अक्षर आकार:

श्रीविद्यारत्नसूत्राणि

shri vidya ratna sutras

श्रीविद्यारत्नसूत्राणि

श्रीविद्यारत्नसूत्राणि ॥ श्रीगौडपादाचार्यकृतम् ॥ अथ शाक्तमन्त्रागमाजिज्ञासा ॥ १॥ आत्मैवाऽखण्डाकारः ॥ २॥ चैतन्यस्वरूपा चिच्छक्तिः ॥ ३॥ सैवेयमनामाख्या श्रीविद्या ॥ ४॥ तत्त्वत्रयेण सा विविधा ॥ ५॥ कोणपत्रसमुच्चयं चक्रम् ॥ ६॥ सा शाम्भवी विद्या श्यामा तत्त्वत्रयाकृतिस्त्रिविधा जाता ॥ ७॥ विद्यायाः पूर्वोत्तराभ्यामनेकविद्या जाताः ॥ ८॥ ता विद्याः परिवारा इति ॥ ९॥ श्यामायाः पूर्वस्मिन् स्थिताः ॥ १०॥ याम्यदिशि स्थिताः सौभाग्यादयः स्वस्या उद्भवाः ॥ ११॥ तथाऽधः स्थिताः पश्चिमदिशि ॥ १२॥ शम्भव्याः परिवारा उत्तरस्मिन् ॥ १३॥ स्वयमूर्ध्वाऽकारेण ॥ १४॥ अथ चिन्तामणिगृहस्थिता त्रिपुरसुन्दरी महाविद्याऽनुत्तरा ॥ १५॥ भण्डासुरहननार्थमेकैवाऽनेका ॥ १६॥ तया मन्त्रा अनेकाश्च तथा यन्त्रतन्त्राणि ॥ १७॥ विविध भक्तिर्विविधोपासनम् ॥ १८॥ तस्मात् फलान्यनेकानि ॥ १९॥ कगजदशारद्वयमन्व स्राष्टदलस्वरपत्रत्रिवृत्तभूबिम्बसञ्ज्ञाकथितं श्रीसदनम् ॥ २०॥ मणिगणनवावरणं तस्य ॥ २१॥ स्वस्या जनित सौभाग्यायास्तन्देतत्सदनम् ॥ २२॥ स्वजत्वादेतत्पश्चिमादेः ॥ २३॥ त्रयाणां त्रयाणामावरणान्येकम् ॥ २४॥ अथ ठडतपत्रमनुस्वारधरणि शुद्धाविद्यासदनम् ॥ २५॥ तदेव तत्र वसुद्वययुक्तमनुस्वरं कुमारीसदनम् ॥ २६॥ एतयोरावरणान्ताक्षरगणनं यलषहणदहपत्रधरणि द्वदशार्द्धासदनम् ॥ २७॥ पभमजकोणस्वरजपत्रगणना धरणी श्यामासदनम् ॥ २८॥ पुष्पिण्याः परिसर्जनमेतत् ॥ २९॥ श्रीइति पुष्पिण्यादिवत् ॥ ३०॥ शारिकाशुकयोः ॥ ३१॥ एतासामावरणं सगणनम् ॥ ३२॥ जगद्रञ्जन्यादिसर्वासामेवम् ॥ ३३॥ कगतजकोणहपत्रधरणिनागाः ॥ ३४॥ तस्यावरणं सगणनम् ॥ ३५॥ समयावद्यश्वयाः सदनं शुद्धविद्यावत् ॥ ३६॥ डततकोणाथ नागनागदलस्यारधरणी सौभाग्यायाः सन्निहितासदनम् ॥ ३७॥ अथ तस्याः पञ्चावरणम् ॥ ३८॥ कहपत्रहकोणस्वरपत्रा धरणी वार्तालिसदनम् ॥ ३९॥ कगजकोणजपत्रस्वरधरणी बटुकस्य ॥ ४०॥ एवमतस्वरदला धहपत्रधरणी तिरोधानस्य ॥ ४१॥ तथैतत्समयायाः ॥ ४२॥ गगनप्रभाषड्वसुकोणपत्रस्य धरणी भुवनेशीसदनम् ॥ ४३॥ यषहकोण स्वरदलहपत्र धरणी सदनमन्नपूर्णायाः ॥ ४३॥ गगनगुणा धर्मा बिम्बविशिष्टकला भुवनेशी गुहवत् समयायाः ॥ ४४॥ गगन वसुकोणद्वयपत्रस्वरधरणी तुर्यासदनम् ॥ ४५॥ खजकोणद्वयपत्रस्वरवसुपत्रयगधरणी महार्द्धायाः ॥ ४६॥ द्वादशार्द्धासदनवत् स्वनायक्याः ॥ ४७॥ कलासदनवन्मिश्रविद्यायाः ॥ ४८॥ वाग्वादिन्याः कुमारिवत् ॥ ४९॥ गगनप्रभा पञ्चकोणाऽथ वसुकलापत्रभूरेखाः परागारम् ॥ ५०॥ तथैव प्रासादविशिष्टयोरुभयोः ॥ ५१॥ तुर्यासदनवच्छाम्भव्याः ॥ ५१॥ परासदनवत् समयायाः ॥ ५२॥ व्योमदहकर्ममनुपत्रा दहकोणा हरिमुखसदनम् ॥ ५३॥ व्योमजलजपत्रत्रिवृत्ता धरणी श्रीगुरोः सदनम् ॥ ५४॥ अकथादित्रिरेखशद्वितत्रिकोणमेव वा श्रिगुरोः सदनम् ॥ ५५॥ अनुत्तरविद्यानां सर्वासाँ शुद्धविद्यावत् ॥ ५६॥ वार्ताल्याः पञ्चावरणम् ॥ ५७॥ बटुकस्य षट् ॥ ५८॥ तद्वात्तित्रोधानस्य ॥ ५९॥ भुवनेशी सप्त ॥ ६०॥ षट्सन्निहितायाः ॥ ६१॥ कामेश्याः कलायास्त्रिः ॥ ६२॥ तुरीयायाः पञ्च ॥ ६३॥ षण्महार्द्धायाः ॥ ६४॥ परा प्रासादस्य च परावत् ॥ ६५॥ शाम्भव्याः पऽच ॥ ६६॥ मृगेश्यास्यस्य षट् ॥ ६७॥ चतुर्भिरावरणैर्विशिष्टं बोधकस्य सदनम् ॥ ६८॥ अथ विद्या एकविंशद्वर्णविशिष्ता ॥ ६९॥ पञ्चदशवर्णाविशिष्टा सौभाग्या ॥ ७०॥ तथैव पश्चिमा विद्या ॥ ७१॥ शतवर्णयुता श्यामा ॥ ७२॥ द्वाविंशदक्षरविशिष्टा पुष्पिणी ॥ ७३॥ द्विचत्वारिंशद्वर्णा विशिष्टा शुकविद्या ॥ ७४॥ अष्टाविंशदक्षरविशिष्टा शारिकाविद्या ॥ ७५॥ पञ्चत्रिंशदक्षरविशिष्टा हसन्ती देवता ॥ ७६॥ अक्षरत्रयविशिष्टा शुद्धविद्या ॥ ७७॥ कुमारी वर्णत्रय विशिष्टा ॥ ७८॥ दशवर्णयुता द्वादशार्द्धा ॥ ७९॥ षट्त्रिंशद्वर्णसमुचिता सौभाग्यसन्निहिता ॥ ८०॥ अष्टाविंशद्वर्णसमुच्चयो महाहेरम्बस्य मनुः ॥ ८१॥ चतुर्विंशद्वर्णसमुच्चयो बटुकस्य मनुः ॥ ८२॥ अष्टाष्टोत्तरनवत्यक्षरसमुचिता कोलवदना ॥ ८३॥ षट्पञ्चाशदक्षरैर्विशिष्टा यवनिका ॥ ८४॥ एकवर्णविशिष्टा भुवनेशी ॥ ८५॥ अथवा सप्तविंशद्वर्णविशिष्टा ॥ ८६॥ ककारादिपञ्चदशाक्षरसमुचिता कादिपञ्चदशी ॥ ८७॥ खण्डद्वययुता चतुर्थस्वरविशिष्टा कामकला ॥ ८८॥ एकाक्षरविशिष्टा मुख्या ॥ ८९॥ त्रयोदशविशिष्टा तुर्या ॥ ९०॥ नवशतवर्णविशिष्टा महार्द्धा ॥ ९१॥ द्वादशाक्षरविशिष्टाऽश्वारूढा ॥ ९२॥ एकाक्षरविशिष्टा मिश्रविद्या ॥ ९३॥ त्रयोदशवर्नविशिष्टा वाग्वादिनी ॥ ९४॥ एकवर्णविशिष्टा परा ॥ ९५॥ पराप्रसादरूपिणी वर्णद्वययुता ॥ ९६॥ वर्णैकविशिष्टा तथैव प्रासादपरा ॥ ९७॥ अथ ह्रस्वदीर्घषट्कसमुच्चयदशैकवर्णविशिष्टः पराशम्भुः ॥ ९८॥ अथ ह्रस्वाक्षरदीर्घपञ्चसमुचिता तथैव सङ्ख्या परा शाम्भवी ॥ ९९॥ अनुत्तरसङ्केतप्रधानविद्या सप्तदशवर्णविशिष्टा ॥ १००॥ अथैतासां परिवाराणामनुपरिवारा असंङ्ख्याकाः ॥ १०१॥ एतानि सूत्राण्यस्माभिर्गौडपादैरुक्तानि ॥ ॥ श्रीविद्यारत्नसूत्राणि ॥