अक्षर आकार:

सिद्धशारदास्तुतिः

Siddhasharadastutih

सिद्धशारदास्तुतिः

सरस्वतीं शारदां च कौमारीं ब्रह्मचारिणीम् । वागीश्वरीं बुद्धिदात्रीं भारतीं भुवनेश्वरीम् ॥ १॥ चन्द्रघण्टां मरालस्थां जगन्मातरमुत्तमाम् । वरदायिनीं सदा वन्दे चतुर्वर्गफलप्रदाम् ॥ २॥ द्वादशैतानि नामानि सततं ध्यानसंयुतः । यः पठेत् तस्य जिह्वाग्रे नूनं वसति शारदा ॥ ३॥ इति श्री ``द्विजेन्द्र''कविकृता सिद्धशारदास्तुतिः समाप्ता ।