अक्षर आकार:

श्रेयस्करीस्तोत्रम्

shreyaskarIstotram

श्रेयस्करीस्तोत्रम्

श्रीः । श्रेयस्करि श्रमनिवारिणि सिद्धविद्ये स्वानन्दपूर्णहृदये करुणातनो मे । चित्ते वस प्रियतमेन शिवेन सार्धं माङ्गल्यमातनु सदैव मुदैव मातः ॥ १॥ श्रेयस्करि श्रितजनोद्धरणैकदक्षे दाक्षायणि क्षपितपातकतूलराशे । शर्मण्यपादयुगले जलजप्रमोदे मित्रे त्रयीप्रसृमरे रमतां मनो मे ॥ २॥ श्रेयस्करि प्रणतपामरपारदान- ज्ञानप्रदानसरणिश्रितपादपीठे । श्रेयांसि सन्ति निखिलानि सुमङ्गलानि तत्रैव मे वसतु मानसराजहंसः ॥ ३॥ श्रेयस्करीति तव नाम गृणाति भक्त्या श्रेयांसि तस्य सदने च करी पुरस्तात् । किं किं न सिद्ध्यति सुमङ्गलनाममालां धृत्वा सुखं स्वपिति शेषतनौ रमेशः ॥ ४॥ श्रेयस्करीति वरदेति दयापरेति वेदोदरेति विधिशङ्करपूजितोति । वाणीति शम्भुरमणीति च तारिणीति श्रीदेशिकेन्द्रकरुणेति गृणामि नित्यम् ॥ ५॥ श्रेयस्करि प्रकटमेव तवाभिधानं यत्रास्ति तत्र रविवत्प्रथमानवीर्यम् । ब्रह्मेन्द्ररुद्रमरुतादिगृहाणि सौख्यैः पूर्णानि नाममहिमा प्रथितस्त्रिलोक्याम् ॥ ६॥ श्रेयस्करि प्रणतवत्सलता त्वयीति वाचं श‍ृणुष्व सरलां सरसां च सत्याम् । भक्त्या नतोऽस्मि विनतोऽस्मि सुमङ्गले त्वत्- पादाम्बुजे प्रणिहिते मयि सन्निधत्स्व ॥ ७॥ श्रेयस्करीचरणसेवनतत्परेण कृष्णेन भिक्षुवपुषा रचितं पठेद्यः । तस्य प्रसीदति सुरारिविमर्दनीयम्- अम्बा तनोति सदनेषु सुमङ्गलानि ॥ ८॥ यथामतिकृतस्तुतौ मुदमुपैति माता न किं यथाविभवदानतो मुदभुपैति पात्रं न किम् । भवानि तव संस्तुतिं विरचितुं न चाहं क्षमस्- तथापि मुदभेष्यसि प्रदिशसीष्टमम्ब त्वरात् ॥ ९॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यकृष्णानन्दसरस्वतीविरचितं श्रेयस्करीसुमङ्गलस्तोत्रं समाप्तम् ।