अक्षर आकार:

स्तवकल्पद्रुमः

Stavakalpadrumah

स्तवकल्पद्रुमः

श्रीगणेशाय नमः । श्रीगङ्गा-प्रणामः नवद्वीपारामप्रकरकुसुमामोदवलितां स्फुरद्रत्नश्रेणीचित-तट-सुतीर्थावलियुताम् । हरेगौर्रराङ्गस्यातुल-चरण-रेणूक्षित-तनुं समुद्यत्-प्रेमोर्मीतुमुलहरिसङ्कीर्तन-रसैः ॥ १॥ प्रभुक्रीडापात्रीममृतरसगात्रीमृषितटां शिवब्रह्मेन्द्रादीडित-महित-माहात्म्यमुखराम् । लसत्-किञ्जल्काम्भोजनि-मधुप-गर्भोरुकरुणा महं वन्दे गङ्गामघ-निकर-भङ्गां जलकणाम् ॥ २॥ सद्यः पातकसंहन्त्री सद्यो दुःखविनाशिनी । सुखदा मोक्षदा गङ्गा गङ्गैव परमा गतिः ॥ ३॥ श्रीगङ्गास्नानमन्त्रः विष्णुपाद-प्रसूताऽसि वैष्णवी विष्णुदेवता । पाहि नस्त्वेनसस्तस्मादाजन्ममरणान्तिकात् ॥ १॥ श्रीगङ्गास्तवः गङ्गे समस्तजगदम्ब चलत्तरङ्गेऽ नङ्गारिचारुतरमस्तकपुष्पमाले । कंसारिचारुचरणद्वयरेणुहर्षि भक्त्या नमामि दुरितक्षयकारिणि त्वाम् ॥ १॥ मातः समस्तसुखदे प्रवरे नदीनां व्यासादिविप्रचयगीतगुणे गुणाढ्ये । संसारभैरवमहार्णवमध्यनौके वन्दे तवाङ्घ्रियुगलं दुरितापहारि ॥ २॥ यस्यास्तवाम्बु कणिकामपि जन्हुकन्ये ! सौदासनामनृपतिर्द्विजकोटिहन्ता । संप्राप्य मुक्तिमगमत् त्रिदशैरलभ्यां तां त्वां नमामि शिरसा वरदे ! प्रसीद ॥ ३॥ नारायणाच्युतजनार्दनकृष्णराम गङ्गादिनाम वदतो मम देवि ! मातः ! । संसारपातकनिवारिणि देहपात स्त्वद्वारिणीह भवतु त्वदनुग्रहेण ॥ ४॥ किंवा तपोभिरखिलेश्वरि ! किं जपैर्वा दानैश्च किं तुरगमेधमुखैमखैर्वा । त्वन्नीरशीकरमवाप्य सुरैरलभ्यां मुक्तिं व्रजन्ति मनुजा अपि पापिनोऽपि ॥ ५॥ स्वाहा त्वमेव परमेश्वरि ! या स्वधा त्वं गीर्वाणवृन्दपितृलोकसुतृप्तिहेतुः । सत्त्वं रजस्तम इति त्रिगुणस्वरूपा सृष्टिस्थितिप्रलयकारिणि नौमि तां त्वाम् ॥ ६॥ धत्ते ललाटफलके तव सैकतं यः पुण्ड्रं च देवि तव तीरमृदा सदैव । त्वत्राम सर्वरसधाम वदेच्च भक्त्या तत्पादरेणुरखिलोऽस्तु ममैव मूधिर्न ॥ ७॥ इति स्तवकल्पद्रुमः श्रीगङ्गा-प्रणामः सम्पूर्णः ।