अक्षर आकार:

सुधाधाराकाली स्तोत्रम्

sudhAdhArAkAlI stotram

सुधाधाराकाली स्तोत्रम्

अचिन्त्यामिताकारशक्तिस्वरूपा प्रतिव्यक्त्यधिष्ठानसत्त्वैकमूर्तिः । गुणातीतनिर्द्वन्द्वबोधैकगम्या त्वमेका परब्रह्मरूपेण सिद्धा ॥ १॥ अगोत्राकृतित्वादनैकान्तिकत्वात् अलक्ष्यागमत्वादशेषाकरत्वात् । प्रपञ्चालसत्वादनारम्भकत्वात् त्वमेका परब्रह्मरूपेण सिद्धा ॥ २॥ असाधारणत्वादसम्बन्धकत्वात् अभिन्नाश्रयत्वादनाकारकत्वात् । अविद्यात्मकत्वादनाद्यन्तकत्वात् त्वमेका परब्रह्मरूपेण सिद्धा ॥ ३॥ यदा नैव धाता न विष्णुर्न रुद्रो न कालो न वा पञ्चभूतानि नाशा । तदा कारणीभूतसत्वैकमूर्तिः त्वमेका परब्रह्मरूपेण सिद्धा ॥ ४॥ न मीमांसका नैव कालादितर्का न साङ्ख्या न योगा न वेदान्तवेदाः । न देवा विदुस्ते निराकारभावं त्वमेका परब्रह्मरूपेण सिद्धा ॥ ५॥ न ते नामगोत्रे न ते जन्ममृत्यू न ते धामचेष्टे न ते दुःखसौख्ये । न ते मित्रशत्रू न ते बन्धमोक्षौ त्वमेका परब्रह्मरूपेण सिद्धा ॥ ६॥ न बाला न च त्वं वयस्का न वृद्धा न च स्त्री न षण्ढः पुमान्नैव च त्वम् । न च त्वं सुरो नासुरो नो नरो वा त्वमेका परब्रह्मरूपेण सिद्धा ॥ ७॥ जले शीतलत्वं शुचौ दाहकत्वं विधौ निर्मलत्वं रवौ तापकत्वम् । तवैषाम्बिके यस्य कस्यापि शक्तिः त्वमेका परब्रह्मरूपेण सिद्धा ॥ ८॥ पपौ क्ष्वेडमुग्रं पुरा यन्महेशः पुनः संहरत्यन्तकाले जगच्च । तवैव प्रसादान्न च स्वस्य शक्त्या त्वमेका परब्रह्मरूपेण सिद्धा ॥ ९॥ करालाकृतीन्याननानि श्रयन्ती भजन्ती करास्त्रादि बाहुल्यमित्थम् । जगत्पालनायाऽसुराणां वधाय त्वमेका परब्रह्मरूपेण सिद्धा ॥ १०॥ रुचन्ती शिवाभिर्वहन्ती कपालं जयन्ती सुरारीन् वधन्ती प्रसन्ना । नटन्ती पतन्ती चलन्ती हसन्ती त्वमेका परब्रह्मरूपेण सिद्धा ॥ ११॥ अपादाऽपि वाताधिकं धावसि त्वं श्रुतिभ्यां विहीनाऽपि शब्दं श‍ृणोषि । अनासाऽपि जिघ्रस्यनेत्राऽपि पश्य- स्यजिह्वाऽपि नानारसास्वादविज्ञा त्वमेका परब्रह्मरूपेण सिद्धा ॥ १२॥ यथा बिम्बमेकं रवेरम्बरस्थं प्रतिच्छायया यावदेकोदकेषु । समुद्भासतेऽनेकरूपं यथावत् त्वमेका परब्रह्मरूपेण सिद्धा ॥ १३॥ यथा भ्रामयित्वा मृदं चक्रमध्ये कुलालो विधत्ते शरावे घटं च । महामोहयन्त्रेषु भूतान्यशेषान् तथा मानुषांस्त्वं सृजस्यादिसर्गे ॥ १४॥ त्वमेका परब्रह्मरूपेण सिद्धा ॥ यथा रङ्गरज्वर्कदृष्टिष्वकस्मात् नॄणां रूपदर्वीकराम्बुभ्रमः स्यात् । जगत्यत्र तत्तन्मये तद्वदेव । त्वमेकैव तत् तन्निदत्ता समस्तम् ॥ १५॥ त्वमेका परब्रह्मरूपेण सिद्धा ॥ महाज्योतिरेकार सिंहासनं यत्- स्वकीयान् सुरान् वाहयस्युग्रमूर्ते अवष्टभ्य पद्भ्यां शिवं भैरवं च । स्थिता तेन मध्ये भवत्यैव मुख्या var मुग्धा त्वमेका परब्रह्मरूपेण सिद्धा ॥ १६॥ कुयोगासने योगमुद्राभ्यनीतिः कुशोभायुपोतस्य बालाननं च जगन्मातरादृक् तवाऽपूर्वलीला । कथं कारमस्मद्विधैर्देवि गम्या त्वमेका परब्रह्मरूपेण सिद्धा ॥ १७॥ विशुद्धा परा चिन्मयी स्वप्रकाशा- मृतानन्दरूपा जगद्व्यापिका च । तवेतद्विधा या निजाकारमूर्तिः किमस्माभिरन्तर्हृदि ध्यायितव्या ॥ १८॥ var भावितव्या त्वमेका परब्रह्मरूपेण सिद्धा ॥ महाघोरकालानलज्वलज्ज्वाला हित्यत्त्यन्तवासा महाटाट्टहासा । जटाभारकाला महामुण्डमाला विशाला त्वमीदृङ्मया ध्यायशम्ब ॥ १९॥ var ध्यायसेऽम्ब त्वमेका परब्रह्मरूपेण सिद्धा ॥ तपो नैव कुर्वन् वपुः सीदयामि व्रजन्नापि तीर्थं पदे खञ्जयामि । पठन्नापि वेदान् जनिं यापयामि त्वदङ्घ्रिद्वयं मङ्गलं साधयामि ॥ २०॥ त्वमेका परब्रह्मरूपेण सिद्धा ॥ तिरस्कुर्वतोऽन्यामरोपासनार्चे परित्यक्तधर्माध्वरस्यास्य जन्तोः । त्वदाराधनान्यस्तचित्तस्य किं मे करिष्यन्त्यमी धर्मराजस्य दूताः ॥ २१॥ त्वमेका परब्रह्मरूपेण सिद्धा ॥ न मन्ये हरिं नो विधातारमीशं न वह्निं न ह्यर्कं न चेन्द्रादिदेवान् । शिवोदीरितानेकवाक्यप्रबन्धैः त्वदर्चाविधानं विशत्वम्ब मत्यां ॥ २२॥ त्वमेका परब्रह्मरूपेण सिद्धा ॥ नरा मां विनिन्दन्तु नाम त्यजेन्मां त्यजेद्बान्धवा ज्ञातयः सन्त्यजन्तु । var तथा बान्धवा यमीया भटा नारके पातयन्तु त्वमेका गतिर्मे त्वमेका गतिर्मे ॥ २३॥ त्वमेका परब्रह्मरूपेण सिद्धा ॥ महाकालरुद्रोदितस्तोत्रमेतत् सदा भक्तिभावेन योऽध्येति भक्तः न चापन्न न शोको न रोगो न मृत्यु- र्भवेत् सिद्धिरन्ते च कैवल्यलाभः त्वमेका परब्रह्मरूपेण सिद्धा ॥ २४॥ इदं शिवायाः कथितं सुधाधाराख्यं स्तवं । एतस्य सतताभ्यासात् सिद्धिः करतलेस्थिता ॥ एतत्स्तोत्रं च कवचं पद्यं त्रितयमप्यदः । पठनीयं प्रयत्नेन नैमित्तिकसमर्पणे ॥ var नैमित्तिकसमर्हणे सौम्येन्दीवरनीलनीरदघटाप्रोद्दामदेहच्छटा लास्योन्मादनिनादमङ्गलचयैः श्रोण्यन्तदोलज्जटाः । सा काली करवालकालकलना हन्त्वश्रियं चण्डिका काली क्रोधकरालकालभयदोन्मादप्रमोदालया नेत्रोपान्तकृतान्तदैत्यनिवहाप्रोद्दान देहामया । var देहाभया पायाद्वो जयकालिका प्रवलिका हुङ्कारघोरानना भक्तानामभयप्रदा विजयदा विश्वेशसिद्धासना ॥ इति श्रीसुधाधाराकाली स्तोत्रम् समाप्तम् ॥ इति महाकालसंहितायां श्रीगुह्यकाल्याः सुधाधारास्तवः सम्पूर्णः । करालोन्मुखी कालिका भीमकान्ता कटिव्याघ्रचर्मावृता दानवन्ता । हूं हूं कड्मडी नादिनी कालिका तु प्रसन्ना सदा नः प्रसन्नान् पुनातु ॥ There is a stotra with similar refrain tvamekA parabrahmarUpeNa siddhA in Rudrayamala uttaratantra paTala 46 (ShaTchatvArIMshaH paTalaH) termed as rudrshaktilAkinIstotra or rudrANIstotram with different content, vailable in ShaTchakra group in Devi chapter.