अक्षर आकार:

श्रीसिद्धसरयूस्तोत्राष्टकम्

Shri Siddhasarayustotrashtakam

श्रीसिद्धसरयूस्तोत्राष्टकम्

श्रीरामनाममहिमानमुदीरयन्ती तद्धाम-साम-गुण-गौरवमुद्गीरन्ती । आपूर-पूर-परिपूत-गभीरघोषा दोषाटवी-विघटनं सरयूस्तनोतु ॥ १॥ श्रीभारतीय-विजय-ध्वज-शैलराज- प्रोड्डीयमान-कलकेतन-कीर्तिवल्ली । श्रीमानसोत्तरसरः-प्रभवाद्यशक्ति- र्मूर्ता नदीशतनुता सरयूर्विभाति ॥ २॥ साकेत-गौरवगिरः परिबृंहयन्ती श्रीराघवेन्द्रमभितःकिल दर्शयन्ती । गङ्गां भृगुप्रवरतीर्थमनुस्रवन्ती धन्या पुनातु सरयूर्गिरिराजकन्या ॥ ३॥ इक्ष्वाकुमुख्य-रविवंश-समर्चिताङ्घ्रि- र्दिव्यावदात-जलराशि-लसत्प्रवाहा । पापौघ -काननघटा -दहनप्रभावा दारिद्र्य-दुःख-दमनी सरयूर्धिनोतु ॥ ४॥ त्रैलोक्यपुण्यमिव विद्रुतमेकनिष्ठं निस्तन्द्र-चन्द्रकिरणामृत-लोभनीयम् । सर्वार्थदं सकल-मङ्गल-दानदक्षं वन्दे प्रवाहमतुलं ललितं सरय्वाः ॥ ५॥ नित्यं समस्त-जन-तापहरं पवित्रं देवासुरार्चितमुदग्र -समग्रधारम् । हारं हरेर्हरिण-रेणुविलासकूलं श्रीसारवं सलिलमुद्धमुपघ्नमीडे ॥ ६॥ वन्याः सरिद्-द्रुमलता-गज-वाजि-सिंहा हंसाः शुका हरिण-मर्कट-कोल-कीटाः । मत्स्या भुजङ्ग-कमठा अपि संश्रितास्त्वां पूज्या भवन्ति जगतां महिता महार्हाः ॥ ७॥ एकादशीमथ महानवमीं भजन्तो दिव्यावगाहनरता समुपेत्य धीराः । श्रीजानकीशचरणाम्बुज -दत्तचित्ता- नावर्तयन्ति भवमत्र जले सरय्वाः ॥ ८॥ पुण्यैर्धन्यैर्वसिष्ठादिभिरथ मुनिभिः सेवितां दिव्यदेहां गौराङ्गीं स्वर्णरत्नोज्ज्वल-पटल-लसद्-भूषणाख्यां दयार्द्राम् । श्रीनागेशाभिमुख्यां सुरवरझरिणीं सर्वसिद्धिप्रदात्रीं तोष्टये ब्रह्मरूप-प्रकटित-सरयूं कोटिसूर्य-प्रकाशाम् ॥ ९॥ देव्याः सरय्वाः स्तवनं सर्वमङ्गल-मङ्गलम् । श्रीरामेश्वरयोः सद्यो वशीकरणमुत्तमम् ॥ १०॥ काशीपीठाधिनाथेन शङ्कराचार्यभिक्षुणा । महेश्वरेण रचितः स्तवोऽयं सत्सु राजताम् ॥ ११॥ इति काशीपीठाधीश्वर-जगद्गुरु शङ्कराचार्य-स्वामि- श्रीमहेश्वरानन्दसरस्वतीविरचितं सिद्धसरयूस्तोत्राष्टकं सम्पूर्णम् ।