अक्षर आकार:

श्यामलानवरत्नमालिकास्तवम्

Shyamala Navaratnamalika Stavam

श्यामलानवरत्नमालिकास्तवम्

ध्यानश्लोकौ - कचाञ्चितविपञ्चिकां कुटिलकुन्तलालङ्कृतां कुशेशयनिवेशिनीं कुटिलचित्तविद्वेषिणीम् । मदालसगतिप्रियां मनसिजारिराज्यश्रियं मतङ्गकुलकन्यकां मधुरभाषिणीमाश्रये ॥ कुन्दमुकुलाग्रदन्तां कुङ्कुमपङ्केन लिप्तकुचभाराम् । आनीलनीलदेहामम्बामखिलाण्डनायिकां वन्दे ॥ अथ स्तोत्रम् - ओङ्कारपञ्जरशुकीमुपनिषदुद्यानकेलिकलकण्ठीम् । आगमविपिनमयूरीमार्यामन्तर्विभावये गौरीम् ॥ १॥ दयमानदीर्घनयनां देशिकरूपेण दर्शिताभ्युदयाम् । वामकुचनिहितवीणां वरदां सङ्गीतमातृकां वन्दे ॥ २॥ श्यामलिमसौकुमार्यां सौन्दर्यानन्दसम्पदुन्मेषां तरुणिमकरुणापूरां मदजलकल्लोललोचनां वन्दे ॥ ३॥ नखमुखमुखरितवीणानादरसास्वादनवनवोल्लासम् । मुखमम्ब मोदयतु मां मुक्ताताटङ्कमुग्द्धहसितं ते ॥ ४॥ सरिगमपधनिरतां तां वीणासङ्क्रान्तकान्तहस्तान्ताम् । शान्तां मृदुलस्वान्तां कुचभरतान्तां नमामि शिवकान्ताम् ॥ ५॥ अवटुतटघटितचूलीताडिततालीपलाशताटङ्काम् । वीणावादनलेशाकम्पितशीर्षां नमामि मातङ्गीम् ॥ ६॥ वीणारवानुषङ्गं विकलकचामोदमाधुरीभृङ्गम् । करुणापूरतरङ्गं कलये मातङ्गकन्यकापाङ्गम् ॥ ७॥ मेचकमासेचनकं मिथ्यादृष्टान्तमद्ध्यभागं ते । मातस्तव स्वरूपं मङ्गलसङ्गीतसौरभं वन्दे ॥ ८॥ मणिभङ्गमेचकाङ्गीं मातङ्गीं नौमि सिद्धमातङ्गीम् । यौवनवनसारङ्गीं सङ्गीताम्भोरुहानुभवभृङ्गीम् ॥ ९॥ नवरत्नमाल्यमेतद्रचितं मातङ्गकन्यकाऽऽभरणम् । यः पठति भक्तियुक्तस्सफलस्स भवति शिवाकृपापात्रम् ॥ १०॥ प्रपञ्चपञ्चीकृतकनिदानपदपांसवे । वीणावेणुशुकालापप्रवीणमहसे नमः ॥ ११॥ इति श्यामलानवरत्नमालिकास्तवः सम्पूर्णः ।