अक्षर आकार:

श्रीसुभगोदयस्तुती

Shrisubhagodayastuti

श्रीसुभगोदयस्तुती

॥ श्रीः॥ ॥ श्रीसुभगोदयस्तुतिः॥ श्री गौडपादाचार्य विरचिता भवानि त्वां वन्दे भवमहिषि सच्चित्सुखवपुः पराकारां देवीममृतलहरीमैन्दवकलाम् । महाकालातीतां *कलितसरणीकल्पिततनुं var कलितसरणिं कल्पिततनुं सुधासिन्धोरन्तर्वसतिमनिशं वासरमयीम् ॥ १॥ मनस्तत्त्वं जित्वा नयनमथ नासाग्रघटितं *पुनर्व्यावृत्ताक्षः स्वयमपि यदा पश्यति पराम् । varपुनर्व्यावृत्ताक्षिद्वयमपि तदानीमेवास्य स्फुरति बहिरन्तर्भगवती परानन्दाकारा परशिवपरा काचिदपरा ॥ २॥ मनोमार्गं जित्वा मरुत इह नाडीगणजुषो निरुध्यार्कं सेन्दुं दहनमपि सञ्ज्वाल्य शिखया । सुषुम्णां संयोज्य श्लथयति च षड्ग्रन्थि शशिनं तवाज्ञाचक्रस्थं *विलयति महायोगिसमयी ॥ ३॥ varश्लथयति, विलसति यदा तौ चन्द्रार्कौ निजसदनसंरोधनवशा- *दशक्तौ पीयूषस्रवणहरणे सा च भुजगी । varदशक्ता प्रबुद्धा क्षुत्क्रुद्धा दशति शशिनं बैन्दवगतं सुधाधारासारैः स्नपयसि तनुं बैन्दवकले ॥ ४॥ पृथिव्यापस्तेजः पवनगगने तत्प्रकृतयः *स्थितास्तन्मात्रास्ता विषयदशकं मानसमिति । varस्थितास्तन्मात्राप्ता *ततो माया विद्या तदनु च महेशः शिव इतः varतथा परं तत्त्वातीतं मिलितवपुरिन्दोः परकला ॥ ५॥ कुमारी यन्मन्द्रं ध्वनति च ततो योषिदपरा कुलं त्यक्त्वा *रौति स्फुटति च *महाकालभुजगी । varकाचित्; महाकालपतगी, महानीलभुजगी ततः पातिव्रत्यं भजति दहराकाशकमले सुखासीना योषा भवसि भवसीत्काररसिका ॥ ६॥ त्रिकोणं ते कौलाः कुलगृहमिति प्राहुरपरे चतुष्कोणं प्राहुः समयिन इमे बैन्दवमिति । *सुधासिन्धौ तस्मिन्सुरमणिगृहे सूर्यशशिनो- varसुधासिन्धोस्तस्मिन् रगम्ये रश्मीनां समयसहिते त्वं *विहरसे ॥ ७॥ varविहरसि त्रिखण्डं ते चक्रं शुचिरविशशाङ्कात्मकतया मयूखैः *षट्त्रिंशद्दशयुततया खण्डकलितैः । varषट्त्रिंशत्त्रिशतयुतमाखण्ड,षट्त्रिंशच्छतयुततया पृथिव्यादौ तत्त्वे पृथगुदितवद्भिः परिवृतं *भवेन्मूलाधारात्प्रभृति तव षट्चक्रसदनम् ॥ ८॥ varभवेन्मूलाधारप्रभृति शतं चाष्टौ वह्नेः शतमपि कलाः षोडश रवेः शतं *षट् च त्रिंशत्सितमयमयूखाश्चरणजाः । varषट्त्रिंशद्द्वे, षट्त्रिंशद्द्वै सितमयि य एते षष्टिश्च त्रिशतमभवंस्त्वच्चरणजा* varचरणगा *महाकौलेस्तस्मान्न हि तव शिवे कालकलना ॥ ९॥ varमहाकालस्तस्मात् त्रिकोणं चाधारं *त्रिपुरतनु तेऽष्टारमनघे varत्रिभुवननुते, त्रिभुवननुतेष्वार *भवेत्स्वाधिष्ठानं पुनरपि दशारं मणिपुरम् । varतव स्वाधिष्ठानं भगवति दशारं ते संवित्कमलमथ मन्वश्रकमुमे विशुद्धं स्यादाज्ञा शिव इति ततो बैन्दवगृहम् ॥ १०॥ त्रिकोणे ते वृत्तत्रितयमिभकोणे वसुदलं कलाश्रं मिश्ररि भवति भुवनाश्रे *च भुवनम् । varत्रिभुवनम् चतुश्चक्रं शैवं निवसति *भगे शाक्तिकमुमे varदशे शाक्तिकमुमे, भगे शाक्तकमुमे प्रधानैक्यं षोढा भवति च तयोः शक्तिशिवयोः ॥ ११॥ कलायां बिन्द्वैक्यं तदनु च तयोर्नादविभवे तयोर्नादेनैक्यं तदनु च कलायामपि तयोः । तयोर्बिन्दावैक्यं त्रितयविभवैक्यं परशिवे *तदेवं षोढैक्यं भवति हि सपर्या समयिनाम् ॥ १२॥ varतथैवं कला नादो बिन्दुः क्रमश इह व्रणाश्च चरणं षडब्जं चाधारप्रभृतिकममीषां च मिलनम् । *तदेवं षोढैक्यं भवति खलु येषां समयिनां varतथैवं चतुर्धैक्यं तेषां भवति हि सपर्या समयिनाम् ॥ १३॥ तडिल्लेखामध्ये स्फुरति मणिपूरे भगवती चतुर्धैक्यं तेषां भवति च चतुर्बाहुरुदिता । धनुर्बाणानिक्षूद्भवकुसुमजानङ्कुशवरं तथा पाशं बिभ्रत्युदितरविबिम्बाकृतिरुचिः ॥ १४॥ varकृतिरुचिम् भवत्यैक्यं षोढा भवति भगवत्याः समयिनां मरुत्वत्कोदण्डद्युतिनियुतभासा समरुचिः । भवत्पाणिव्रातो दशविध इतीदं मणिपुरे भवानि प्रत्यक्षं तव वपुरुपास्ते न हि परम् ॥ १५॥ इत्यैक्यनिरूपणम्॥ भवानि श्रीहस्तैर्वहसि फणिपाशं सृणिमथो धनुः पौण्ड्रँ पौष्पं शरमथ जपस्रक्षुकवरौ । अथ द्वाभ्यां मुद्रामभयवरदानैकरसिकां varरसिके क्वणद्वीणां द्वाभ्यां *त्वमुरसि कराभ्यां च बिभृषे ॥ १६॥ varउरसि च त्रिकोणैरष्टारं त्रिभिरपि दशारं समुदभू- द्दशारं भूगेहादपि च भुवनाश्रं समभवत् । ततोऽभून्नागारं नृपतिदलमस्मात्त्रिवलयं *चतुर्द्वाःप्राकारत्रितयमिदमेवाम्ब *शरणम् ॥ १७॥ varचतुर्धा; चरणम् चतुःषष्टिस्तन्त्राण्यपि कुलमतं निन्दितमभू- varकुलनुतंनिन्दितमिदं तदेत द्यदेतन्मिश्राख्यं मतमपि भवेन्निन्दितमिह । शुभाख्याः पञ्चैताः श्रुतिसरणिसिद्धाः प्रकृतयो महाविद्यास्तासां भवति *परमार्थो भगवती ॥ १८॥ varपरमार्था, परमार्थो भगवति स्मरो मारो मारः स्मर इति *परो मारमदन - varस्मरो स्मरानङ्गाश्चेति* स्मरमदनमाराः स्मर इति । varश्चैते त्रिखण्डः खण्डान्ते *कलितभुवनेश्यक्षरयुत- varकलितभुवने ते क इति यः श्चतुःपञ्चार्णास्ते त्रय इति च पञ्चाक्षरमनुः* ॥ १९॥ varमनोः त्रिखण्डे त्वन्मन्त्रे शशिसवितृवह्न्यात्मकतया स्वराश्चन्द्रे लीनाः सवितरि कलाः कादय इह । यकाराद्या वह्नावथ कषयुगं बैन्दवगृहे निलीनं सादाख्ये शिवयुवति नित्यैन्दवकले ॥ २०॥ ककाराकाराभ्यां स्वरगणमवष्टभ्य निखिलं कलाप्रत्याहारात्सकलमभवद्व्यञ्जनगणः । त्रिखण्डे स्यात्प्रत्याहरणमिदमन्वक्कषयुगं* varमञ्चत्कषयुगं क्षकारश्चाकारोऽक्षरतनुतया चाक्षरमिति ॥ २१॥ *विदेहेन्द्रापत्यं श्रुत इह ऋषिर्यस्य च मनो- varविदेहो नैरृत्याः सुत इह ऋषिर्यः स च रयं चार्थः सम्यक्ष्रुतिशिरसि तैत्तिर्यकऋउचि । ऋषिं हित्वा चास्या हृदयकमले नैतमृषिमि- त्यृचाभ्युक्तः पूजाविधिरिह भवत्याः समयिनाम् ॥ २२॥ त्रिखण्डस्त्वन्मन्त्रस्तव च सरघायां निविशते श्रियो देव्याः शेषो यत इह समस्ताः शशिकलाः । त्रिखण्डे त्रैखण्ड्यं निवसति समन्त्रे च सुभगे षडब्जारण्यानी त्रितययुतखण्डे निवसति ॥ २३॥ त्रयं चैतत्स्वान्ते परमशिवपर्यङ्कनिलये परे *सादाख्येऽस्मिन्निवसति चतुर्धैक्यकलनात् । varसादाख्यास्मिन् स्वरास्ते लीनास्ते भगवति कलाश्रे च सकलाः ककाराद्या वृत्ते तदनु चतुरश्रे च यमुखाः ॥ २४॥ हलो बिन्दुर्वर्गाष्टकमिभदलं शाम्भववपु- श्चतुश्चक्रं *शक्रस्थितमनुभयं शक्तिशिवयोः । varशक्तास्थित, शक्तौ स्थित निशाद्या दर्शाद्याः श्रुतिनिगदिताः *पञ्चदशधा varपञ्चदश ता *भवेयुर्नित्यास्तास्तव जननि मन्त्राक्षरगणाः ॥ २५॥ varनित्याप्तास्तव इमास्ताः षोडश्यास्तव च सरघायां शशिकला स्वरूपायां लीना निवसति तव श्रीशशिकला । अयं प्रत्याहारः श्रुत इह कलाव्यञ्जनगणः ककारेणाकारः स्वरगणमशेषं कथयति ॥ २६॥ क्षकारः पञ्चाशत्कल इति *हलो बैन्दवगृहं varहरो *ककारादूर्ध्वं स्याज्जननि तव नामाक्षरमिति । varक्षकारा भवेत्पूजाकाले मणिखचितभूषाभिरभितः प्रभाभिर्व्यालीढं भवति मणिपूरं सरसिजम् ॥ २७॥ वदन्त्येके वृद्धा मणिरिति जलं *तेन निबिडं varलीननिबिडं परे तु त्वद्रूपं मणिधनुरितीदं समयिनः । अनाहत्या *नादः प्रभवति सुषुम्णाध्वजनितं- varसादः स्तदा वायोस्तत्र प्रभव इदमाहुः समयिनः ॥ २८॥ तदेतत्ते संवित्कमलमिति संज्ञान्तरमुमे भवेत्संवित्पूजा भवति कमलेऽस्मिन्समयिनाम् । विशुद्ध्याख्ये चक्रे वियदुदितमाहुः समयिनः सदापूर्वो देवः शिव इति हिमानीसमतनुः ॥ २९॥ त्वदीयैरुद्द्योतैर्भवति च विशुद्ध्याख्यसदनं भवेत्पूजा देव्या हिमकरकलाभिः समयिनाम् । सहस्रारे चक्रे निवसति कलापञ्चदशकं तदेतन्नित्याख्यं भ्रमति सितपक्षे समयिनाम् ॥ ३०॥ अतः शुक्ले पक्षे *प्रतिदिनमिह त्वां भगवतीं varप्रतिदिनमहस्त्वां निशायां सेवन्ते निशि चरमभागे समयिनः । शुचिः स्वाधिष्ठाने रविरुपरि संवित्सरसिजे शशी चाज्ञाचक्रे हरिहरविधिग्रन्थय इमे ॥ ३१॥ कलायाः षोडश्याः प्रतिफलितबिम्बेन सहितं तदीयैः पीयूषैः पुनरधिकमाप्लाविततनुः । सिते पक्षे सर्वास्थिथय इह कृष्णेऽपि च समा यदा चामावास्या भवति न हि पूजा समयिनाम् ॥ ३२॥ इडायां पिङ्गल्यां चरत इह तौ सूर्यशशिनौ तमस्याधारे तौ यदि तु *मिलितौ सा तिथिरमा । varतुलिती तदाज्ञाचक्रस्थं शिशिरकरबिम्बे रविनिभं दृढव्यालीढं सद्विगलितसुधासारविसरम् ॥ ३३॥ महाव्योमस्थेन्दोरमृतलहरीप्लाविततनुः *प्रशुषद्वै नाडीप्रकरमनिशं प्लावयति तत् । varप्रशुष्यद्वेशन्त यदाज्ञायां विद्युन्नियुतनियुताभाक्षरमयी *स्थिता विद्युल्लेखा भगवति विधिग्रन्थिमभिनत् ॥ ३४॥ varसिता ततो गत्वा ज्योत्स्नामयसमयलोकं *समयिनां varससमया पराख्या सादाख्या जयति शिवतत्त्वेन मिलिता । सहस्रारे पद्मे शिशिरमहसां बिम्बमपरं तदेव श्रीचक्रं सरघमिति तद्वैन्दवमिति ॥ ३५॥ वदन्त्येके सन्तः परशिवपदे तत्त्वमिलिते ततस्त्वं *षट्विंशी भवसि शिवयोर्मेलनवपुः । varषट्त्रिंशा त्रिखण्डेऽस्मिन्स्वान्ते परमपदपर्यङ्कसदने परे सादाख्येऽस्मिन्निवसति *चतुर्धैक्यकलनात् ॥ ३६॥ varचतुर्थैक्य *क्षितौ वह्निर्वह्नौ वसुदलजले दिङ्मरुति दि- varमहावह्नि *क्कलाश्रे मन्वश्रं दृशि *वसुरथो राजकमले । varक्कलारे, वसुरधो *प्रतिद्वैतग्रन्थिस्तदुपरि चतुर्द्वारसहितं varप्रतिद्वैतद्ग्रन्थि *महीचक्रं चैकं भवति भगकोणैक्यकलनात् ॥ ३७॥ varमहाचक्रं इति मन्त्रचक्रैक्यम्॥ *षडब्जारण्ये त्वां समयिन इमे पञ्चकसमां varषडब्जारण्यैस्त्वां यदा संविद्रूपां विदधति च षोढैक्यकलिताम्* । varकलितम् मनो जित्वा *चाज्ञासरसिज इह पादुरभव- varसरसिजमिह त्तडिल्लेखा नित्या भगवति तवाधारसदनात् ॥ ३८॥ भवत्साम्यं केचित्त्रितयमिति *कौलप्रभृतयः varकौम्भप्र परं तत्त्वाख्यं *चेत्यपरमिदमाहुः समयिनः । varचेत्स पर इद, परमिद क्रियावस्थारूपं प्रकृतिरभिधापञ्चकसमं तदेषां साम्यं *स्यादवनिषु च यो वेत्ति स मुनिः ॥ ३९॥ varत्वामवनिषु इत्यैक्यनिरूपणम्॥ वशिन्याद्या अष्टावकचटतपाद्याः प्रकृतयः स्ववर्गस्थाः स्वस्वायुधकलितहस्ताः स्वविषयाः । *यथावर्गं वर्णप्रचुरतनवो याभिरभवं- varयदा वर्गा वर्णप्रचुरतरवो स्तव प्रस्तारास्ते त्रय इति जगुस्ते समयिनः ॥ ४०॥ इमा नित्या वर्णास्तव चरणसंमेलनवशा- न्महामेरुस्थाः *स्युर्मनुमिलनकैलासवपुषः । varस्थास्यन्मनु वशिन्याद्या एता अपि *तव सबिन्द्वात्मकतया varच सहबि महीप्रस्तारोऽयं क्रम इति रहस्यं समयिनाम् ॥ ४१॥ इति प्रस्तारत्रयनिरूपणम्॥ भवेन्मूलाधारं तदुपरितनं चक्रमपि त- द्द्वयं तामिस्राख्यं शिखिकिरणसंमेलनवशात् । तदेतत्कौलानां प्रतिदिनमनुष्ठेयमुदितं भवत्या वामाख्यं मतमपि परित्याज्यमुभयम् ॥ ४२॥ अमीषां कौलानां भगवति भवेत्पूजनविधि- स्तव स्वाधिष्ठाने तदनु च भवेन्मूलसदने । अतो बाह्या पूजा भवति भगरूपेण च ततो निषिद्धाचारोऽयं निगमविरहोऽनिन्द्यचरिते ॥ ४३॥ नवव्यूहं कौलप्रभृतिकमतं* तेन स विभु- varप्रभृतिकमिदं र्नवात्मा देवोऽयं जगदुदकृद्भैरववपुः* । varकृच्छैशंववपुः नवात्मा वामादिप्रभृतिभिरिदं *भैरववपु- varबैन्दववपुः र्महादेवी ताभ्यां जनकजननीमज्जगदिदम् ॥ ४४॥ भवेदेतच्चक्रद्वितयमतिदूरं समयिनां विसृज्यैतद्युग्मं तदनु मणिपूराख्यसदने । त्वया *सृष्टैर्वारिप्रतिफलितसूर्येन्दुकिरणै- varसृष्टे वारि *र्द्विधा लोके पूजां विदधति भवत्याः समयिनः ॥ ४५॥ varर्विभालोके अधिष्ठानाधारद्वितयमिदमेवं* दशदलं varमेतद्दश सहस्राराज्जातं *मणिपुरमतोऽभूद्दशदलम् । varमणिपुरमितो हृदम्भोजान्मूलान्नृपदलमभूत्स्वान्तकमलं तदेवैको बिन्दुर्भवति जगदुत्पत्तिकृदयम् ॥ ४६॥ सहस्रारं बिन्दुर्भवति च ततो बैन्दवगृहं तदेतस्माज्जातं जगदिदमशेषं *सकरणम् । varन करणम् ततो मूलाधाराद्द्वितयमभवत्तद्दशदलं सहस्राराज्जातं तदिति दशधा बिन्दुरभवत् ॥ ४७॥ तदेतद्बिन्दोर्यद्दशकमभवत्तत्प्रकृतिकं दशारं सूर्यारं नृपदलमभूत्स्वान्तकमलम्* । varन्नेत्रकमलम् रहस्यं कौलानां द्वितयमभवन्मूलसदनं *तथाधिष्ठानं च प्रकृतिमिह *सेवन्त इह ते ॥ ४८॥ varतदा , मथ सेवन्त्विह च ते अतस्ते कौलास्ते भगवति दृढप्राकृतजना इति प्राहुः प्राज्ञाः कुलसमयमार्गद्वयविदः । महान्तः सेवन्ते सकलजननीं बैन्दवगृहे शिवाकारां नित्याममृतझरिकामैन्दवकलाम् ॥ ४९॥ इदं *कालोत्पत्तिस्थितिलयकरं पद्मनिकरं varकौलोत्पत्ति त्रिखण्डं श्रीचक्रं मनुरपि *च तेषां च मिलनम् । varतु तदैक्यं षोढा वा भवति च चतुर्धेति च तथा तयोः साम्यं पञ्चप्रकृतिकमिदं शास्त्रमुदितम् ॥ ५०॥ उपास्तेरेतस्याः फलमपि च सर्वाधिकमभू- त्तदेतत्कौलानां फलमिह हि चैतत्समयिनाम् । सहस्रारे पद्मे सुभगसुभगोदेति* सुभगे varक्तेति सुभगं परं सौभाग्यं यत्तदिह तव सायुज्यपदवी ॥ ५१॥ *अतोऽस्याः संसिद्धौ सुभगसुभगाख्या गुरुकृपा- varअतस्ते संसिद्धा कटाक्षव्यासङ्गात्स्रवदमृतनिष्यन्दसुलभा । तया विद्धो योगी विचरति निशायामपि दिवा *दिवा भानू रात्रौ विधुरिव *कृतार्थीकृतमतिः ॥ ५२॥ varदिवा वा रात्रौ वा, कृतार्थीकृत इति इति श्रीगौडपादाचर्यविरचिता सुभगोदयस्तुतिः सम्पूर्णा ।