अक्षर आकार:

सिद्धसरस्वतीस्तोत्रम् २

Siddhasarasvatistotram 2

सिद्धसरस्वतीस्तोत्रम् २

ॐ अस्य श्रीसरस्वतीस्तोत्रमन्त्रस्य मार्कण्डेयऋषिः, स्रग्धरा-ऽनुष्टुप्-छन्दः, सरस्वतीदेवता, ऐं वीजं, वद वद शक्तिः, स्वाहा कीलकं मम वाक् सिद्ध्यर्थं जपे विनियोगः । न्यासः - ॐ ह्रीं अङ्गुष्ठाभ्यां नमः । ॐ ऐं तर्जनीभ्यां नमः । धी मध्यमाभ्यां नमः । ॐ क्लीं अनामिकाभ्यां नमः । ॐ सौं कनिष्ठि- काभ्यां नमः । ॐ श्रीं करतलकरपृष्ठाभ्यां नमः । हृदयादिन्यासः - ॐ ह्रीं हृदयाय नमः । ॐ ऐं शिरसे स्वाहा । ॐ धीं शिखायै वषट् । ॐ क्लीं नेत्रत्रयाय वौषट् । ॐ सौं कवचाय हुम् । ॐ श्रीं अस्त्राय फट् । ध्यानं - शुक्लां ब्रह्मविचार-सार-परमामाद्यां जगद्व्यापिनीं वीणा-पुस्तक-धारिणीमभयदां जाड्यान्धकारापहाम् । हस्ते स्फाटिक-मालिकां विदधतीं पद्मासने संस्थितां वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥ १॥ दोर्भिर्युक्तैश्चतुर्भिः स्फटिकमणिमयीमक्षमालां दधानां हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण । पाशं वीणां मुकुन्द-स्फटिकमणिनिभां भासमाना समाना सा मे वादे च तथ्यं निवसतु वदने सर्वदा सुप्रसन्ना ॥ २॥ या कुन्देन्दु-तुषार-हार-धवला या शुभ्रवस्त्रावृता या वीणा-वर-दण्ड-मण्डितकरा या श्वेतपद्मासना । या ब्रह्मा-ऽच्युत-शङ्कर-प्रभृतिभि-र्देवैः सदा वन्दिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥ ३॥ इति ध्यात्वा, १०८ मन्त्रं जपेत् । ॐ ऐं धीं क्लीं सौं श्रीं सरस्वत्यै नमः ॥ ह्रीं ह्रीं ह्रीं हृद्यैकबीजे शशि-रुचि-कमले कल्पविस्पष्टशोभे भव्ये व्यानुकूले शुभमतिवरदे विश्ववन्द्याङ्घ्रिपद्मे । पद्मे पद्मोपविष्टे प्रणत-जनमनोमोद-सम्पादयित्रि प्रोत्फुल्लज्ञानकूले हरिहरनमिते देवि! संसारसारे ॥ १॥ ऐं ऐं ऐं जाप्यतुष्टे हिमरुचि-मुकुटे वल्लकीव्यग्रहस्ते मातर्मातर्नमस्ते दह दह जडतां देहि बुद्धिं प्रशस्ताम् । विद्ये वेदान्तवेद्ये श्रुतिपरिपठिते मोक्षदे मुक्तिमार्गे मार्गातीतस्वरूपे भव मम वरदे शारदे शुभ्रहारे ॥ २॥ धीं धीं धीं धारणाख्ये धृति-मति-नुतिभिर्नामभिः कीर्तनीये नित्ये नित्ये निमित्ते मुनिजन-नमिते नूतने वै पुराणे । पुण्ये पुण्यप्रभावे हरिहरनमिते पूर्णतत्त्वस्वरूपे मातर्मात्रार्थतत्त्वे! मति-मति-मतिदे! माधवप्रीतिनादे ॥ ३॥ क्लीं क्लीं क्लीं सुस्वरूपे दह दह दुरितं पुस्तकं व्यग्रहस्ते सन्तुष्टाकारचित्ते स्मितमुखि सुभगे जृम्भिणि स्तम्भनीये । मोहे मुग्धप्रबोधे मम कुरु कुमति-ध्वान्त-विध्वंसमीड्ये गी-गौं-र्वाग्भारतीत्वं कविधृतरसने सिद्धिदे सिद्धिसाध्ये ॥ ४॥ सौं सौं सौं शक्तिबीजे कमल-भवमुखाम्भोजमूर्तिस्वरूपे रूपे रूपप्रकाशे सकलगुणमये निर्गुणं निर्विकल्पे । न स्थूले नैव सूक्ष्मेऽप्यविदितविभवे जाप्यविज्ञानतुष्टे विश्वे विश्वान्तराले सकलगुणमये निष्कले नित्यशुद्धे ॥ ५॥ श्रीं श्रीं श्रीं स्तौमि त्वाऽहं मम खलु रसनां मा कदाचित् त्यज त्वं मा मे बुद्धिर्विरुद्धा भवतु मम मनो पातु मां देवि! पापात् । मा मे दुःखं कदाचित् क्वचिदपि विषये पुस्तके नाकुलत्वं शास्त्रे वादे कवित्वे प्रसरतु मम धीर्मास्तु कुण्ठा कदाऽपि ॥ ६॥ इत्येतैः श्लोकमुख्येः प्रतिदिनमुषसि स्तौति यो भक्तिनम्रो वाणी वाचस्पतेरप्यविदितविभवो वाक्यतत्त्वार्थवेत्ता । स स्यादिष्टार्थलाभी सुतमिव सततं पातु तं सा च देवी सौभाग्यं तस्य लोके प्रसरतु कविता विघ्नमस्तं प्रयातु ॥ ७॥ निर्विघ्नं तस्य विद्या प्रभवति सततं चाऽऽशु ग्रन्थप्रबोधः कीर्तिस्त्रैलोक्यमध्ये निवसति वदने शारदा तस्य साक्षाद् । दीर्घायुर्लोकपूज्यः सकलगुणनिधिः सन्ततं राजमान्यते वाग्देव्याः संप्रसादात् त्रिजगति विजयो जायते तस्य साक्षाद् ॥ ८॥ ब्रह्मचारी व्रती मौनी त्रयोदश्यामहर्निशम् । सारस्वतो जनः पाठाद् भवेदिष्टार्थलाभवान् ॥ ९॥ पक्षद्वये त्रयोदश्यामेकविंशतिसङ्ख्यया । अविच्छिन्नं पठेद्यस्तु सुभगो लोकविश्रुतः । वाञ्छितं फलमाप्नोति षण्मासैर्नाऽत्र संशयः ॥ १०॥ ॐ ह्रीं ऐं धीं क्लीं सौं श्रीं वद वद वाग्वादिन्यै स्वाहा । मालां शिरसि धृत्वा- त्वं माले! सर्वदेवानां सर्वकामप्रदा मता । तेन सत्येन मे सिद्धिं देहि मातर्नमोऽस्तु ते ॥ इत्यर्पणम् ॥ ११॥ इति सनत्कुमारसंहितायां सिद्धसरस्वतीस्तोत्रं सम्पूर्णम् ।