अक्षर आकार:

श्रीश्रीविद्यास्तोत्रम्

Shri Shrividya Stotram

श्रीश्रीविद्यास्तोत्रम्

ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॐ श्रीविद्यायै च विद्महे । नादबीजाय धीमहि । तन्नः शक्तिः प्रचोदयात् ॥ ह्रींबीजपूजिते देवि महामेरुनिवासिनि । श्रीषोडशाक्षरीविद्ये सुवासिनि नमोस्तु ते ॥ १॥ षोडशीपूजिते देवि षोडशीमन्त्ररूपिणि । षोडशीगुप्तसद्रूपे षोडशस्तोत्रमालिके ॥ २॥ नादबिन्दुकलारूपे नवावरणपूजिते । नानारागस्तुते देवि नारायणि नमोस्तु ते ॥ ३॥ वीणागानप्रिये मातर्वीणामृदुलसुस्वरे । वीणासँल्लयसङ्गीते वीणालये नमोस्तु ते ॥ ४॥ गानाञ्जलिससन्नूते गानमञ्जुलवाग्वरे । गानस्फूर्तिकरे मातर्गानलोले नमोस्तु ते ॥ ५॥ कविताप्रेरणे गौरि कविहृत्कमलालये । कवितोत्पलसौरभ्ये काव्यवासे नमोस्तु ते ॥ ६॥ नादोपासितसानन्दे नादाकृतिनमस्कृते । नादोपासिकहृन्नादे नादमूले नमोस्तु ते ॥ ७॥ नामरूपादिसर्वस्वे नामरूपविवर्जिते । नामरूपातिसौन्दर्ये नामरूपे नमोस्तु ते ॥ ८॥ रामनामप्रिये देवि नामगानातितोषिते । नामसङ्गीतमाधुर्ये नादरूपे नमोस्तु ते ॥ ९॥ त्यागराजगुरुस्वामिसत्सङ्गीतप्रमोदिते । शिष्यापुष्पाकृतस्तोत्ररागभावे नमोस्तु ते ॥ १०॥ मूकवाक्संस्तुते देवि मूककोकिलसुस्वने । मूकवाक्स्तुतिसुश्लोके मूकाम्बिके नमोस्तु ते ॥ ११॥ इहतृष्णापहे मातः सुज्ञानक्षीरपायने । परानन्दप्रदे मातर्वरानन्दे नमोस्तु ते ॥ १२॥ शक्तिरूपे शिवे मातः शिवरूपे शिवप्रिये । शिवशक्त्यैक्यचिद्रूपे शिवशक्ते नमोस्तु ते ॥ १३॥ प्राणशक्तिकविप्राणे आत्मशक्तिस्वरूपिणि । नादशक्तिमनःशक्ते शक्तिमूले नमोस्तु ते ॥ १४॥ आदिशक्तिमदम्ब त्वं अखिलाण्डैकरूपिणि । प्रसीद मे नमो मातः स्तोत्रमेतत्तवार्पणम् ॥ १५॥ मङ्गलं ते सुमाङ्गल्ये मङ्गलं कमलालये । मङ्गलं सर्वसत्सारे श्रीविद्ये शुभमङ्गलम् ॥ १६॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं श्रीश्रीविद्यास्तोत्रं गुरौ समर्पितम् । ॐ शुभमस्तु । Copyright Pushpa Srivatsan