श्रीसुगन्धिकुन्तलाम्बास्तवराजः

सुखप्रदे नमत्ततेः सुबुद्धिलोकभाविते सुधाकरार्भकोल्लसत्किरीटवर्यभासुरे । सुमेषुवैरिचित्तकञ्जवासरेट्प्रभावले सुगन्धिकुन्तलाम्बिके प्रसीद सत्वरं मम ॥ १॥ सुखांशहीनदुष्टगोचरप्रसक्तचेतसो निदाघभानुबद्धसौख्यतृष्णया प्रतप्यतः । हृदापि तावकं पदं कदापि न स्मरिष्यतः सुगन्धिकुन्तलाम्बिके प्रसीद सत्वरं मम ॥ २॥ सुखालिदानदीक्षिते प्रणम्रलोकसन्ततेः सुमोल्लसत्कचोज्ज्वले सुपर्वमानिनीस्तुते । सुरालिमौलिरत्नभाविराजिताङ्घ्रिपङ्कजे सुगधिकुन्तलाम्बिके प्रसीद सत्वरं मम ॥ ३॥ सुताविशेषसंस्रवत्कृपे प्रणम्रसन्ततौ सुरासुरादिवन्दिते सुरोत्तमैः समर्चिते । सुवाग्झरीप्रदानदक्षपादपद्मसन्नते सुगन्धिकुन्तलाम्बिके प्रसीद सत्वरं मम ॥ ४॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितः श्रीसुगन्धिकुन्तलाम्बास्तवराजः सम्पूर्णः ।